परम्परावर्णनं नाम षड्विंशोऽध्यायः
विश्वामित्र उवाच
एकस्मिन्दिवसे शुभग्रहयुतेलग्ने शुभे वासरे ।
योगे चारुफले जने च नगरे नानाविधे मेलिते ।
मालां रत्नमयीं ददौ नरपते राज्ञी करेणोः करे ।
सम्प्रार्थ्य द्विरदं कुरुष्व नृपतिं लोकेषु यस्ते मतः
॥१॥तामाज्ञां प्रतिगृहय वारणपतिः संरञ्जितो धातुभि- र्बभ्राम द्विजबन्दिचारणगणैराशासितः सर्वतः ।
नानावाद्यकरैर्वृतौ नृपभटै राज्यार्थिभिः पूरूषै- र्जिघ्रन् सर्वजनं सभापरिगतं यातो बहिः पत्तनात्
॥२॥नार्यस्तन्नगरे शिशूनथ पतीन् कृत्वा पुरोऽवस्थितान् राज्यार्थं विविधा नराश्च बहुधा श्रेणीमुखाश्च स्थिताः ।
ते सर्वे विमनस्कतां परिगताः स्वं स्वं गृहं चागता ।
यातेऽस्मिन् गहने करिण्यथ पुरो याता बहिश्चापरे
॥३॥गजस्तु यातः कमलासुतं तं सम्पूजयन्तं द्विरदाननन्तम् ।
दृष्ट्वैव तस्मिन्निदधे स मालां पश्यत्सु लोकेषु सुरेषु नाके
॥४॥वस्त्राणि माल्यानि च भूषणानि दक्षाय दत्तानि तदैव लोकैः ।
ज्ञात्वा मतं पौरजनस्य राजा राज्ञः प्रकृत्योरुभयोस्तदैव
॥५॥ववदुर्वाद्यसङ्घाश्च दिव्या भौमा अनेकशः ।
मुमुचुः पुष्पवर्षं ते देवा हर्षयुताः शुभम्
॥६॥उपविष्टास्तदा लोका यथास्थानं यथाक्रमम् ।
नेमुश्च तं दक्षनृपममात्यद्वयसंयुतम्
॥७॥ताम्बूलानि च वस्त्राणि जनेभ्यः प्रददौ नृपः ।
ब्राह्मणान् पूजयित्वैव दत्त्वा दानान्यनेकशः
॥८॥सम्पूज्य मातरं तां तु वस्त्रालङ्करणादिभिः ।
दापयामास दानानि ब्राह्मणेभ्यो यथाविधि
॥९॥नरयाने समारोप्य स्वयमारररुहे गजम् ।
अलङ्कृतं सिक्तमार्गं पताकाध्वजसंयुतम्
॥१०॥अश्वारुढावमात्यौ तौ पुरस्कृत्य ययौ पुरम् ।
स्तुवन्ति बन्दिनः पौरा नृत्यन्त्यप्सरसः पुरः ।
गन्धर्वा गाननिष्णाता धावित्वा यान्त्यमुं पुरः
॥११॥जयशब्दैर्नमः शब्दो वाद्यशब्दोऽगमद् दिवम् ।
नृपद्वारं समासाद्य नत्वा केचिद् गृहं ययुः
॥१२॥सभायां विविशुः सर्वे सङ्ख्यातीता नृपास्तदा ।
नृयानं प्रेषयामास मुद्गलाय महामतिः
॥१३॥छत्रं ध्वजं चामरं च सुमन्तुं प्रकृतिं तथा ।
आयान्तं मुद्गलं दृष्ट्वा स्वासनात् पुरतो ययौ
॥१४॥स किरीटेन शिरसा पादयोः प्रणनाम तम् ।
न्यवेशयत् स्वासने तं तेनाज्ञप्तोऽन्य आसने
॥१५॥उपविष्टो राजसङ्घैः पूजयामास तं मुनिम् ।
गां चापि प्रददौ तत्र ब्राह्मणाय महामतिः
॥१६॥उवाच तं नृपो दक्षो भो मुद्गल महामुने ।
अद्य ते महिमा ज्ञातो लोकैरेतैर्महानयम्
॥१७॥शरीरे चारुता राज्यप्राप्तिश्च त्वत्प्रसादतः ।
क्व साऽवस्था पूर्वतनोः क्वन्दृक् राज्यं महामुने
॥१८॥विनायकमहं जाने त्वामेव मुनिसत्तम ।
पुनर्मे मस्तके ब्रह्मन् निधेहि करपङ्कजम्
॥१९॥येनाऽहं सर्वकामानां भाजनं स्याच्चिरं मुने ।
विश्वामित्र उवाच ।
आकर्ण्य वचनं तस्य मुद्गलोऽथाब्रवीच्च तम्
॥२०॥न ते भयं रिपुकृतं भविष्यति कदाचन ।
यं यं कामयसे कामं सर्वतस्ते भविष्यति
॥२१॥ततस्तस्मै ददौ ग्रामान् वासोरत्नधनादिकम् ।
अन्येषां ब्राह्मणानां च गोधनान्यंशुकानि च
॥२२॥आशीर्भिरभिनन्द्याऽथ ययुस्ते ब्राह्मणा गृहम् ।
अमात्याभ्यां गृहिभ्यश्च ददौ ग्रामाननेकशः
॥२३॥प्रासादं कारयामास गणेशस्य बृहत्तरम् ।
कुण्डिने नगरे तस्मिन् प्राक्तनं संस्थितं लघुम् ।
विसर्जयामास सभां प्रविवेश गृहं नृपः
॥२४॥आययौ वल्लभस्तत्र श्रुत्वां वार्तां जनेरिताम् ।
वीरसेनो नरपतिः स्वां सुतां पतिमिच्छतीम्
॥२५॥ददौ तस्मै स्वप्नगतगणेशस्याज्ञया शुभम् ।
दक्षाय राज्ञे महते त्रिलोकश्रुतकीर्तये
॥२६॥तस्मां तस्याऽभवत्पुत्रो बृहद्भानुरिति श्रुतः ।
ततोऽभवत् खड्गधरः सुलभस्तत्सुतोऽभवत्
॥२७॥पद्माकरस्तत्तनयो वपुर्दीप्तस्तु तत्सुतः ।
चित्रसेनस्तत्सुतोऽभूच्चित्रसेनात् त्वमेव हि
॥२८॥ब्रह्मोवाच
विश्वामित्रमुखात् सर्वं श्रुत्वा वंशपरम्पराम् ।
ततः स नरशार्दूलो भीमो नाम महीपतिः
॥२९॥सन्तोष्य तं मुनिं प्रार्थ्यं पप्रच्छ द्विजपुङ्गवम् ।
भीम उवाच ।
विनायकः कदा मे स्यात् सुप्रसन्नो महामुने
॥३०॥तमुपायं वद विभो येन मे तदनुग्रहः ।
कदाऽहं कृतकृत्यः स्यां दृष्ट्वा देवं गजाननम्
॥३१॥इति श्रीगणेशपुराणे उपासनाखण्डे परम्परावर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥