मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय ७

3
विद्येश्वरसंहिता · 7

वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात्

ईश्वर उवाच

वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ।

जगच्च देवतावंशः स्वस्वकर्मणि किं नवा १ ।

प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ।

भवतामभितापेन पौनरुक्त्येन भाषितम् २ ।

इति सस्मितया माध्व्या कुमारपरिभाषया ।

समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ३ ।

अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ।

आज्ञापयद्गणेशानां शतं तत्रैव संसदि ४ ।

ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ।

गणेश्वराश्च संनद्धा नानावाहनभूषणाः ५ ।

प्रणवाकारमाद्यंतं पंचमंडलमंडितम्।

आरुरोह रथं भद्र मंबिकापतिरीश्वरः ।

ससूनुगणमिंद्रा द्याः सर्वेप्यनुययुः सुराः ६।

चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरपि वाद्यवर्गैः ।

संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ७ ।

समीक्ष्यं तु तयोर्युद्धं निगूढोऽभ्रं समास्थितः ।

समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ८ ।

अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ।

माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च ९ ।

अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ।

ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् 1.7.१० ।

महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः 11।

ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ।

निपतेतुः क्षणे नैव ह्याविर्भूते महानले १२ ।

दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ।

किमेतदद्भुताकारमित्यूचुश्च परस्परम् १३ ।

अतींद्रि यमिदं स्तंभमग्निरूपं किमुत्थितम् ।

अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि १४ ।

इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ।

तत्परौ तत्परीक्षार्थं प्रतस्थातेऽथ सत्वरम् १५ ।

आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ।

इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् १६ ।

तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ।

भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः १७ ।

नाऽपश्यत्तस्य संस्थानं स्तंभस्यानलवर्चसः ।

श्रांतः स सूकरहरिः प्राप पूर्वं रणांगणम् १८ ।

अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ।

ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् १९ ।

अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ।

अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः 1.7.२० ।

परिहासं तु कृतवान्कंपनाच्चलितं शिरः ।

तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् २१ ।

किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम् ।

आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् २२ ।

न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ।

अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः २३ ।

इतः परं सखे मेऽद्य त्वया कर्तव्यमीप्सितम् ।

मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ २४ ।

स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ।

इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ।

असत्यमपि शस्तं स्यादापदीत्यनुशासनम् २५॑!।

समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ।

उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततोऽच्युतम् २६ ।

स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ।

ततोऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके २७ ।

हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ।

षोडशैरुपचारैश्च पूजयामास तं विधिम् २८ ।

विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ।

समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् २९ ।

आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ।

स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या 1.7.३० ।

ईश्वर उवाच ।

वत्सप्रसन्नोऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ।

ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ३१ ।

इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ३२ ।

इति देवः पुरा प्रीतः सत्येन हरये परम् ।

ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ३३

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमोऽध्यायः ७ ।