एकसप्ततितमोऽध्यायः
राजोवाच
उद्यापनं कथं कार्यं व्रतस्याऽस्य महामते ।
तन्मे विस्तरतो ब्रूहि लोकानां हितकाम्यया
॥१॥ब्रह्मोवाच
प्रथमे मासि कर्तव्यं पञ्चमे सप्तमेऽथवा ।
उद्यापनं मनुष्येन्द्र व्रतसम्पूर्तिहेतवे
॥२॥पूर्वोक्तेन विधानेन पूजयेद् भक्तिमान्नरः ।
पुष्पमण्डपिकां कृत्वा नानावस्त्रविचित्रिताम्
॥३॥कृत्वा तु सर्वतोभद्रं नानारङ्गविचित्रितम् ।
पूजयेत् तत्र देवेशं कलशोपरि पूर्ववत्
॥४॥चन्दनेन सुगन्धेन पुष्पैर्नानाविधैरपि ।
नारिकेलफलेनैव दद्यादर्घ्यं समाहितः
॥५॥तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते
॥६॥लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
सङ्कष्टं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते
॥७॥क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन्
॥८॥भोज्यं भक्ष्यं च लेह्यं च पेयं चोष्यं निवेदयेत् ।
फलैरन्यैश्च बहुभिस्तोषयेद् गणनायकम्
॥९॥आचार्यं वरयेत् तत्र ऋत्विजश्चैकविंशतिम् ।
गणानान्त्वेति मन्त्रेण ह्ययुतं होममाचरेत्
॥१०॥अथवा मूलमन्त्रेण सहस्रं वा तदर्धकम् ।
अष्टोत्तरशतं चापि बलिदानं ततश्चरेत्
॥११॥पूर्णाहुतिं ततः कुर्याद् वसोर्धाराञ्च पातयेत् ।
होमशेषं समाप्यैवं ब्राह्मणान् भोजयेत् ततः
॥१२॥वस्त्रयुग्मं च कलशान् दक्षिणासनसंयुतान् ।
तेभ्यो दद्याद् यथाशक्ति वित्तशाठ्यं न कारयेत
॥१३॥आचार्यं पूजयेत् पश्चाद् वस्त्रालङ्करणादिभिः ।
तस्मै भुक्तवते दद्याद् वायनं फलसंयुतम्
॥१४॥शूर्प पायससम्पूर्ण रक्तवस्त्रेण वेष्टितम् ।
सौवर्णं तं गणाधीशं तस्मै दद्यात् सदक्षिणम्
॥१५॥तिलानामाढकं दद्याद् व्रतसम्पूर्तिहेतवे ।
ततो गां कपिलां दद्यात् सवत्सां सविभूषणाम्
॥१६॥ततः क्षमापयेद् विप्रान् विघ्नेशः प्रीयतामिति ।
व्रतस्योद्यापनं कृत्वा हयमेधफलं लभेत्
॥१७॥कृतवीर्यपितोवाच
एवं मे ब्रह्मणादिष्टं व्रतं लोकोपकारतः ।
तदेतत् कथितं तेऽद्य कुरू पुत्रार्थमादरात्
॥१८॥इन्द्र उवाच
यथायथा समादिष्टं पित्रा तेन महाव्रतम् ।
तथा तथा कृतं तेन कार्तवीर्येण धीमता
॥१९॥व्याख्याय कथितं सम्यक् पण्डितैर्व्रतमुत्तमम् ।
सिद्धिबुद्धियुतां मूर्तिं स्थाप्य काञ्चननिर्मिताम्
॥२०॥महामण्डपिकामध्ये ब्राह्मणैः पठ्यते क्वचित् ।
क्वचित् पुराणं पाण्डित्यं क्वचित् गायननर्तने
॥२१॥नानाविधानां वाद्यानां ध्वनयो निर्गता दिवम् ।
विवदन्ते जनाः क्वापि मध्यस्थाः केचनाऽभवन्
॥२२॥स तु राजा महाधीमान् जजाप परमं मनुम् ।
जप्त्वा हुत्वा पूजयित्वा भोजयित्वा द्विजान् बहून्
॥२३॥गा ददावयुतं तेभ्योऽलङ्कृतेभ्यो ह्यलङ्कृतः ।
दीनान्धकृपणेभ्योऽन्नं ददौ दानान्यनेकशः
॥२४॥सन्तुष्टानामाशिषं स पुत्रस्य जगृहे पुनः ।
तेषां द्विजानां तपतां सर्वदा सत्यवादिनाम्
॥२५॥आशिर्भिः स्वल्पकालेन ससत्त्वाऽभून्नृपाङ्गना ।
सुषुवे शुभवेलायां पुत्रं लक्षणसंयुतम्
॥२६॥ददौ दानान्यनेकानि पुत्रजन्मप्रहर्षितः ।
व्रतबन्धं विवाहं च काले तस्याऽकरोन्नृपः
॥२७॥ज्ञानविज्ञानसम्पन्नं पुत्रं राज्येऽभिषिच्य च ।
सत्पुत्रो भोगसम्पन्नो जगामान्ते पदं विभोः
॥२८॥ऋत्विग्भिः पण्डितैः सार्धं प्रेक्षकैः सकलैरपि ।
तस्य पुण्येन ते सर्वे गाणेशं धाम चागमन्
॥२९॥इति श्रीगणेशपुराणे उपासनाखण्डे व्रतोद्यापनविधिनिरूपणं नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥