मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय २

3
विद्येश्वरसंहिता · 2

साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम्

सूत उवाच

साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।

गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् १ ।

वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ।

सर्वाघौघोद्धारकरं परत्र परमार्थदम् २ ।

कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।

विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ३ ।

तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।

सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ४ ।

तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ५ ।

तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ६ ।

तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ७ ।

तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।

यावच्छिवपुराणं हि नो देष्यति जगत्यहो ८ ।

तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ९ ।

तावत्सर्वपुराणानि प्रगर्जंति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो 1.2.१० ।

तावत्सर्वाणि तीर्थानि विवदंति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ११ ।

तावत्सर्वाणि मंत्राणि विवदंति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले १२ ।

तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले १३ ।

तावत्सर्वाणि पीठानि विवदंति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले १४ ।

तावत्सर्वाणि दानानि विवदंति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले १५ ।

तावत्सर्वे च ते देवा विवदंति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले १६ ।

तावत्सर्वे च सिद्धान्ता विवदंति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले १७ ।

अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ।

फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः १८ ।

तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ।

चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम १९ ।

एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च ।

यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् 1.2.२० ।

एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः ।

यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते २१ ।

एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।

दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् २२ ।

एतच्छिवपुराणं यस्साधारणपदेच्छया ।

अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् २३ ।

एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।

सर्वदेवार्चनफलं स प्राप्नोति न संशयः २४ ।

एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ।

यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु २५ ।

अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ।

यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् २६ ।

एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ।

शिवभक्तसभायां यो व्याकरोति स उत्तमः २७ ।

प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत् ।

इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत् २८ ।

उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ।

यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् २९ ।

कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ।

आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे 1.2.३० ।

विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ।

तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ३१ ।

एतच्छिवपुराणं हि गायते योप्यहर्निशम् ।

आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ३२ ।

एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ।

यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ३३ ।

समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम् ।

स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ३४ ।

तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके ।

त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ३५ ।

तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः ।

प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ३६ ।

कैलाससंहिता तत्र ततोऽपि परमस्मृता ।

ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ३७ ।

कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ।

कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ३८ ।

तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ।

यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ३९ ।

न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ।

तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा 1.2.४० ।

शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ।

कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ४१ ।

ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ।

मासमात्रं संहितां तां पठित्वा मुच्यते ततः ४२ ।

दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ।

पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ४३ ।

शिवालये बिल्ववने संहितां तां पठेत्तु यः ।

स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ४४ ।

संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् ।

तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ४५ ।

चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ।

बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ४६ ।

अन्यापि संहिता तत्र सर्वकामफलप्रदा ।

उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ४७ ।

तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ।

निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ४८ ।

विद्येशंच तथारौद्रं वैनायकमथौमिकम् ।

मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम् ४९ ।

कोटिरुद्र सहस्राद्यं कोटिरुद्रं तथैव च ।

वायवीयं धर्मसंज्ञं पुराणमिति भेदतः 1.2.५० ।

संहिता द्वादशमिता महापुण्यतरा मता ।

तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ५१ ।

विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ।

औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ५२ ।

त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः ।

षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ५३ ।

कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ।

सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ५४ ।

वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ।

तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ५५ ।

व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ।

शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ५६ ।

शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ।

शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ५७ ।

व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ।

चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ५८ ।

प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ।

श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ५९ ।

विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ।

तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका 1.2.६० ।

पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ।

सप्तमी वायवीयाख्या सप्तैवं संहितामताः ६१ ।

ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ।

वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ६२ ।

एतच्छिवपुराणं हि सप्तसंहितमादरात् ।

परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ६३ ।

श्रुतिस्मृतिपुराणेतिहासागमशतानि च ।

एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ६४ ।

शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न ।

संगृहीतम् ।

संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां ।

हि ६५ ।

विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ।

अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ६६ ।

शैवं पुराणतिलकं खलु सत्पुराणं ।

वेदांतवेदविलसत्परवस्तुगीतम् ।

यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां ।

गतिं वै ६७

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वितीयोऽध्यायः २ ॥ ।