मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय २३

3
विद्येश्वरसंहिता · 23

सूत सूत महाभाग व्यासशिष्य नमोस्तु ते

ऋषय ऊचुः

सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।

तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् १ ।

तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ।

त्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् २ ।

सूत उवाच ।

साधुपृष्टं भवद्भिश्च लोकानां हितकारकम् ।

भवंतो वै महाधन्याः पवित्राः कुलभूषणाः ३ ।

येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ।

सदा शिवकथा लोके वल्लभा भवतां सदा ४ ।

ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ।

उद्धृतञ्च कुलं तेषां ये शिवं समुपासते ५ ।

मुखे यस्य शिवनाम सदाशिवशिवेति च ।

पापानि न स्पृशंत्येव खदिरांगारंकयथा ६ ।

श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ।

तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ७ ।

तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः ।

तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ८ ।

यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजा ।

तस्य दर्शनमात्रेण वेणीस्नानफलंलभेत् ९ ।

शिवनामविभूतिश्च तथा रुद्रा क्ष एव च ।

एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् 1.23.१० ।

एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ।

तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ११ ।

तद्दर्शनं यथा वेणी नोभयोरंतरं मनाक् ।

एवं योनविजानाति सपापिष्ठो न संशयः १२ ।

विभूतिर्यस्य नो भाले नांगे रुद्रा क्षधारणम् ।

नास्ये शिवमयी वाणी तं त्यजेदधमं यथा १३ ।

शैवं नाम यथा गंगा विभूतिर्यमुना मता ।

रुद्रा क्षं विधिना प्रोक्ता सर्वपापाविनाशिनी १४ ।

शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ।

एकतो वेणिकायाश्च स्नानजंतुफलं बुधैः १५ ।

तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा ।

समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः १६ ।

तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः ।

धार्यते त्रितयं तच्च दर्शनात्पापहारकम् १७ ।

ऋष्य ऊचुः ।

ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ।

तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत १८ ।

सूत उवाच ।

ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ।

तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः १९ ।

सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ।

भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना 1.23.२० ।

कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः ।

महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् २१ ।

वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः ।

शृणुत प्रीतितो विप्राः सर्वपापहरं परम् २२ ।

शिवेति नामदावाग्नेर्महापातकपर्वताः ।

भस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः २३ ।

पापमूलानि दुःखानि विविधान्यपि शौनक ।

शिवनामैकनश्यानि नान्यनश्यानि सर्वथा २४ ।

स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः ।

शिवनामजपासक्तो यो नित्यं भुवि मानव २५ ।

भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ।

येषां भवति विश्वासः शिवनामजपे मुने २६ ।

पातकानि विनश्यंति यावंति शिवनामतः ।

भुवि तावंति पापानि क्रियंते न नरैर्मुने २७ ।

ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ।

शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः २८ ।

शिवनामतरीं प्राप्य संसाराब्धिं तरंति ये ।

संसारमूलपापानि तानि नश्यंत्यसंशयम् २९ ।

संसारमूलभूतानां पातकानां महामुने ।

शिवनामकुठारेण विनाशो जायते ध्रुवम् 1.23.३० ।

शिवनामामृतं पेयं पापदावानलार्दितैः ।

पापदावाग्नितप्तानां शांतिस्तेन विना न हि ३१ ।

शिवेति नामपीयूषवर्षधारापरिप्लुताः ।

संसारदवमध्येपि न शोचंति कदाचन ३२ ।

शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम् ।

तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ३३ ।

अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर ।

शिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी ३४ ।

यस्या साधारणं शंभुनाम्नि भक्तिरखंडिता ।

तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ३५ ।

कृत्वाप्यनेकपापानि शिवनामजपादरः ।

सर्वपापविनिर्मुक्तो भवत्येव न संशयः ३६ ।

भवंति भस्मसाद्वृक्षा दवदग्धा यथा वने ।

तथा तावंति दग्धानि पापानि शिवनामतः ३७ ।

यो नित्यं भस्मपूतांगः शिवनामजपादरः ।

संतरत्येव संसारं सघोरमपि शौनक ३८ ।

ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ।

न लिप्यते नरः पापैः शिवनामजपादरः ३९ ।

विलोक्य वेदानखिलाञ्छिवनामजपः परम् ।

संसारतारणोपाय इति पूर्वैर्विनिश्चितः 1.23.४० ।

किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम् ।

शिवनाम्नो महिमानं सर्वपापापहारिणम् ४१ ।

पापानां हरणे शंभोर्नामः शक्तिर्हि पावनी ।

शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ४२ ।

शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ।

इन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने ४३ ।

तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी ।

शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ४४ ।

इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ।

शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ४५

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशोऽध्यायः २३ ।