मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय ९

3
विद्येश्वरसंहिता · 9

तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ

नंदिकेश्वर उवाच

तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ।

बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ १ ।

तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ।

पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः २ ।

पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ।

हारनूपुरकेयूरकिरीटमणिकुंडलैः ३ ।

यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः ।

पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः ४ ।

धूपदीपसितच्छत्रव्यजनध्वजचामरैः ।

अन्यैर्दिव्योपहारैश्च वाण्मनोतीतवैभवैः ५ ।

पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ।

यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ६ ।

तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ।

सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ७ ।

कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ।

तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा ८ ।

प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ।

ईश्वर उवाच ।

तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने ९ ।

दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ।

शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया 1.9.१० ।

एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ।

कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ११ ।

शिवरात्रावहोरात्रं निराहारो जितेंद्रि यः १२ब्।

अर्चयेद्वा यथान्यायं यथाबलमवंचकः १२ ।

यत्फलं मम पूजायां वर्षमेकं निरंतरम् ।

तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् १३ ।

मद्धर्मवृद्धिकालोऽयं चंद्र काल इवांबुधेः ।

प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः १४ ।

यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ।

स कालो मार्गशीर्षे तु स्यादाद्रा र्! ऋक्षमर्भकौ १५ ।

आद्रा र्यां! मार्गशीर्षे तु यः पश्येन्मामुमासखम् ।

मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः १६ ।

अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ।

अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् १७ ।

रणरंगतलेऽमुष्मिन्यदहं लिंगवर्ष्मणा ।

जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् १८ ।

अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति ।

दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको १९ ।

भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् ।

दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम् 1.9.२० ।

अनलाचलसंकाशं यदिदं लिंगमुत्थितम् ।

अरुणाचलमित्येव तदिदं ख्यातिमेष्यति २१ ।

अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ।

मुक्तिरप्यत्र जंतूनां वासेन मरणेन च २२ ।

रथोत्सवादिकल्याणं जनावासं तु सर्वतः ।

अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् २३ ।

मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ।

अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् २४ ।

तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ।

सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् २५ ।

अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम् ।

सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च २६ ।

सायुज्यमिति पंचैते क्रियादीनां फलं मतम् ।

सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् २७ ।

नंदिकेश्वर उवाच ।

इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ।

यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् २८ ।

तदुत्थापयदत्यर्थं स्वशक्त्याऽमृतधारया ।

तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ २९ ।

सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ।

नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः 1.9.३० ।

पुरस्तात्स्तंभरूपेण पश्चाद्रू पेण चार्भकौ ।

ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ३१ ।

द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ।

तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ३२ ।

तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ।

तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ ३३ ।

त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ।

मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ३४ ।

गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ।

ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ३५ ।

अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ।

ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ३६ ।

बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ।

समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ३७ ।

अनात्मानः परे सर्वे जीवा एव न संशयः ।

अनुग्रहाद्यं सर्गांतं जगत्कृत्यं च पंकजम् ३८ ।

ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ।

आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम् ३९ ।

तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ।

सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् 1.9.४० ।

सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ।

यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम् ४१ ।

लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् ।

तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ४२ ।

मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ।

महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः ४३ ।

यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् ।

तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ४४ ।

मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् ।

द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि ४५ ।

लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ।

लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ४६

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमोऽध्यायः ९ ॥