मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय २४

3
विद्येश्वरसंहिता · 24

भस्मधारणवर्णनः

सूत उवाच

द्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम् ।

तत्प्रकारमहं वक्ष्ये सावधानतया शृणु १ ।

एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ।

महाभस्म इति प्रोक्तं भस्म नानाविधं परम् २ ।

तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् ।

भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ३ ।

श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ।

अन्येषामपि सर्वेषामपरं भस्म लौकिकम् ४ ।

धारणं मंत्रतः प्रोक्तं द्विजानां मुनिपुंगवैः ।

केवलं धारणं ज्ञेयमन्येषां मंत्रवर्जितम् ५ ।

आग्नेयमुच्यते भस्म दग्धगोमयसंभवम् ।

तदापि द्र व्यमित्युक्तं त्रिपुंड्रस्य महामुने ६ ।

अग्निहोत्रोत्थितं भस्मसंग्राह्यं वा मनीषिभिः ।

अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ७ ।

अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः ।

सप्तभिधूलनं कार्यं भस्मना सजलेन च ८ ।

वर्णानामाश्रमाणां च मंत्रतो मंत्रतोपि च ।

त्रिपुंड्रोद्धूलनं प्रोक्तजाबालैरादरेण च ९ ।

भस्मनोद्धूलनं चैव यथा तिर्यक्!त्रिपुंड्रकम् ।

प्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः 1.24.१० ।

शिवेन विष्णुना चैव तथा तिर्यक्!त्रिपुंड्रकम् ।

उमादेवी च लक्ष्मींश्च वाचान्याभिश्च नित्यशः ११ ।

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः ।

अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना १२ ।

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ।

तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः १३ ।

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ।

तेषां नास्ति विनिर्मुक्तिस्संसाराज्जन्मकोटिभिः १४ ।

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।

तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि १५ ।

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।

ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः १६ ।

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।

तेषामाचरितं सर्वं विपरीतफलाय हि १७ ।

महापातकयुक्तानां जंतूनां शर्वविद्विषाम् ।

त्रिपुंड्रोद्धूलनद्वेषो जायते सुदृढं मुने १८ ।

शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित् ।

मुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः १९ ।

सितेन भस्मना कुर्य्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।

सर्वपापविनिर्मुक्तः शिवेन सह मोदते 1.24.२० ।

सितेन भस्मना कुर्याल्लाटे तु त्रिपुण्ड्रकम् ।

यो सावनादिभूतान्हि लोकानाप्तो मृतो भवेत् २१ ।

अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम् ।

त्रिपुंड्रं च रचित्वा तु विधिना भस्मना जपेत् २२ ।

अदयो वाधमो वापि सर्वपापान्वितोपि वा ।

उषःपापान्वितो वापि मूर्खो वा पतितोपि वा २३ ।

यस्मिन्देशेव सेन्नित्यं भूतिशासनसंयुतः ।

सर्वतीर्थैश्च क्रतुभिः सांनिध्यं क्रियते सदा २४ ।

त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ।

पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः २५ ।

यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ।

गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः २६ ।

बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः ।

लिंगार्चनं सदा कार्यं जप्यो मंत्रः षडक्षरः २७ ।

ब्रह्मणा विष्णुना वापि रुद्रे ण मुनिभिः सुरैः ।

भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् २८ ।

इति वर्णाश्रमाचारो लुप्तवर्णक्रियोपि च ।

पापात्सकृत्त्रिपुंड्रस्य धारणात्सोपि मुच्यते २९ ।

ये भस्मधारिणं त्यक्त्वा कर्म कुर्वंति मानवाः ।

तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः 1.24.३० ।

ते नाधीतं गुरोः सर्वं ते न सर्वमनुष्ठितम् ।

येन विप्रेण शिरसि त्रिपुंड्रं भस्मना कृतम् ३१ ।

ये भस्मधारिणं दृष्ट्वा नराः कुर्वंति ताडनम् ।

तेषां चंडालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ३२ ।

मानस्तोकेन मंत्रेण मंत्रितं भस्म धारयेत् ।

ब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वंगेषु भक्तिमान् ३३ ।

वैश्यस्त्रियं बकेनैव शूद्र ः! पंचाक्षरेण तु ।

अन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्र वत् ३४ ।

पंचब्रह्मादिमनुभिर्गृहस्थस्य विधीयते ।

त्रियंबकेन मनुना विधिर्वै ब्रह्मचारिणः ३५ ।

अघोरेणाथ मनुना विपिनस्थविधिः स्मृतः ।

यतिस्तु प्रणवेनैव त्रिपुंड्रादीनि कारयेत् ३६ ।

अतिवर्णाश्रमी नित्यं शिवोहं भावनात्परात् ।

शिवयोगी च नियतमीशानेनापि धारयेत् ३७ ।

न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ।

अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ३८ ।

भस्मस्नानेन यावंतः कणाः स्वाण्गे प्रतिष्ठिताः ।

तावंति शिवलिंगानि तनौ धत्ते हि धारकः ३९ ।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा श्चापि च संकराः ।

स्त्रियोथ विधवा बालाः प्राप्ताः पाखंडिकास्तथा 1.24.४० ।

ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा ।

नार्यो भस्म त्रिपुंड्रांका मुक्ता एव न संशयः ४१ ।

ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा ।

ज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम् ४२ ।

नाश्नीयाज्जलमन्नमल्पमपि वा भस्माक्षधृत्या विना ।

भुक्त्वावाथ गृही वनीपतियतिर्वर्णी तथा संकरः ।

एनोभुण्नरकं प्रयाति सत दागायत्रिजापेन तद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत् ४३ ।

त्रिपुंड्रं ये विनिंदंति निन्दन्ति शिवमेव ते ।

धारयंति च ये भक्त्या धारयन्ति तमेव ते ४४ ।

धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ।

धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ४५ ।

ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ।

ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ४६ ।

ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः ।

सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ४७ ।

न तांत्रिकस्त्वधिकृतो नोर्द्ध्वपुंड्रधरो मुने ।

संतप्तचक्रचिह्नोत्र शिवयज्ञे बहिष्कृतः ४८ ।

तत्रैते बहवो लोका बृहज्जाबालचोदिताः ।

ते विचार्याः प्रयत्नेन ततो भस्मरतो भवेत् ४९ ।

यच्चंदनैश्चंदनकेपि मिश्रं धार्यं हि भस्मैव त्रिपुंड्रभस्मना ।

विभूतिभालोपरि किंचनापि धार्यं सदा नो यदि संतिबुद्धयः 1.24.५० ।

स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्म द्विजादिभिरथो विधवाभिरेवम् ।

तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदा सकलाघहन्त्री ५१ ।

त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ।

महापातकसंघातैर्मुच्यते चोपपातकैः ५२ ।

ब्रह्मचारी गृहस्थो वा वानप्रस्थोथ वा यतिः ।

ब्रह्मक्षत्त्राश्च विट्शूद्रा स्तथान्ये पतिताधमाः ५३ ।

उद्धूलनं त्रिपुंड्रं च धृत्वा शुद्धा भवंति च ।

भस्मनो विधिना सम्यक्पापराशिं विहाय च ५४ ।

भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ।

वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः ५५ ।

परद्र व्यापहरणं परदाराभिमर्शनम् ।

परनिन्दा परक्षेत्रहरणं परपीडनम् ५६ ।

सस्यारामादिहरणं गृहदाहादिकर्म च ।

गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ५७ ।

अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः ।

दशवेश्यामतंगीषु वृषलीषु नटीषु च ५८ ।

रजस्वलासु कन्यासु विधवासु च मैथुनम् ।

मांसचर्मरसादीनां लवणस्य च विक्रयः ५९ ।

पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ।

एवमादीन्यसंख्यानि पापानि विविधानि च।

सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् 1.24.६०।

शिवद्र व्यापहरणं शिवनिंदा च कुत्रचित् ।

निंदा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ६१ ।

रुद्रा क्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् ।

सचांडालोपि संपूज्यस्सर्ववर्णोत्तमोत्तमः ६२ ।

यानि तीर्थानि लोकेस्मिन्गंगाद्यास्सरितश्च याः ।

स्नातो भवति सर्वत्र ललाटे यस्त्रिपुंड्रकम् ६३ ।

सप्तकोटि महामंत्राः पंचाक्षरपुरस्सराः ।

तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः ६४ ।

अन्ये मंत्राश्च देवानां सर्वसौख्यकरा मुने ।

ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम् ६५ ।

सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ।

स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुंड्रकृत् ६६ ।

इह भुक्त्वा खिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ।

जीवितांते च मरणं सुखेनैव प्रपद्यते ६७ ।

अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यवपुः शिवम् ।

दिव्यं विमानमारुह्य दिव्यत्रिदशसेवितम् ६८ ।

विद्याधराणां सर्वेषां गंधर्वाणां महौजसाम् ।

इंद्रा दिलोकपालानां लोकेषु च यथाक्रमम् ६९ ।

भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ।

ब्रह्मणः पदमासाद्य तत्र कन्याशतं रमेत् 1.24.७० ।

तत्र ब्रह्मायुषो मानं भुक्त्वा भोगाननेकशः ।

विष्णोर्लोके लभेद्भोगं यावद्ब्रह्मशतात्ययः ७१ ।

शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ।

शिवसायुज्यमाप्नोति संशयो नात्र जायते ७२ ।

सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः ।

इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ७३ ।

विभूतिं निंदते यो वै ब्राह्मणः सोन्यजातकः ।

याति च नरके घोरे यावद्ब्रह्मा चतुर्मुखः ७४ ।

श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।

धृतत्रिपुंड्रः पूतात्मा मृत्युं जयति मानवः ७५ ।

जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि ।

मंत्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ७६ ।

सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।

तत्फलं समवाप्नोति भस्मस्नानकरो नरः ७७ ।

भस्मस्नानं परं तीर्थं गंगास्नानं दिने दिने ।

भस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम् ७८ ।

न तदूनं न तद्ध्यानं न तद्दानं जपो न सः ।

त्रिपुंड्रेण विनायेन विप्रेण यदनुष्ठितम् ७९ ।

वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा ।

मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् 1.24.८० ।

एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः ।

शिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति ८१ ।

यस्यांगेनैव रुद्रा क्ष एकोपि बहुपुण्यदः ।

तस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि ८२ ।

एवं त्रिपुंड्रमाहात्म्यं समासात्कथितं मया ।

रहस्यं सर्वजंतूनां गोपनीयमिदं त्वया ८३ ।

तिस्रो रेखा भवंत्येव स्थानेषु मुनिपुंगवाः ।

ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने ८४ ।

भ्रुवोर्मध्यं समारभ्य यावदंतो भवेद्भ्रुवोः ।

तावत्प्रमाणं संधार्यं ललाटे च त्रिपुंड्रकम् ८५ ।

मध्यमानामिकांगुल्या मध्ये तु प्रतिलोमतः ।

अंगुष्ठेन कृता रेखा त्रिपुंड्राख्या भिधीयते ८६ ।

मध्येंगुलिभिरादाय तिसृभिर्भस्म यत्नतः ।

त्रिपुण्ड्रधारयेद्भक्त्या भुक्तिमुक्तिप्रदं परम् ८७ ।

तिसृणामपि रेखानां प्रत्येकं नवदेवताः ।

सर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु ८८ ।

अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ।

ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ८९ ।

महदेवश्च रेखायाः प्रथमायाश्च देवता ।

विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः 1.24.९० ।

उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ।

मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ९१ ।

महेश्वरश्च रेखाया द्वितीयायाश्च देवता ।

विज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः ९२ ।

मकाराहवनीयौ च परमात्मा तमोदिवौ ।

ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ९३ ।

शिवश्चैव च रेखायास्तृतियायाश्च देवता ।

विज्ञेया मुनिशार्दूल शिवदीक्षापरायणौ ९४ ।

एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ।

त्रिपुंड्रं धारयेच्छुद्धो भुक्तिं मुक्तिं च विंदति ९५ ।

इत्युक्ताः स्थानदेवाश्च सर्वांगेषु मुनीश्वरः ।

तेषां संबंधिनो भक्त्या स्थानानि शृणु सांप्रतम् ९६ ।

द्वात्रिंशत्स्थानके वार्द्धषोडशस्थानकेपि च ।

अष्टस्थाने तथा चैव पंचस्थानेपि नान्यसेत् ९७ ।

उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा ।

नासावक्त्रगलेष्वेवं हस्तद्वय अतः परम् ९८ ।

कूर्परे मणिबंधे च हृदये पार्श्वयोर्द्वयोः ।

नाभौ मुष्कद्वये चैवमूर्वोर्गुल्फे च जानुनि ९९ ।

जंघाद्वयेपदद्वन्द्वे द्वात्रिंशत्स्थानमुत्तमम् १००ब्।

अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह 1.24.१०० ।

धरा ध्रुवश्च सोमश्च अपश्चेवानिलोनलः १०१ब्।

प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः १०१ ।

एतेषां नाममात्रेण त्रिपुंड्रं धारयेद्बुधाः १०२ब्।

कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः १०२ ।

शीर्षके च ललाटेच कंठे चांसद्वये भुजे १०३ब्।

कूर्परे मणिबंधे च हृदये नाभिपार्श्वके १०३ ।

पृष्ठे चैवं प्रतिष्ठाय यजेत्तत्राश्विदैवते १०४ब्।

शिवशक्तिं तथा रुद्र मीशं नारदमेव च १०४ ।

वामादिनवशक्तीश्च एताः षोडशदेवताः १०५ब्।

नासत्यो दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ १०५ ।

अथवा मूर्द्ध्नि केशे च कर्मयोर्वदने तथा १०६ब्।

बाहुद्वये च हृदये नाभ्यामूरुयुगे तथा १०६ ।

जानुद्वये च पदयोः पृष्ठभागे च षोडश १०७ब्।

शिवश्चन्द्र श्च रुद्र ः! को विघ्नेशो विष्णुरेव वा १०७ ।

श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः १०८ब्।

नागश्च नागकन्याश्च उभयोरृषिकन्यकाः १०८ ।

पादयोश्च समुद्रा श्च तीर्थाः पृष्ठे विशालतः १०९ब्।

इत्येव षोडशस्थानमष्टस्थानमथोच्यते १०९ ।

गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ११०ब्।

अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् 1.24.११० ।

ब्रह्मा च ऋषयः सप्तदेवताश्च प्रकीर्तिताः १११ब्।

इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः १११ ।

अथ वा मस्तकं बाहूहृदयं नाभिरेव च ११२ब्।

पंचस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ११२ ।

यथासंभवनं कुर्य्याद्देशकालाद्यपेक्षया ११३ब्।

उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ११३ ।

त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम् ११४ब्।

स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ११४ ।

ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ११५ब्।

बीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ११५ ।

कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ११६ब्।

भीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ११६

॥१॥

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशोऽध्यायः ।