मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय ३

3
विद्येश्वरसंहिता · 3

इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः

व्यास उवाच

इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ।

वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् १ ।

इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।

संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् २ ।

सूत उवाच ।

शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।

पुराणप्रवणं शैवं पुराणं वेदसारजम् ३ ।

यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ४ ।

वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ५ ।

सूत उवाच ।

शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ।

पुरा कालेन महता कल्पेऽतीते पुनःपुनः ६ ।

अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।

मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ७ ।

इदं परमिदं नेति विवादः सुमहानभूत् ।

तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ८ ।

वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन् ।

त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ९ ।

कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ।

ब्रह्मोवाच ।

यतो वाचो निवर्तंते अप्राप्य मनसा सह 1.3.१० ।

यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे द्रं! पूर्वकम् ।

सहभूतेंद्रि यैः सर्वैः प्रथमं संप्रसूयते ११ ।

एष देवो महादेवः सर्वज्ञो जगदीश्वरः ।

अयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित् १२ ।

रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ।

भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः १३ ।

बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते।

प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ।

यथेहांकुरतो बीजं बीजतो वा यथांकुरः १४।

तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।

दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् १५ ।

अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ।

वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं १६ ।

मुनय ऊचुः ।

अथ किं परमं साध्यं किंवा तत्साधनं परम् ।

साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः १७ ।

ब्रह्मोवाच ।

साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।

साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः १८ ।

कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।

परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः १९ ।

तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ।

तत्साधनं बहुविधं साक्षादीशेन बोधितम् 1.3.२० ।

संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ।

श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा २१ ।

मनसा मननं तस्य महासाधनमुच्यते ।

श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः २२ ।

इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम् ।

साध्यं व्रजत सर्वार्थसाधनैकपरायणाः २३ ।

प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ।

अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते २४ ।

तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ।

ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः २५ ।

क्रमान्मननपर्यंते साधनेऽस्मिन्सुसाधिते ।

शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः २६ ।

सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ।

अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् २७

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे । तृतीयोऽध्यायः ३ ॥ ।