मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय ८

3
विद्येश्वरसंहिता · 8

ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम्

नंदिकेश्वर उवाच

ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् ।

भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया १ ।

स वै तदा तत्र पतिं प्रणम्य शिवमंगणे ।

किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो २ ।

वत्सयोऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ।

नूनमर्चय खड्गेन तिग्मेन जवसा परम् ३ ।

स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम् ।

छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ४ ।

पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः ।

प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ५ ।

तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ।

निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ६ ।

अच्युत उवाच ।

त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पंचाननमीशचिह्नम् ।

तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ७ ।

इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणांगणे ।

निवर्तयामास तदा भैरवं ब्रह्मदंडतः ८ ।

अथाह देवः कितवं विधिं विगतकंधरम् ।

ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ९ ।

नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ।

ब्रह्मोवच ।

स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् 1.8.१० ।

नमस्तुभ्यं भगवते बंधवे विश्वयोनये ।

सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ११ ।

ईश्वर उवाच ।

अराजभयमेतद्वै जगत्सर्वं न शिष्यति ।

ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो १२ ।

वरं ददामि ते तत्र गृहाण दुर्लभं परम् ।

वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः १३ ।

निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः ।

अथाह देवः कितवं केतकं कूटसाक्षिणम् १४ ।

रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ।

ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् १५ ।

इत्युक्ते तत्र देवेन केतकं देवजातयः ।

सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा १६ ।

केतक उवाच ।

नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ।

सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् १७ ।

ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ।

तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् १८ ।

तथा स्तुतस्तु भगवान्केतकेन सभातले ।

न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः १९ ।

मदीयास्त्वां धरिष्यंति जन्म ते सफलं ततः ।

त्वं वै वितानव्याजेन ममोपरि भविष्यसि 1.8.२० ।

इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ।

विरराज सभामध्ये सर्वदेवैरभिष्टुतः २१

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमोऽध्यायः ८ ॥