मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय १५

3
विद्येश्वरसंहिता · 15

देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम्

ऋषय ऊचुः

देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ।

सूत उवाच ।

शुद्धं गृहं समफलं देवयज्ञादिकर्मसु १ ।

ततो दशगुणं गोष्ठं जलतीरं ततो दश ।

ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् २ ।

ततो देवालयं विद्यात्तीर्थतीरं ततो दश ।

ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ३ ।

सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ।

गंगा गोदावरी चैव कावेरी ताम्रपर्णिका ४ ।

सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ।

ततोऽब्धितीरं दश च पर्वताग्रे ततो दश ५ ।

सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ।

कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ६ ।

त्रेतायुगे त्रिपादं च द्वापरेऽर्धं सदा स्मृतम् ।

कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्द्धके ७ ।

शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ।

तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ८ ।

विषुवे तद्दशगुणमयने तद्दश स्मृतम् ।

तद्दश मृगसंक्रांतौ तच्चंद्र ग्रहणे दश ९ ।

ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ।

जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् 1.15.१० ।

अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत् ।

विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ११ ।

जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ।

महतां संगकालश्च कोट्यर्कग्रहणं विदुः १२ ।

तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ।

पूजायाः पात्रमेते हि पापसंक्षयकारणम् १३ ।

चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ।

ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् १४ ।

पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ।

दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते १५ ।

गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ।

यथाऽर्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति १६ ।

अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ।

स्वयं शुद्धो हि पूतात्मा नरान्संत्रातुमर्हति १७ ।

गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ।

तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि १८ ।

दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ।

अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् १९ ।

ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ।

तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् 1.15.२० ।

इच्छावतः प्रदानं च संपूर्णफलदं विदुः ।

यत्प्रश्नानंतरं दत्तं तदर्धं फलदं विदुः २१ ।

यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ।

जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः २२ ।

दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ।

वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् २३ ।

गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ।

विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः २४ ।

शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ।

तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते २५ ।

दशांगमन्नं विप्रस्य भानुवारे ददन्नरः ।

परजन्मनि चारोग्यं दशवर्षं समश्नुते २६ ।

बहुमानमथाह्वानमभ्यंगं पादसेवनम् ।

वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम् २७ ।

षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् ।

नमश्चानुगमश्चैव स्वन्नदानं दशांगकम् २८ ।

दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ।

अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते २९ ।

सोमवारादिवारेषु तत्तद्वारगुणं फलम् ।

अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि 1.15.३० ।

सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् ।

अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ३१ ।

एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ।

सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ३२ ।

सहस्रेभ्यस्तथा दत्त्वाऽयुतवर्षं समश्नुते ।

एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ३३ ।

भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ।

अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ३४ ।

अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ।

अन्नं दत्त्वा तु लक्षाणां रुद्र लोके समश्नुते ३५ ।

बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ।

यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ३६ ।

वृद्धानां रुद्र बुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ।

बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ३७ ।

लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ।

वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ३८ ।

शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ।

शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ३९ ।

शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ।

कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते 1.15.४० ।

क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ।

उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ४१ ।

स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ।

गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ४२ ।

संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये ।

गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ४३ ।

रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा ।

गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ४४ ।

धनधान्याद्याश्रितानां दुरितानां निवारणम् ।

जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ४५ ।

कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ।

तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ४६ ।

भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः ।

तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ४७ ।

हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ।

आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ४८ ।

धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ।

रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ४९ ।

सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः ।

प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः 1.15.५० ।

यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ।

पनसाम्रकपित्थानां वृक्षाणां फलमेव च ५१ ।

कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ।

माषादीनां च मुद्गानां फलं शाकादिकं तथा ५२ ।

मरीचिसर्षपाद्यानां शाकोपकरणं तथा ।

यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ५३ ।

श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता ।

शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ५४ ।

वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ।

कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ५५ ।

बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ।

सर्वाभावे दरिद्र स्तु वाचा वा कर्मणा यजेत् ५६ ।

वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् ।

तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ५७ ।

येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ।

देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ५८ ।

तपश्चर्या च दानं च कर्तव्यमुभयं सदा ।

प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ५९ ।

देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः ।

इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ।

ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् 1.15.६०।

य इमं पठतेऽध्यायं यः शृणोति सदा नरः ।

तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ६१

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचदशोध्यायः १५ ।