मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 82

3
उपासनाखण्डः · 82

रामवरदानं नाम द्वयशीतितमोऽध्यायः

व्यास उवाच

कथं रामो बाल एव कृतवीर्यसुतेन ह ।

एकाकी बहुसैन्येन सहस्रभुजशालिना

॥१॥

अजयत् तं महावीरं तन्मे कथय विस्तरात् ।

क उवाच ।

एकस्मिन् दिवसे रामो मातरं परिपृष्टवान्

॥२॥

राम उवाच

यस्मादिन्द्रादयो देवा बिभ्यति त्रासकम्पिताः ।

अनन्तं यस्य सैन्यं तच्चतुरङ्गसमन्वितम्

॥३॥

कथं विजेष्ये तं मातरुपायं मेऽखिलं वद ।

एकविंशतिवारं च कथं निःक्षत्रियां धराम्

॥४॥

करिष्ये वद तत्सर्वं त्वत्प्रसादाज्जयो भवेत् ।

अतुला मम कीर्तिश्च सर्व लोकेषु विश्रुता

॥५॥

मातोवाच

विजयस्ते भवेत्पुत्र शङ्कराराधनं कुरु ।

तुष्टे तस्मिन् महादेवे सर्वं सेत्स्यति वाञ्छितम्

॥६॥

इति तद्वचनं श्रुत्वा रामः कैलासमाययौ ।

प्रणम्य मातृचरणावाशिषं प्रतिगृह्य च

॥७॥

तत्रापश्यन् महादेवं रत्नसिंहासने स्थितम् ।

बद्धाञ्जलि पुटो रामो नत्वा तुष्टाव तं तदा

॥८॥

राम उवाच

नमो देवदेवेश गौरीश शम्भो ।

नमो विश्वकतर्त्रे नमो विश्वभर्त्रे ।

नमो विश्वहर्त्रे नमो विश्वमूर्ते ।

नमो विश्वधाम्ने नमःश्चन्द्रधाम्ने

॥९॥

नमो निर्गुणायामल ज्ञानहेतो निराकार साकार नित्याय तेऽस्तु ।

नमो वेदवेदान्तशास्त्रातिगाय नमोऽव्यक्तव्यक्तात्मने सत्स्वरूम

॥१०॥

गुणत्रयप्रबोधाय गुणातीताय ते नमः ।

नमः प्रपञ्चविदुषे प्रपञ्चरहिताय ते

॥११॥

क उवाच

इति स्तोत्रं समाकर्ण्य परितुष्टो महेश्वरः ।

उवाच राममामन्त्र्य तृप्तो वाक्यामृतेन ते

॥१२॥

वरं वृणीष्व मत्तस्त्वं यं यं कामयसे हृदि ।

जानामि जामदग्न्यं त्वां रेणुकातनयं द्विज

॥१३॥

राम उवाच

कार्तवीर्येण दुष्टेन कामधेनुमपेक्षता ।

जमदग्निर्हतो रोषादापराधं विना प्रभो

॥१४॥

रेणुका ताडिता बाणैः समन्ताज्जननी मम ।

एकविंशतिसङ्ख्याकैर्भुक्त्वाऽपि सेनया सह

॥१५॥

जहि तं दुष्टनृपतिमिति मात्रा नियोजितः ।

त्वामहं शरणं यात उपायं वद तद्वधे

॥१६॥

त्रिसप्तवारं तेनैव कुर्यां निःक्षत्रियां महीम् ।

क उवाच ।

एवं विदिततत्त्वार्थो महादेवो जगाद तम्

॥१७॥

आलोक्य प्रणिधानेन जयोपायं सुखावहम् ।

षडक्षरं महामन्त्रं द्विरदाननतोषकम्

॥१८॥

कथयामास रामाय जपं कुरू प्रयत्नतः ।

लक्षमात्रं च होमं च दशांशेन समाचार

॥१९॥

तर्पणं तद् दशांशेन तद् दशांशेन भोजनम् ।

ब्राह्मणानां महाभक्त्या प्रसन्नो भविता भुवि

॥२०॥

गजाननो देवदेवः सर्वकार्यं करिष्यति ।

इति तद्वचनं श्रुत्वा प्रणम्य भवमादरात्

॥२१॥

आज्ञां गृहीत्वा रामोऽसावचलायां भ्रमन् भ्रमन् ।

कृष्णाया उत्तरे देशेऽपश्यत् स्थानमनुत्तमम्

॥२२॥

नानावृक्षलताजालैरभिरामं सुसिद्धिदम् ।

तत्राऽकरोदनुष्ठानं यथोक्तं ते न शम्भुना

॥२३॥

इन्द्रियाणां च मनसो वृत्तिं स्थाप्य गजानने ।

आवर्त्तयन् महामन्त्रमेकाङ्गुष्ठस्थितो द्विजः

॥२४॥

जुहाव तर्पयामास भोजयामास वै द्विजान् ।

दशांशेन दशांशेन दशांशेन यथाक्रमम्

॥२५॥

ततः प्रसन्नो भगवानाविरासीद् गजाननः ।

चतुर्भुजो महाकायो महामायोऽति सुन्दरः

॥२६॥

नागयज्ञोपवीती च नानालङ्कार शोभितः ।

मुकुटी कुण्डली भ्राजच्चारुगण्डो लसन्मुखः

॥२७॥

मुक्ताप्रवालमालाभिर्भ्राजद्वक्षा महाभुजः ।

परशुं कमलं दन्तं मोदकांश्च दधद् भुजैः

॥२८॥

पुष्करं पुष्करे धृत्वा भ्रामयन् स्वेच्छया विभुः ।

प्रभया भासयन् सर्वा दिशो विदिश एव च

॥२९॥

ददर्श रामोऽकस्मात् तं न्यमीलयत चाक्षिणी ।

तत्तेजसा प्रतिहते ततस्तुष्टाव तं द्विजः

॥३०॥

राम उवाच

सहस्रादित्यसङ्काश नमस्ते जगदीश्वर ।

नमस्ते सर्वविद्येश सर्वसिद्धिप्रदायक

॥३१॥

विघ्नानां पतये तुभ्यं नमो विघ्ननिवारण ।

सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियङ्कर

॥३२॥

भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे ।

नमो विश्वस्य कर्त्रे ते नमस्तत्पालकाय च

॥३३॥

निवारय महाविघ्नं तपोनाशकरं मम ।

क उवाच ।

इति स्तुतिं समाकर्ण्य सौम्यतेजा गजानन

॥३४॥

उवाच रामं सम्भ्रान्तं स्वस्यैव तिग्मतेजसा ।

गणेश उवाच ।

यं ध्यायसि दिवारात्रौ मन्त्रं जप्त्वा षडक्षरम्

॥३५॥

वरं दातुं समायातः सोऽहं राम तवाधुना ।

वरं वृणीष्व मत्तस्त्वं यद् यद् वाञ्छसि चेतसा

॥३६॥

ब्रह्माण्डानामनेकानां सृष्टा पाताऽपहारकः ।

नैव जानन्ति मे रूपं ब्रह्माद्या मुनयोऽपि च

॥३७॥

राजर्षयश्च सर्वेऽपि सोऽहं ते दर्शनं गतः ।

राम उवाच ।

योऽप्रमेयोऽखिलाधारः सृष्टिसंहारकारकः

॥३८॥

यो न वेदैर्न तपसा न यज्ञैर्व्रतसञ्चयैः ।

न दानैर्नैव योगैश्च जनानां दृष्टिगोचरः

॥३९॥

सोऽहं त्वं हि मया दृष्टोऽनुग्राहात्तव विघ्नप ।

किमन्यद् वरये देव भक्तिं देहि निजां दृढाम्

॥४०॥

गणेश उवाच

भविता मम भक्तिस्ते दृढा राम द्विजोत्तम ।

प्रलोभितस्यापि वरैर्न ते बुद्धिः सुविव्हला

॥४१॥

परशुं मे गृहाण त्वं सर्वशत्रुनिबर्हणम् ।

नाम ते परशुरामेति त्रैलोक्ये ख्यातिमेष्यति

॥४२॥

क उवाच

एवं तस्मै वरं दत्त्वा परशुं च गजाननः ।

पश्यतां सर्वलोकानामन्तर्धानं ययौ तदा

॥४३॥

रामोऽपि स्थापयामास महागणपतिं तदा ।

ब्राह्मणैर्वेदवेदाङ्गशास्त्रविद्भिः समं मुदा ।

ब्राह्मणान् भोजयामास दत्त्वा दानान्यनेकशः

॥४४॥

प्रासादं कारयामास रत्नस्तम्भयुतं दृढम् ।

सम्पूज्य तं परिक्रम्य प्रणिपत्य गजाननम्

॥४५॥

रामः प्रसन्नमनसा प्रययौ निजमन्दिरम् ।

ततो रामो जुहावोच्चैः कार्तवीर्यधरापतिम्

॥४६॥

युद्धे तु शातयामास राज्ञो बाहुसहस्रकम् ।

निःक्षत्रियां च पृथिवीं चक्रे त्रिसप्तवारतः

॥४७॥

ब्राह्मणेभ्यो ददौ पृथ्वीं यज्ञं कृत्वा सदक्षिणम् ।

पुपूजुस्तं तदा लोका ज्ञात्वा विष्णु तमीश्वरम

॥४८॥

दृष्ट्वा पराक्रमं तस्य सर्वदेवातिगं दृढम् ।

एवं नानाविधो ब्रह्मन् महिमा ते निरूपितः

॥४९॥

गजाननस्य देवस्य सङ्क्षेपेण मया सुत ।

निखिलेन न शेषोऽपि क्षमो वक्तुं मुनिश्वर

॥५०॥

उपासनाखण्डमिदं श‍ृणुयान्मानवो भुवि ।

सर्वान् कामानवाप्नोति गणेशं धाम चाप्नुयात्

॥५१॥

यथेष्टं रमते तत्र यावदाभूत सम्प्लवम्

॥५२॥

इति श्रीगणेशपुराणे उपासनाखण्डे रामवरदानं नाम द्वयशीतितमोऽध्यायः ॥ ८२ ॥