मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय २१

3
विद्येश्वरसंहिता · 21

सूत सूत महाभाग व्यासशिष्य नमोस्तु ते

ऋषय ऊचुः

सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।

सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् १ ।

कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः ।

शिवपार्थिवलिंगानां कृपया दीनवत्सल २ ।

सूत उवाच ।

शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ।

यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ३ ।

अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ।

वृथा भवति सा पूजा दमदानादिकं वृथा ४ ।

संख्या पार्थिवलिंगानां यथाकामं निगद्यते ।

संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ५ ।

प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ।

लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ६ ।

विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ।

पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ७ ।

नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम् ।

पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम् ८ ।

मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ।

दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ९ ।

सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ।

मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् 1.21.१० ।

उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ।

स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ११ ।

निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् ।

महाराजभये पंचशतं ज्ञेयं विचक्षणैः १२ ।

चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम् ।

डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम् १३ ।

दारिद्र ये! पंचसाहस्रमयुतं सर्वकामदम् ।

अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः १४ ।

एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम् ।

त्रिलिंगं सर्वकामानां कारणं परमीरितम् १५ ।

उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि ।

मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः १६ ।

लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान् ।

निर्भयो हि भवेन्नूनं महाराजभयं हरेत् १७ ।

कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः ।

डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा १८ ।

सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत् ।

लिंगानामयुतेनैव कन्यकासंततिं लभेत् १९ ।

लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात् ।

लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् 1.21.२० ।

कोटिमेकां तु लिंगानां यः करोति नरो भुवि ।

शिव एव भवेत्सोपि नात्र कार्य्या विचारणा २१ ।

अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ।

भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम् २२ ।

विना लिंगार्चनं यस्य कालो गच्छति नित्यशः ।

महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः २३ ।

एकतः सर्वदानानि व्रतानि विविधानि च ।

तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता २४ ।

कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते ।

तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः २५ ।

भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम् ।

पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् २६ ।

शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः ।

यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः २७ ।

उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ।

मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् २८ ।

चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् ।

उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः २९ ।

तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् ।

इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् 1.21.३० ।

अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः ।

पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ३१ ।

न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये ।

विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ३२ ।

सर्वमेतत्परित्यज्य कर्मजालमशेषतः ।

भक्त्या परमया विद्वाँ ल्लिंगमेकं प्रपूजयेत् ३३ ।

लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् ।

संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ३४ ।

अज्ञानतिमिरांधानां विषयासक्तचेतसाम् ।

प्लवो नान्योस्ति जगति लिंगाराधनमंतरा ३५ ।

हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ।

गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा ३६ ।

नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा ।

सप्रजापतयश्चान्ये मनवः किन्नरा नराः ३७ ।

पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम् ।

प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ३८ ।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ।

पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम् ३९ ।

किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ।

अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः 1.21.४० ।

द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ।

अन्येषामपि जंतूनां वैदिकेन न संमतम् ४१ ।

वैदिकानां द्विजानां च पूजा वैदिकमार्गतः ।

कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः ४२ ।

दधीचिगौतमादीनां शापेनादग्धचेतसाम् ।

द्विजानां जायते श्रद्धानैव वैदिककर्मणि ४३ ।

यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ।

अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ४४ ।

इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः ।

पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ४५ ।

क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ ।

यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ४६ ।

शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः ।

महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ४७ ।

पूजयेत्परिवारं च ततः शंभोः सुभक्तितः ।

ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ४८ ।

ईशानं नंदिनं चंडं महाकालं च भृंगिणम् ।

वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ४९ ।

अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ।

तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः 1.21.५० ।

ततः पंचाक्षरं जप्त्वा शतरुद्रि यमेव च ।

स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा ५१ ।

ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ।

इति प्रोक्तमशेषं च शिवपूजनमादरात् ५२ ।

रात्रावुदण्मुखः कुर्याद्देवकार्यं सदैव हि ।

शिवार्चनं सदाप्येवं शुचिः कुर्यादुदण्मुखः ५३ ।

न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ।

न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ५४ ।

विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ।

बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ५५ ।

भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ।

तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ५६

॥१॥

इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः २१ ।