मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय १९

3
विद्येश्वरसंहिता · 19

सूत सूत चिरंजीव धन्यस्त्वं शिवभक्तिमान्

ऋषय ऊचुः

सूत सूत चिरंजीव धन्यस्त्वं शिवभक्तिमान् ।

सम्यगुक्तस्त्वया लिंगमहिमा सत्फलप्रदः १ ।

यत्र पार्थिवमाहेशलिंगस्य महिमाधुना ।

सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहि तं पुनः २ ।

सूत उवाच ।

शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ।

शिवपार्थिवलिंगस्य महिमा प्रोच्यते मया ३ ।

उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ।

तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ४ ।

हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ।

संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः ५ ।

देवासुरमनुष्याश्च गंधर्वोरगराक्षसाः ।

अन्येपि बहवस्तं संपूज्य सिद्धिं गताः परम् ६ ।

कृते रत्नमयं लिंगं त्रेतायां हेमसंभवम् ।

द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ७ ।

अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा ।

अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम् ८ ।

यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ।

एवं सर्वेषु लिंगेषु पार्थिवं श्रेष्टमुच्यते ९ ।

यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ।

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते 1.19.१० ।

यथा सर्वेषु मंत्रेषु प्रणवो हि महान्स्मृतः ।

तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि ११ ।

यथा सर्वेषु वर्णेषु ब्राह्मणःश्रेष्ठ उच्यते ।

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते १२ ।

यथा पुरीषु सर्वासु काशीश्रेष्ठतमा स्मृता ।

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते १३ ।

यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ।

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्थमुच्यते १४ ।

यथा देवीषु सर्वासु शैवीशक्तिः परास्मृता ।

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते १५ ।

प्रकृत्यपार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ।

वृथा भवति सा पूजा स्नानदानादिकं वृथा १६ ।

पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ।

तुष्टिदं पुष्टिदंश्रीदं कार्यं साधकसत्तमैः १७ ।

यथा लब्धोपचारैश्च भक्त्या श्रद्धासमन्वितः ।

पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् १८ ।

यः कृत्वा पार्थिवं लिंगे पूजयेच्छुभवेदिकम् ।

इहैव धनवाञ्छ्रीमानंते रुद्रो भिजायते १९ ।

त्रिसंध्यं योर्चयंल्लिंगं कृत्वा बिल्वेन पार्थिवम् ।

दशैकादशकंयावत्तस्य पुण्यफलं शृणु 1.19.२० ।

अनेनैव स्वदेहेन रुद्र लोके महीयते ।

पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि २१ ।

जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः ।

तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते २२ ।

शिवं यः पूजयेन्नित्यं कृत्वा लिंगं तु पार्थिवम् ।

यावज्जीवनपर्यंतं स याति शिवमन्दिरम् २३ ।

मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ।

सकामः पुनरागत्य राजेन्द्रो भारते भवेत् २४ ।

निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ।

शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् २५ ।

पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ।

स याति नरकं घोरं शूलप्रोतं सुदारुणम् २६ ।

यथाकथंचिद्विधिना रम्यं लिंगं प्रकारयेत् ।

पंचसूत्रविधानां च पार्थिवेन विचारयेत् २७ ।

अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ।

द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् २८ ।

रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ।

पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् २९ ।

अखंडं तु चरं लिंगं द्विखंडमचरं स्मृतम् ।

खंडाखंडविचारोयं सचराचरयोः स्मृतः 1.19.३० ।

वेदिका तु महाविद्या लिंगं देवो महेश्वरः ।

अतो हि स्थावरे लिंगे स्मृता श्रेष्ठादिखंडिता ३१ ।

द्विखंडं स्थावरं लिंगं कर्तव्यं हि विधानतः ।

अखंडं जंगमं प्रोक्तंश् ऐवसिद्धान्तवेदिभिः ३२ ।

द्विखंडं तु चरां लिंगं कुर्वन्त्यज्ञानमोहिताः ।

नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ३३ ।

अखंडं स्थावरं लिंगं द्विखंडं चरमेव च ।

येकुर्वन्तिनरामूढानपूजाफलभागिनः ३४ ।

तस्माच्छास्त्रोक्तविधिना अखंडं चरसंज्ञकम् ।

द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ३५ ।

अखंडे तु चरे पूजा सम्पूर्णफलदायिनी ।

द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ३६ ।

अखंडे स्थावरे पूजा न कामफलदायिनी ।

प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः ३७

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः १९ । ओङ्कारेश्वरे पार्थिवलिङ्गस्यार्चनम्