मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय १३

3
विद्येश्वरसंहिता · 13

सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः

ऋषय ऊचुः

सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ।

धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा १ ।

सूत उवाच ।

सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ।

वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः २ ।

अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ।

किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ३ ।

शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ।

असूयालुः परद्रो ही चंडालद्विज उच्यते ४ ।

पृथिवीपालको राजा इतरेक्षत्रिया मताः ।

धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ५ ।

ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ।

कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ६ ।

सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ।

धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ७ ।

आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ।

व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ८ ।

निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ।

तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ९ ।

गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ।

उदण्मुखः समाविश्य प्रतिबंधेऽन्यदिण्मुखः 1.13.१० ।

जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ।

लिंगं पिधाय वामेन मुखमन्येन पाणिना ११ ।

मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ।

उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः १२ ।

अथवा देवपित्रार्षतीर्थावतरणं विना ।

सप्त वा पंच वा त्रीन्वा गुदं संशोधयेन्मृदा १३ ।

लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ।

तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् १४ ।

येन केन च पत्रेण काष्ठेन च जलाद्बहिः ।

कार्यं संत्यज्य तर्ज्जनीं दंतधावनमीरितम् १५ ।

जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ।

अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा १६ ।

आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ।

देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च १७ ।

धौतवस्त्रं समादाय पंचकच्छेन धारयेत् ।

उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु १८ ।

नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ।

वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः १९ ।

शिलादार्वादिके वापि जले वापि स्थलेपि वा ।

संशोध्य पीडयेद्वस्त्रं पितृ-णां तृप्तये द्विजाः 1.13.२० ।

जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् ।

अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति २१ ।

आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये ।

यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते २२ ।

पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ।

हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः २३ ।

ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च ।

अत्यागतिकाले च मंत्रस्नानं समाचरेत् २४ ।

प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ।

अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् २५ ।

गायत्र्! या जपमंत्रांते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ।

मंत्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजा २६ ।

अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः ।

उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा २७ ।

अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ।

आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् २८ ।

सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ।

अकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम् २९ ।

दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ।

आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् 1.13.३० ।

मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ।

ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्र श्च वै यमः ३१ ।

एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ।

ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ३२ ।

तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ।

तत्र देवालये वापि गृहे वा नियतस्थले ३३ ।

सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ।

प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ३४ ।

जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ।

त्रैलोक्यसृष्टिकर्त्तारं स्थितिकर्तारमच्युतम् ३५ ।

संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ।

ज्ञानकर्मेंद्रि याणां च मनोवृत्तीर्धियस्तथा ३६ ।

भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ।

इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ३७ ।

केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ।

सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ३८ ।

अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् ।

सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ३९ ।

मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ।

विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् 1.13.४० ।

ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ।

तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ४१ ।

महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ।

एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ४२ ।

परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ।

शतद्विदशकं देहं शिखाष्टकसमन्वितम् ४३ ।

मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ।

सहस्रं ब्राह्मदं विद्याच्छतमैंद्र प्रदं विदुः ४४ ।

इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ।

दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ४५ ।

लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ।

गायत्र्! या लक्षहीनं तु वेदकार्येन योजयेत् ४६ ।

आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ।

प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ४७ ।

दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ।

मासादौ क्रमशोऽतीते सार्धलक्षजपेन हि ४८ ।

अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ।

एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ४९ ।

धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ।

ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् 1.13.५० ।

धर्मादर्थोऽर्थतो भोगो भोगाद्वैराग्यसंभवः ।

धर्मार्जितार्थभोगेन वैराग्यमुपजायते ५१ ।

विपरीतार्थभोगेन राग एव प्रजायते ।

धर्मश्च द्विविधः प्रोक्तो द्र व्यदेहद्वयेन च ५२ ।

द्र व्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ।

धनेन धनमाप्नोति तपसा दिव्यरूपताम् ५३ ।

निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ।

कृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे ५४ ।

कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ।

द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ५५ ।

यादृशं पुण्यं पापं वा तादृशं फलमेव हि ।

द्र व्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ५६ ।

अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ।

अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ५७ ।

विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ।

धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ५८ ।

सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च ।

शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ५९ ।

चांद्रा यणसहस्रं तु ब्रह्मलोकप्रदं विदुः ।

सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् 1.13.६० ।

इंद्र लोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ।

यां देवतां पुरस्कृत्य दानमाचरते नरः ६१ ।

तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ।

अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ६२ ।

तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ।

अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ६३ ।

कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ।

अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ६४ ।

क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ।

न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ६५ ।

ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ।

मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ६६ ।

सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ।

धनधान्यादिकं सर्वं देयं वै गृहमेधिना ६७ ।

यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ।

तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ६८ ।

जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये ।

क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेवं चतुर्विधम् ६९ ।

यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ।

तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः 1.13.७० ।

ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ।

पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ७१ ।

आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ।

नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ७२ ।

वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ।

हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ७३ ।

कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ।

शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ७४ ।

अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ।

वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ७५ ।

शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ।

अकस्मादुत्थितेऽर्थे हि देयमर्धं द्विजोत्तमैः ७६ ।

असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ।

आहूय दानं कर्तव्यमात्मभोगसमृद्धये ७७ ।

पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ७८ब्।

जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ७८ ।

परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ।

विशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ७९ ।

न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ।

संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये 1.13.८० ।

अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ।

तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ८१ ।

स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ।

प्रधानहोममात्रं वा हव्याभावे समाचरेत् ८२ ।

नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ।

अथवा जपमात्रं वा सूर्यवंदनमेव च ८३।

एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ।

ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ८४ ।

अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ।

ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ८५

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशोऽध्यायः १३ ॥ ।