मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय २०

3
विद्येश्वरसंहिता · 20

पार्थिवशिवलिंगपूजाविधिवर्णनम्

सूत उवाच

अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ।

वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी १ ।

सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ।

ब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् २ ।

नैत्यिकं सकलं कामं विधायानंतरं पुमान् ।

शिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः ३ ।

वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ।

पूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ४ ।

नदीतीरे तडागे च पर्वते काननेऽपि च ।

शिवालये शुचौ देशे पार्थिवार्चा विधीयते ५ ।

शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ।

शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ६ ।

विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ।

वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ७ ।

संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः ।

अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ८ ।

संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः ।

विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ९ ।

ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये ।

तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः 1.20.१० ।

नमः शिवाय मंत्रेणार्चनद्र व्यं च प्रोक्षयेत् ।

भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ११ ।

आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत् ।

नमस्ते रुद्र मंत्रेण फाटिकाबंधमुच्यते १२ ।

शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ।

नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् १३ ।

नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान् ।

चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् १४ ।

भक्तितस्तत एतत्ते रुद्रा येति च मंत्रतः ।

आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् १५ ।

मानो महन्तमिति च मंत्रेणावाहनं चरेत् ।

याते रुद्रे ण मंत्रेण संचरेदुपवेशनम् १६ ।

मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ।

अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् १७ ।

मनुना सौजीव इति देवतान्यासमाचरेत् ।

असौ योवसर्पतीति चाचरेदपसर्पणम् १८ ।

नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ।

अर्घ्यं च रुद्र गायत्र्! याऽचमनं त्र्! यंबकेण च १९ ।

पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ।

दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् 1.20.२० ।

घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः ।

मधुवाता मधुनक्तं मधुमान्न इति त्र्! यृचा २१ ।

मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ।

अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च २२ ।

मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ।

नमो धृष्णवे इति वा उत्तरीयं च धापयेत् २३ ।

या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ।

शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् २४ ।

नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ।

नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् २५ ।

नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ।

नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् २६ ।

नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ।

दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा २७ ।

नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ।

मनुना त्र्! यम्बकमिति पुनराचमनं स्मृतम् २८ ।

इमा रुद्रा येति ऋचा कुर्यात्फलसमर्पणम् ।

नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् २९ ।

मानो महांतमिति च मानस्तोके इति ततः ।

मंत्रद्वयेनैकदशाक्षतै रुद्रा न्प्रपूजयेत् 1.20.३० ।

हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् ।

देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ३१ ।

दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ।

पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा ३२ ।

मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ।

मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः ३३ ।

एषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् ।

यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ३४ ।

नमःसेनेति मंत्रेण महामुद्रा ं! प्रदर्शयेत् ।

दर्शयेद्धेनुमुद्रा ं! च नमो गोभ्य ऋचानया ३५ ।

पंचमुद्रा ः! प्रदर्श्याथ शिवमंत्रजपं चरेत् ।

शतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः ३६ ।

ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः ।

देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ३७ ।

इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः ।

समासतश्च शृणुत वैदिकं विधिमुत्तमम् ३८ ।

ऋचा सद्योजातमिति मृदाहरणमाचरेत् ।

वामदेवाय इति च जलप्रक्षेपमाचरेत् ३९ ।

अघोरेण च मंत्रेण लिंगनिर्माणमाचरेत् ।

तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि 1.20.४० ।

संयोजयेद्वेदिकायामीशानमनुना हरम् ।

अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः ४१ ।

पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा ।

कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ४२ ।

भवाय भवनाशाय महादेवाय धीमहि ।

उग्राय उग्रनाशाय शर्वाय शशिमौलिने ४३ ।

अनेन मनुना वापि पूजयेच्छंकरं सुधीः ।

सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ४४ ।

इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ।

प्रोच्यतेन्यविधिः सम्यक्साधारणतया द्विजः ४५ ।

पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः ।

तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ४६ ।

हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ।

शिवः पशुपतिश्चैव महादेव इति क्रमात् ४७ ।

मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।

स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ४८ ।

ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ।

कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ४९ ।

कृत्वा न्यासविधिं सम्यक्षडण्गकरयोस्तथा ।

षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत् 1.20.५० ।

कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ।

भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिंगितविश्वभूषणम् ५१ ।

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ।

पद्मासीनं समंतात्स्थितममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ५२ ।

इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम् ।

जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि ५३ ।

स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ।

नानाभिधाभिर्विप्रेन्द्रा ः! पठेद्वै शतरुद्रि यम् ५४ ।

ततः साक्षतपुष्पाणि गृहीत्वांजलिना मुदा ।

प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः ५५ ।

तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहं सदा मृड ।

कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे ५६ ।

अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ।

कृतं तदस्तु सफलं कृपया तव शंकर ५७ ।

अहं पापी महानद्य पावनश्च भवान्महान् ।

इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ५८ ।

वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।

न ज्ञातोसि महादेव कुतोहं त्वं महाशिव ५९ ।

यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ।

रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर 1.20.६० ।

इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ।

प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ६१ ।

ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ।

पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ६२ ।

ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ।

कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ६३ ।

इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ।

भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ६४ ।

इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि ।

सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ६५ ।

आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च ।

पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ६६

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशोऽध्यायः २० ।