मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय १४

3
विद्येश्वरसंहिता · 14

अग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च

ऋषय ऊचुः

अग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च ।

गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो १ ।

सूत उवाच ।

अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ।

ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि २ ।

समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ।

प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ३ ।

आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ।

हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ४ ।

औपासनाग्निसंधानं समारभ्य सुरक्षितम् ।

कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ५ ।

अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ।

अग्नित्यागभयादुक्तं समारोपितमुच्यते ६ ।

संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ।

आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ७ ।

अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ।

इंद्रा दीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ८ ।

देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ।

चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ९ ।

ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ।

ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् 1.14.१० ।

नित्यानंतरमासोयं ततस्तु न विधीयते ।

अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ११ ।

आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ।

सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः १२ ।

संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ।

आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः १३ ।

संपत्कारं स्वमायाया वरं च कृतवांस्ततः ।

जनने दुर्गतिक्रांते कुमारस्य ततः परम् १४ ।

आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः ।

रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया १५ ।

पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ।

आयुष्करं ततो वारमायुषां कर्तुरेव हि १६ ।

त्रैलोक्यसृष्टिकर्त्तुर्हि ब्रह्मणः परमेष्ठिनः ।

जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः १७ ।

आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ।

तयोः कर्त्रोस्ततो वारमिंद्र स्य च यमस्य च १८ ।

भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ।

आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् १९ ।

वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ।

स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा 1.14.२० ।

आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ।

पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् २१ ।

वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ।

अन्येषामपि देवानां पूजायाः फलदः शिवः २२ ।

देवानां प्रीतये पूजापंचधैव प्रकल्पिता ।

तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा २३ ।

स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ।

समाराधनमित्येवं षोडशैरुपचारकैः २४ ।

उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ।

नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये २५ ।

आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ।

दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा २६ ।

प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रो गजरादिकम् ।

जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः २७ ।

पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ।

आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् २८ ।

सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः ।

आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् २९ ।

काल्यादीन्भौम वारे तु यजेद्रो गप्रशांतये ।

माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् 1.14.३० ।

सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ।

पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ३१ ।

आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ।

उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ३२ ।

भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ।

षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ३३ ।

स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ।

अपमृत्युहरे मंदे रुद्रा द्री श्चं! यजेद्बुधः ३४ ।

तिलहोमेन दानेन तिलान्नेन च भोजयेत् ।

इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ३५ ।

देवानां नित्ययजने विशेषयजनेपि च ।

स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ३६ ।

तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ।

आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ३७ ।

तत्तद्रू पेण सर्वेषामारोग्यादिफलप्रदः ।

देशकालानुसारेण तथा पात्रानुसारतः ३८ ।

द्र व्यश्रद्धानुसारेण तथा लोकानुसारतः ३९ब्।

तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ३९ ।

शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ।

आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् 1.14.४० ।

तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ।

समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ४१ ।

यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ।

सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ४२ ।

दरिद्र स्तपसा देवान्यजेदाढ्यो धनेन हि ।

पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ४३ ।

पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ।

छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ४४ ।

सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ।

कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ४५ ।

य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ।

श्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ४६

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशोऽध्यायः १४ ।