अष्टाशीतितमोऽध्यायः
मुनिरुवाच
श्रुतमाख्यानकं ब्रह्मन् गजाननव्रताश्रयम् ।
दग्धश्चेन्मदनस्तेन शङ्करेण रुषाग्निना
॥१॥दृश्यते सर्वलोकेषु मदनोऽद्यापि तत्कथम् ।
एतत् कथय मे सर्वं विस्तराच्चतुरानन
॥२॥ब्रह्मोवाच
तृतीयं तु तदा नेत्रं रुषोद्घाटितवान् हरः ।
अपराधं तु विज्ञाय मदनस्य रतिस्तदा
॥३॥आक्रन्दती मृतं कामं हरान्तिकमुपागमत् ।
साष्टाङ्ग प्रणिपत्यैनं तुष्टाव च यथामति
॥४॥रतिरुवाच
नमामि देवं गिरिजासहायं वृषध्वजं भालविलोचनं च ।
यः पाति लोकान् खलु सत्त्वयुक्तो निर्माति लोकान् रजसा गुणेन
॥५॥यः स्वेच्छया संहरतेऽखिलेशो जगत् तमोविष्टतनुर्महेशः ।
यो नुः कपालं वहते जनानां भिक्षाशनः पूरयतेऽखिलार्थान्
॥६॥दीनानुकम्पी भगवान् महेशो गतप्रियायाः शरणं ममास्ताम् ।
कर्तुं तथाऽकर्तुमदीनसत्त्वः शक्तोऽन्यथा कर्तुमपीह देवः
॥७॥स मे विधत्तां शरणं गताया सौभाग्यमुच्चैर्मृतजीवनेन ।
नो चेदहं प्राणविसर्जनेन यशः करीष्ये विपरीतमीश
॥८॥ब्रह्मोवाच
एवं तया स्तुतः शम्भुः प्रसन्नस्तामथाब्रवीत् ।
शम्भुरुवाच ।
वरं वृणु महाभागे कामपत्नि शुभानने
॥९॥ददामि तुष्टः स्तोत्रेण सर्वान् कामान् हृदि स्थितान् ।
इत्थं शिववचः श्रुत्वा रतिर्हृष्टा प्रणम्य तम्
॥१०॥सौभाग्यकामा तं देवं निजगाद भृशातुरा ।
रतिरुवाच ।
स्वामिन् यदि प्रसन्नश्चेच्छ्रुणु मे परमं वचः
॥११॥रसायां दिवि भूमौ वा कान्ताः स्युः कामिनीगुणाः ।
मम लावण्यलेशो न तेषु क्वाऽपि त्रिलोचन
॥१२॥मां दृष्ट्वा मुमुचुः शक्रमुख्या वीर्यमपत्रपाः ।
ततो मे महती लज्जा जाता मे तामपाकुरू
॥१३॥लावण्यं च वृथा जातं विना कामेन शङ्कर ।
अयशो दहते मह्यं रतिः सा विधेवति च
॥१४॥भर्त्तुर्दानेन देवेश मां जीवय दयानिधे ।
एवं तया प्राथितोऽसौ शङ्करो लोकशङ्करः
॥१५॥उवाच श्लक्ष्णया वाचा हर्षयन् कामयोषितम् ।
शिव उवाच ।
चिन्ता मां कुरू कल्याणि न लज्जां कर्तुमर्हसि
॥१६॥स्मृतमात्रस्त्वया बाले कामः स्याद्दृष्टिगोचरः ।
मनसा चिन्तितो वापि मनोभूरिति संज्ञितः
॥१७॥पूरयिष्यति ते कामान् मान्या त्वं च भविष्यसि ।
विष्णोः सकाशादुत्पत्तिं रमायां प्रापस्यते यदा
॥१८॥भर्ता तव जने ख्यातो नाम्ना प्रद्युम्न संज्ञितः ।
भविष्यति महाभागे गच्छेदानीं निजालयम्
॥१९॥साऽऽगता शिववाक्येन मन्दिरं भृशसुन्दरम् ।
सस्मार तं पतिं सा तु पुरोऽनङ्गः समाययौ
॥२०॥ईश्वरेच्छावशात् तस्याः प्रत्यक्षं समजायत ।
इतिश्चाश्चर्ययुक्ता सा जहृषे पतिना सह
॥२१॥ततोऽनङ्गो ययौ शम्भुं प्रणम्याभिदधे वचः ।
अनङ्ग उवाच ।
विनाऽपराधं देवेश गमितोनङ्गतां कथम्
॥२२॥इन्द्रादिदेवतावृन्दैस्तारकासुरपीडितैः ।
मुनिभिश्च विशाखस्य त्वत्त उत्पत्तिवेदिभिः
॥२३॥प्रार्थितस्तव निष्ठाया भङ्गं कर्तुमहं विभो ।
उपकाराय सर्वेषामकार्ष कर्म तादृशम्
॥२४॥उपकारसमं पुण्यं न चास्ति भुवनत्रये ।
विपरीतं तु तज्जातं मम दैवाद् सुरेश्वर
॥२५॥त्रयस्त्रिंशत्कोटिदेवेष्वहं चारुतरः पुरा ।
उपमा चारुपुरुषे ममैव दीयतेऽखिलैः
॥२६॥कथं तिष्ठामि देवेश स्वाङ्गहीनः परेतवत् ।
अतो मयि महादेव कृपयांऽनुग्रहं कुरू
॥२७॥ब्रह्मोवाच
तत एकाक्षरं मन्त्रं गणेशस्य ददौ शिवः ।
अनङ्गाय प्रणमतेऽनुष्ठानं चादिशच्च तम्
॥२८॥ततोऽनङ्गो ययौ रम्यं जनस्थानं सुसिद्धिदम् ।
तत्रानुष्ठानमकरोदनङ्गः शङ्कराज्ञया
॥२९॥संवत्सरशतं पूर्णं तताप स तपो महत् ।
एकाक्षरं जपन् मन्त्रं गणेशध्यानतत्परः
॥३०॥वायुमात्राशनो नित्यं सदा रति सहायवान् ।
ततः प्रसन्नो भगवान् देवदेवो गजाननः
॥३१॥आविरासीद् दशभुजो महामुकुटशोभितः ।
ज्वलद्रत्नप्रभाचारूकुण्डलाङ्गद मण्डितः
॥३२॥कोटिसूर्यप्रतीकाशो मुक्तामालाविभूषितः ।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
॥३३॥सिन्दूरारुणशुण्डास्यो दशायुधलसत्करः ।
शेषालङ्कृतनाभिश्च नानालङ्कारराजितः
॥३४॥सिंहस्कन्धो महाश्रीमांश्चीत्कारत्रासिताखिलः ।
इन्द्रादयोऽपि मुनय आविर्भूते गजानने
॥३५॥आययुरप्सरोभिश्च यक्षगन्धर्वकिन्नरैः ।
दिव्यवादित्रनिर्घोषैः पुपूजुस्ते गजाननम्
॥३६॥उपचारैः षोडशभिर्भक्त्या देवं पृथक्पृथक् ।
कामोऽपि तत उत्थाय प्रणिपत्याखिलान् सुरान्
॥३७॥वन्दे देवचरणौ पूर्वं नत्वा मुनीनपि ।
प्रशशंस तदा देवं विकटं करूणाकरम्
॥३८॥काम उवाच
धन्यस्त्वमसि देवेषु परब्रह्मस्वरूपवान् ।
निराकारोऽपि साकारो जातोऽसि भक्तवत्सल
॥३९॥अद्य धन्यं मम जनुस्तपो धन्यतरं च मे ।
यत् तवाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम्
॥४०॥कारणं सर्वसिद्धिनां धर्मार्थकाममोक्षदम् ।
धन्ये नेत्रयुगे मेऽद्य याभ्यां दृष्टः परः पुमान्
॥४१॥यं न जानन्ति वेदान्ताः साङ्ख्याः पातञ्जलादयः ।
नेति नेति वदन् तूष्णीं वेदोऽपि यत्र कुण्ठितः
॥४२॥अनन्तकोटिब्रह्माण्डरोमकूपोऽखिलेश्वरः ।
येन मन्त्रेण सोऽदर्शि मन्त्रो धन्यतरोऽपि सः
॥४३॥गणेश उवाच
सम्यगुक्तं रतिपते न मां ब्रह्मादयो विदुः ।
यदा साकारतां यामि तेऽपि जानन्ति मां तदा
॥४४॥ममैवानुग्रहात् काम दृष्टवानसि मां तदा ।
यतोऽहं परितुष्टस्ते तपसा मनुना तथा
॥४५॥वृणु यत्तेखिलान् कामान् काम कामं ददामि ते ।
ब्रह्मोवाच ।
इति देववचः श्रुत्वा पुनरुचे मनोभवः
॥४६॥आनुपूर्व्येण सकलं वृतान्तं शिवकारितम् ।
तस्मै चाकथयत् कामः प्रसन्नार्थप्रदायिने
॥४७॥अनङ्गतां स्वस्य रतेराक्रन्दं मनुमेव च ।
अनुष्ठानं चिरकृतं शिवदत्तं वरं तथा
॥४८॥वृणोति स्म वरं तस्मात् सुप्रसन्नाद् गजाननात् ।
काम उवाच ।
यदि प्रसन्नो भगवांस्तन्मे देदि सदेहताम्
॥४९॥मान्यतां सर्व देवेषु प्राग्वल्लावण्यमेव च ।
भक्ति दृढां त्वच्चरणे त्रैलोक्य विजयं तथा
॥५०॥इति श्रीगणेशपुराणे उपासनाखण्डे कामवरयाचनं नामाऽष्टाशीतितमोऽध्यायः ॥ ८८ ॥
आदितः श्लोकानां समष्ट्यड्काः - ३८३७ + ५० = ३८८७