कमलापुत्र वर्णनं नामैकोनविंशति तमोऽध्यायः
भृगुरूवाच
श्रुत्वाख्यानमिदं व्यासः षडर्णं विधिमप्यथ ।
पुनरूचे विधातारं नातिपूर्णाशयो यथा
॥१॥व्यास उवाच
सिद्धक्षेत्रस्य माहात्म्यं गणनाथस्य चैव हि ।
श्रुतं पापहरं सर्वं कामपुण्यविवर्धनम्
॥२॥पुनश्च वद मे ब्रह्मन् विनायककथानकम् ।
तृप्तिं न याति परमां पिबन्नपि कथामृतम्
॥३॥ब्रह्मोवाच
पाराशर्य महाख्यानं कथयामि तवाग्रतः ।
सर्वदेवाधिदेवस्य गणेशस्य विभोः शुभम्
॥४॥विदर्भदेशे राजाऽभूद्दानशूरो महाबली ।
नाम्ना भीम इति ख्यातो दाता भीमपराक्रमः
॥५॥कौण्डिण्यनगरे तस्य निवासोऽभून्महामते ।
सामन्ता करदा यस्य करदा इतरे नृपाः ।
वाजिनां वारणानां च पत्तीनां कोटयो दश
॥६॥रथानामग्रतो यान्तं यान्ति तत्पृष्ठतौऽपि च ।
ब्राह्मणानां सहस्राणि यमाश्रित्य मुदं ययुः ।
तस्य भार्या महाभागा नाम्नाऽभूच्चारुहासिनी
॥७॥विकसत्पद्मवदना मृगशावकलोचना ।
ब्रह्मण्या दैवतपरा नित्यं धर्मपरायणा ।
पतिव्रता पतिप्राणा पतिवाक्यरता सदा
॥८॥अपुत्रा दैवयोगेन जाता सा वरवर्णिनी ।
तां निरीक्ष्य तदा भीमश्चारुसर्वाङ्गशोभिनीम्
॥९॥अवदद्दुःखितो वाक्यं पुत्रहीनो नृपोत्तमः ।
सर्व राज्यं परित्यज्य गन्तव्यं वनमुत्तमम्
॥१०॥अपुत्रस्य गतिनैव स्वर्गो वा सुखमेव च ।
देवा हव्यं न गृह्णन्ति पितरः कव्यमेव च
॥११॥वृथा मे जननी जन्म पिता गेहं धनं कुलम् ।
विफलं सकलं कर्म विना पुत्रेण निश्चितम्
॥१२॥स एव निश्चयं कृत्वा द्वावमात्यौ समाह्वयत् ।
मनोरञ्जननामैकः सुमन्तुर्नामकोऽपरः
॥१३॥आन्वीक्षिकीं त्रयीं वार्तां जानन्तौ षोडशीः कलाः ।
आगत्य तत्क्षणादेवनृपं तं नेमतुर्मुने
॥१४॥तावुवाच ततो भीमो राज्यं मे परिपाल्यताम् ।
मम वा मम पत्न्या वा दुरितं पूर्वजन्मजम्
॥१५॥तेन नौ नास्ति सन्तानमुभयत्र सुखावहम् ।
यद्यहं पुनरागन्ता तदा तन्मन दीयताम्
॥१६॥नो चेदुभाभ्यां मे राज्यं विभज्य परिगृह्यताम् ।
एवं निश्चित्य स नृपः स्वस्तिवाचनपूर्वकम्
॥१७॥कृत्वा दानानि बहुशो ब्राह्मणेभ्यो ययौ पुरात् ।
सपत्नीको नृपवरोऽमात्याभ्यां सह नागरैः
॥१८॥गव्यूतिमात्रं गत्वा तु विससर्जाऽखिलाँस्तदा ।
अमात्यावूचतुराजन्नावां यावः सहैव ते
॥१९॥सुहृदो नागराश्चैन रुरुदुर्भृशदुःखिताः ।
तानुवाच न भीः कार्याऽमात्यौ वोऽधिपती कृतौ
॥२०॥यथाऽहं वस्तथैवैतौ पालनं स करिष्यतः ।
इति तान् समनुश्वास्य तावुवाच पुनर्नृपः
॥२१॥दत्तं राज्यं भवद्भ्यां मे रक्षतं सर्वथा पुरम् ।
इति सर्वान् विसृज्यैव सपत्नीको ययौ पुरात्
॥२२॥भ्रममाणो ददर्शैकं कासारं कमलैर्युतम् ।
पुष्पितद्रुमसंशोभि नानाजलचरान्वितम्
॥२३॥ततोऽस्य निकटे रम्यमाश्रमं पश्यतः शुभम् ।
राजा च राजपत्नी च सर्वानन्दविवर्धनम्
॥२४॥यत्र वैरं न चक्रुस्ते जातिवैरा गजादयः ।
सिंहाश्च नकुलाः सर्पा बिडाला मूषकादयः
॥२५॥ददर्शतुस्तत्र मुनिं विश्वामित्रं कुशासने ।
शिष्यैः परिवृतं शान्तं वेदाध्ययनतत्परैः
॥२६॥प्रणिपत्य महात्मानं कृताञ्जलिपुटावुभौ ।
पुनः पुनर्नमस्कारान् पादौ धृत्वा प्रचक्रतुः
॥२७॥उत्थाप्य मुनिशार्दूलो विश्वामित्रस्तपोनिधिः ।
उवाच श्लक्ष्णया वाचा विज्ञातार्थो नृपं तदा
॥२८॥विश्वामित्र उवाच
भविता ते सुतो राजन् गुणयुक्तो महायशाः ।
कुतस्त्वमागतः किं ते नगरं नाम तद्वद
॥२९॥ततस्ते पापनाशार्थं यतिष्ये नृपसत्तम ।
भीम उवाच ।
विदर्भं विषये स्वामिन् कौडिन्यं नगरं मम
॥३०॥भीम इत्येव नाम पत्नीयं चारुहासिनी ।
पुत्रार्थं च कृतो यत्नस्तपोदानव्रतादिभिः
॥३१॥नागता करूणा देवे पूर्वजन्मकृतादघात् ।
त्यक्त्वा राज्यं वने यातौ दृष्ट्वौ त्वच्चरणौ मुने
॥३२॥भ्रमन् वनानि बहुशो दैवेनेहोपसादितः ।
साधूनां सङ्गतिः सद्यो ददाति फलमुत्तमम्
॥३३॥अतो मे भवदाशीर्भिर्जातः पुत्रो न संशयः ।
विद्याव्रततपोदानयज्ञस्वाध्यायकारिणः
॥३४॥दयादमवतस्तेऽद्य नाशीर्व्यर्था भवेन्मुने ।
परन्तु कलुषम्मे किं पूर्वजन्मकृतं मुने
॥३५॥वद तत्र प्रतिकारं सर्वज्ञोऽसि मतो मम ।
ब्रह्मोवाच ॥
इति तस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
तमै राज्ञै पूर्वकथां कथयामास सादरम्
॥३६॥विश्वामित्र उवाच
कुलधर्मास्त्वयात्यक्ताः श्रीमन्दाधेन दुर्मते ।
वेदे शास्त्रे पुराणे च लौकिके च प्रतिष्ठिताः
॥३७॥ते सर्वे पूर्वजा नित्यं पुपूजूर्गणनायकम् ।
तस्य क्रोधवशान्नैव सन्ततिस्तव जायते
॥३८॥येन ते कुलदेवत्वं सम्प्राप्तोऽसौ गजाननः ।
भणैतत्ते महावीर शृणु सादरमादितः
॥३९॥सप्तमः पुरुषस्त्वत्तः पूर्वं भीमो नृपोऽभवत् ।
रूपवान् धनसम्पन्नो वल्लभो नाम सत्तमः ।
तस्यापि बहुकालेन शिशुरेकोऽभवन्नृप
॥४०॥अथ तस्याऽभवद् देहो मूको बधिर एव च ।
अतिदुर्गन्धवत्पूयस्राववान् कुब्ज एव च
॥४१॥तं दृष्ट्वा जननी तस्य कमला दुःखिता भृशम् ।
अचिन्तयत् स्वान्तमध्ये लोके सम्यगपुत्रता
॥४२॥नैतादृशं पुत्रवत्वं श्लाध्यं दुःखकरं भृशम् ।
मरणं मे विधात्रा किं नास्य वा क्रियतेऽधुना
॥४३॥कथं वा मुखद्याऽहं दर्शयिष्ये सुहृज्जनान् ।
एवं विलपती दुःखाद् रुरोद भृशदारूणम्
॥४४॥श्रुत्वा तद्रुदितं भर्त्ता सूतिकागारमागमत् ।
दृष्ट्वा तथाविधं बालं भृशं पत्नीं च दुःखिताम्
॥४५॥बभाण मृदुवाक्येन सान्त्वयन् कर्ममार्गवित् ।
मा दुःखं कुरू कल्याणि कर्मणां गतिरीदृशी
॥४६॥पूर्वजन्मकृतात् पापाज्जायते दुःखभाङ्नरः ।
दुःखवान्सुखमाप्नोति सुखवानपि तत्पुनः
॥४७॥न हि शोच्यो हि बालोऽयं समीचीनो भविष्यति ।
यथाऽस्य पूर्ववृत्तं स्यात् तथैवास्य भविष्यति
॥४८॥वयं च प्रयतिष्यामो मणिमन्त्रमहौषधैः ।
तपोभिश्च जपैर्देवपूजायात्राविधानतः
॥४९॥सम्यक् कर्तुं शिशुं सुभ्रूः प्रस्तुतं यत्समाचर ।
एवं प्रबोधिता साध्वी त्यक्त्वा शोकं शिशुं ततः
॥५०॥क्षालयित्वा जलैस्तं तु जहर्ष सखिभिः सह ।
सर्व माभ्युदयं चक्रे पुत्रस्य जननोचितम्
॥५१॥पूजयामास विप्रान् स सा तत् पत्न्योह्यनेकशः
॥५२॥इति श्रीगणेशपुराणे उपासनाखण्डे कमलापुत्र वर्णनं नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥