गृत्समदोपाख्यानं नाम षट्त्रिंशत्तमोऽध्यायः
व्यास उवाच
श्रुतं गणेशतीर्थस्य माहात्म्य कमलासन ।
रूक्माङ्गदस्य चरितं कौण्डिन्य पुरवासिनाम्
॥१॥तथापि ब्रूहि मे ब्रह्मन् मुकुन्दाचरितं शुभम् ।
ब्रह्मोवाच ।
गते रूक्माङ्गदे सा तु जज्वाल मदनाग्निना
॥२॥दावाग्निना यथा ग्रीष्मे महावनस्थली सुत ।
मुकुन्दा नालभच्छर्म वने शीतलमारूते
॥३॥लतापुष्पमये स्थाने चन्द्रचन्दनतोऽपि च ।
तस्या न रोचते हास्यं गीतं नृत्यं कथान्तरम्
॥४॥अन्नं जलं विव्हलापास्तच्चित्ताया मुनीश्वर ।
क्षुतृट् श्रमेण तस्यास्तु क्षणं निद्रा समाययौ
॥५॥तामिन्द्रो बुबुधे कान्ता प्रसुप्तां विजेने वने ।
कामातुरां विव्हलां च रूक्माङ्गदकृते सुत
॥६॥धृत्वा रौङ्क्माङ्गदं रूपं बुभुजे कामुकां तु ताम् ।
आलिलिङ्ग मुदा शक्रो मुकुन्दा जहृषे भृशम्
॥७॥साऽपि रूक्माङ्गदं तं तु चुचुम्बे सुभृशं सुत ।
सोऽपि तस्याः कुचौ पीनौ ममर्द दृढमुष्टिना
॥८॥व्यंशुकां व्यंशुको रेमे निःशङ्क स तया सह ।
ततः सा लज्जमानेव स्वगृहं प्रत्यपद्यत
॥९॥इन्द्रो रूक्माङ्गदो भूतस्तत्रैवान्तर्दधे सुत ।
मेने रुक्माङ्गदो भुक्तस्ततो गर्भं दधौ तु सा
॥१०॥सुषुवे नवमे मासि सुवेलायां सुतं शुभम् ।
चारुसर्वानवद्याङ्गं रूपेण मदनातिगम्
॥११॥तस्य शब्देन महता धरण्या पतितस्य तु ।
सनादं दशदिग्वृन्दमभूत्खं भूरसातलम्
॥१२॥पक्षिणो बभ्रमुः सर्वे उड्डीयोड्डीय सर्वतः ।
वाचक्नविः समायातस्त्यक्त्वा स्वं नित्यकर्म च
॥१३॥मुकुन्दाचरितं तेन नैव बुद्धं कदाचन ।
जातकर्मादिकं सर्वं चकार भृषहर्षितः
॥१४॥ददौ दानं यथाशक्ति ब्राह्मणेभ्यो यथार्हतः ।
दशाहे तु व्यतीते स नामकर्माऽकरोन्मुनिः
॥१५॥गृत्समदेत्यनुज्ञातो ज्योतिःशास्त्रपरैर्द्विजैः ।
ततस्तु पञ्चमेऽब्देऽस्य व्रतबन्ध चकार ह
॥१६॥वेदव्रतानि चत्वारि चकार बटुकस्य सः ।
सकृन्निगदमात्रेण गृह्णाति ब्रह्मतेजसा
॥७॥वेदशास्त्रनिधिर्जातः स्वकर्मं कुशलोऽपि च ।
कदाचित् सुमुहूर्ते तु पिता वाचक्नविः सुतम्
॥१८॥गणानां त्वेति ऋङ्मन्त्रं महान्तमुपदिष्टवान् ।
उवाच च महामन्त्रौ वैदिकोऽखिलसिद्धिदः
॥१९॥आगमोक्तेषु मन्त्रेषु सर्वेषु श्रेष्ठ एव च ।
ध्यात्वा गजाननं देवं जपैनं स्थिरमानसः
॥२०॥परां सिद्धिं समाप्यैव ख्यातिं लोके गमिष्यसि ।
ततो गृत्समदो विप्रा मन्त्रं प्राप्य पितुर्मुखात्
॥२१॥अनुष्ठानरतो भूत्वा जपध्यानपरोऽभवत् ।
एवं बहुतिथे काले महतस्तपसो मुनेः ।
तस्मिन् मगधदेशे यो राजा मगधसंज्ञितः
॥२२॥चारुरूपा महामानी दानशरोऽरिमर्दनः ।
नानालङ्कार शोभाढ्यो महार्हासनसंश्रितः
॥२३॥सुधर्मासनगो धीरः पुरुहूत इवापरः ।
चतुरङ्गबलोपेतो ज्ञानों पण्डितमानदः
॥२४॥अमात्यौ द्वौ ज्ञाननिधी वाचस्पत्यधिको गुणौः ।
अम्बिका नाम भार्याऽस्य चारुरूपा गुणाधिका
॥२५॥पतिव्रता महाभागा शापानुग्रहणे क्षमा ।
तस्य राज्ञः पितुश्राद्धे समाजग्मुर्ममहर्षयः
॥२६॥राज्ञाहूता वसिष्ठात्रिप्रमुखाः श्रुतिपारगाः ।
आकारितो गृत्समदस्तपस्वी शुचिमानसः
॥२७॥ततः शास्त्रप्रसङ्गेन प्रौढिं गृत्समदोऽवदत् ।
तमत्रिर्धिग्धिगित्येवमब्रवीन् मुनिसन्न्निधौ
॥२८॥तपस्वीति भवान्मान्यो न मुनिस्त्वं यतस्तव ।
जन्म रूक्माङ्गदाज्जातं राजपुत्राद् विचारय
॥२९॥नास्मत्समक्षो पूजार्ह इतो गच्छ स्वमाश्रमम् ।
इत्यत्रिवचनं श्रुत्वा क्रोधदीप्त इव ज्वलन्
॥३०॥दहन्निव त्रिलोकीं स भक्षयन्निव तान्मुनीन् ।
अपेर त्वपलायन्त सिंहं दृष्ट्वा यथा मगाः
॥३१॥उवाच तत्र सदसि वसिष्ठादिन् मुनीन्प्रति ।
गृत्समद उवाच ।
यर्हि रूक्माङ्गदस्याहं न भवेयं मुनीश्वराः ।
तदा शापाग्निना युष्मान्कुर्यां भस्मावशेषितान्
॥३२॥ब्रह्मोवाच
इत्युक्त्वा तान्मुनीन् सर्वान् प्रययौ मातरं प्रति ।
पप्रच्छ तां गृत्समदो वद दुष्टेऽति कामुके
॥३३॥मुकुन्दे वद मे तात नो चेद्भस्म भविष्यसि ।
आकर्णैवं वचस्तस्य चकम्पे भृशविव्हला
॥३४॥मुकुन्दा मारूतेनेव कदली कुङ्मलान्विता ।
उवाच दीनया वाचा बद्धाञ्जलिपुटा सती
॥३५॥मुकुन्दोवाच
मृगयासक्त चित्तोऽभूद् भ्रष्टसार्थो नृपोत्तमः ।
त्रैलोक्यसुभगो दृष्टो मया रूक्माङ्गदः शुभः
॥३६॥अनुष्ठानरते वाचक्नवौ मे भर्तरि प्रिये ।
अनिवार्याः स्त्रिय इति स्मृत्वा वाक्यं विधीरितम्
॥३७॥तस्मिन् नृपे सक्तमना जाताऽस्मि स पिता तव ।
श्रुत्वेत्थ वचनं तस्या मौनवान् स ययौ मुनिः
॥३८॥लज्जयाऽधोमुखः शापमभ्यधाज्जननीं प्रति ।
पुत्र उवाच ।
दुष्टे मूढे पापरते कानने कण्टकी भव
॥३९॥असङ्ख्येय फला सर्वे प्राणिभिः परिवर्जिता ।
साऽपि शापं ददौ तस्मै क्रोधाविष्टा सुताय हि
॥४०॥जननीत्वमनादृत्य यतः शप्ता खलु त्वया ।
अतः शपामि त्वां पुत्र त्वत्तः पुत्रोऽतिदारुणः
॥४१॥त्रैलोक्य भयदो दैत्यो भविष्यति महाबलः ।
एवं शशपतुस्तौ तु मातापुत्रौ परस्परम्
॥४२॥क उवाच
सा तदैव शरीरं तत् त्यक्त्वाऽभूद् बदरी वने ।
वर्जिता पक्षिसङ्घातैर्जारजैरण्डजैरपि
॥४३॥ततोऽन्तरिक्षे वागासीदिन्द्राद् गृत्समदो ह्यभूत् ।
स तु गृत्समदो ब्रह्मन्ननुष्ठानाय जग्मिवान्
॥४४॥इदं गृत्समदाख्यानं यः शृणोति नरोत्तमः ।
न स सङ्कटमाप्नोति वाञ्छितं लभतेऽखिलम्
॥४५॥इति श्रीगणेशपुराणे उपासनाखण्डे गृत्समदोपाख्यानं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥