मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय ४

3
विद्येश्वरसंहिता · 4

मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम्

मुनय ऊचुः

मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ।

कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् १ ।

ब्रह्मोवाच ।

पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ।

तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् २ ।

गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् ।

वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति साधनमत्र मध्यम् ३ ।

येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रि येण ।

स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ४ ।

सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् ।

सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ५ ।

सूत उवाच ।

अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ।

युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ६ ।

पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ।

तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे ७ ।

गच्छन्यदृछया तत्र विमानेनार्करोचिषा ।

सनत्कुमारो भगवान्ददर्श मम देशिकम् ८ ।

ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम् ।

प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः ९ ।

दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् १०ब्।

प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा 1.4.१० ।

सनत्कुमार उवाच ।

सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ।

स शिवोथासहायोत्र तपश्चरसि किं कृते ११ ।

एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ।

धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः १२ ।

बहुधा स्थापिता लोके मया त्वत्कृपया तथा ।

एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः १३ ।

मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ।

तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् १४ ।

इत्थं कुमारो भगवान्व्यासेन मुनिनार्थितः ।

समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम् १५ ।

श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् ।

त्रयं साधनमुक्तं च विद्यते वेदसंमतम् १६ ।

पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः ।

अचले मंदरे शैले तपश्चरणमाचरम् १७ ।

शिवाज्ञया ततः प्राप्तो भगवान्नंदिकेश्वरः ।

स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः १८ ।

उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ।

श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम् १९ ।

त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् ।

श्रवणादिं त्रिकं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः 1.4.२० ।

एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः ।

जगाम स्वविमानेन पदं परमशोभनम् २१ ।

एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् ।

ऋषय ऊचुः ।

श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः २२ ।

श्रवणादित्रिकेऽशक्तः किं कृत्वा मुच्यते जनः ।

अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना २३

॥१॥

इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थोऽध्यायः ४ ॥ ।