मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 40

3
उपासनाखण्डः · 40

स्तोत्र निरूपणं नाम चत्वारिंशोऽध्यायः

ब्रह्मोवाच

आक्रम्य देवधिष्ण्यानि दैत्योऽगाद् ब्रह्मणः पदम् ।

पराक्रमं दैत्यकृतं श्रुत्वा देव मुखात् पुरा

॥१॥

ब्रह्मा ययौ नाभिपद्मं विष्णुः क्षीरनिधिं ययौ ।

दैत्यस्य मानसौ पुत्रौ प्रचण्डश्चण्ड एव च

॥२॥

प्रचण्डं स्थापयामास ब्रह्मलोकेऽधिनायकम् ।

ततश्चण्डं च वैकुण्ठे चकार स्वामिनं स्वयम्

॥३॥

ततः कैलासमगमत् तं च दौर्भ्यामचालयत् ।

भयभीता च गिरिजाऽऽलिलिङ्गे शङ्करं भृशम्

॥४॥

ततः कैलासमगमद् युद्धाकाङ्क्षी महासुरः ।

तेन तुष्टो महादेवो दैत्यस्य पौरूषेण च

॥५॥

बहिर्ययौ वरं दातुं निजभक्तसुखप्रदः ।

ददर्श त्रिपुरं दैत्यं वरं वृण्वित्यथाऽब्रवीत्

॥६॥

स वव्रे यदि तुष्टोऽसि देहि कैलासमद्य मे ।

गच्छ मन्दारशिखरं यावन्मम मनोरथः

॥७॥

शङ्करोऽपि ददौ तस्मे कैलासं स्वल्पकालिने ।

स्वयं जगाम गिरिशो मन्दाराद्रिं गणैर्वृतः

॥८॥

कैलासशिखरारूढो जहर्ष त्रिपुरासुरः ।

एवं देवान्वशे कृत्वा पुनरायाद् रसातलम्

॥९॥

भीमकायोऽपि बलवान् भूमण्डल गतो बलात् ।

वशे चकार नृपतीन् ऋषीन् सर्वान् बबन्ध च

॥१०॥

अग्निकुण्डानि सर्वाणि देवतृप्तिकराणि च ।

आश्रमांश्च बभञ्जाऽऽशु तीर्थानि च विशेषतः

॥११॥

तापसांस्रासयामास कारागार समाश्रयात् ।

स्वाहास्वधावषट्कारान् वेदस्याभ्यसनानि च

॥१२॥

सदाचारान् सदा द्वेष्टि सर्वगर्वसमन्वित ।

वज्रदंष्ट्रोऽथ सप्तापि पातालानि वशेऽनयत्

॥१३॥

शेषं च वासुकिं चैव तक्षकं सर्वभोगिनः ।

निर्विषान् सविषांश्चैव चकार वशवर्तिनः ।

वज्रदंष्ट्रो रत्नजातं बुभुजेऽप्रेषयच्च तम्

॥१४॥

नागाङ्गनाभिश्च कुतूहलेन रेमे सदाऽसौ समदोऽतिहर्षात् ।

भोगान् विभुञ्जन् विविधानि रत्नान्यादाय यातस्त्रिपुरान्तिके सः

॥१५॥

पातालवश्यतां शंसन् लेभे मानं ततोऽधिकम्

॥१६॥

वस्त्राणि च महार्हाणि ग्रामान् दासाननेकशः ।

एवं त्रिलोकान् वशगान् कृत्वा दैत्यो ननन्द ह

॥१७॥

देवाः सर्वे गुहावासाश्चिन्तयामासुरन्वहम् ।

कथमस्य वधः कस्मिन्काले वापि भविष्यति

॥१८॥

कस्माद्वेति न जानीमो लब्धोऽनेन वरं कुतः ।

एवं व्याकुचित्तेषु सुरेषु मुनिसत्तम

॥१९॥

आययौ नारदस्तत्र त्रैलोक्यचर इच्छया ।

ददर्शं दीनान्देवांस्तानुत्ततार नभः पथात्

॥२०॥

दृष्ट्वा सर्वे नारदं तमुत्तस्थु सहसाऽऽदरात् ।

आलिलिङ्गुश्च नेमुश्च पुपूजुश्च यथाक्रमम्

॥२१॥

विश्रान्तं परिपप्रच्छुस्त्रिपुरस्यवरादिकम् ।

देवा ऊचुः ।

त्रिपुरेण समाक्रान्तं त्रैलोक्यं सचराचराम्

॥२२॥

स्थाथानि नो गृहीतानि केशास्तेनापि निर्जिताः ।

शरणं कं व्रजामोऽद्य कथं तस्य वधो भवेत्

॥२३॥

वराश्च केन दत्ता नो वदाऽस्य त्रिपुरस्य भोः ।

नारद उवाच ।

कथयामि समासेन दैत्यस्य चेष्टितं महत्

॥२४॥

दिव्यवर्षसहस्रं स तताप परमं तपः ।

प्रसादयामास विभुं गणेशं देवनायकम्

॥२५॥

तेनाऽस्मै दुर्धरा दत्ता वराः सर्वभयङ्कराः ।

देवर्षिपितृभूतेभ्यो यक्षरक्ष पिशाचतः

॥२६॥

न नागेभ्यो भयं दत्तं विनैकं शङ्करं विभुम् ।

प्रसादयन्तु देवेशं द्विरदाननमादरात्

॥२७॥

आराधयन्तु सर्वेऽपि विघ्नेशं सर्वसिद्धिदम् ।

देवा ऊचुः ।

कथमाराधनं तस्य देवदेवस्य धीमतः

॥२८॥

कर्तव्यं मुनिशार्दूल कृपया तद्वदस्व नः ।

नारद उवाच ।

अहमेकाक्षरं मन्त्रं कथयाम्यखिलान् प्रति

॥२९॥

तेन मन्त्रेण ते सर्वे मया दत्तेन भक्तितः ।

अनुष्ठानं प्रकुर्वन्तु सर्वेऽपि स्थिरमानसाः

॥३०॥

यावतं प्रत्यक्षतामेति देवोऽसौ गणनायकः ।

स एव तद्वधोपायं वदिष्यत्यखिलान्प्रति

॥३१॥

नान्योपायं प्रपश्यामि तस्मात् कुर्वन्तुमे वचः ।

ब्रह्मोवाच ।

इत्युक्त्वा नारदः सर्वानुपदिश्य मनुं च तम्

॥३२॥

जगाम तत्क्षणादेव वीणागानरतो मुनिः ।

ततः सर्वे सुरवरा गणेशध्यानतत्पराः

॥३३॥

एकपादस्थिताः केचित्केचितपद्मासनस्थिताः ।

केचिद्वीरासनयुताः केचिन्मीलितलोचना ।

निराहारा जितश्वासा जेपुर्मन्त्रं मुनीरितम्

॥३४॥

ततो बहुगते काले करूणाब्धिर्गजाननः ।

अनुष्ठानं निरीक्ष्यैषां देवानां चिरकालजम्

॥३५॥

आविर्बभूव गणपस्तेषामग्रे वरप्रदः ।

उल्लसत्स्वर्णमुकुटश्चारूकुण्डलमण्डितः

॥३६॥

दन्तन्यस्तकरो राजत्कटिसूत्रवराङ्गदः ।

पाशं सृणिं च परशुं कमलं च भुजैर्दधत्

॥३७॥

रक्तचन्दनकस्तूरीसिन्दूरशशिभूषणः ।

विद्युत्तेजोलसत्कान्तिः कोटिसूर्यसमप्रभः

॥३८॥

दृष्ट्वैवं सहसा देवं विनायकमनामयम् ।

तेजसा धर्षिताः सर्वे भयमापुश्च केचन

॥३९॥

प्रणेमुः सहसा केचिद् देवास्तं द्विरदाननम् ।

पूजयामासुरपरे हर्षगद्गदभाषिणः

॥४०॥

स्वसङ्कष्ट विनाशाय तुष्टुवु कोऽपि तं विभुम् ।

प्रसादसुमुखं देवं सुमुखं सङ्कटापहम्

॥४१॥

देवा ऊचुः

नमो नमस्ते परमार्थरूप नमो नमस्तेऽखिलकारणाय ।

नमो नमस्तेऽखिलकारणाय सर्वेन्द्रियाणामधिवासिनेऽपि

॥४२॥

नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश ।

नमो नमः सर्वधियां प्रबोध नमो नमो विश्वलयोद्भवाय

॥४३॥

नमो नमो विश्वभृतेऽखिलेश नमो नमः कारणकारणाय ।

नमो नमो वेदविदामदृश्य नमो नमः सर्ववरप्रदाय

॥४४॥

नमो नमो वागविचारभूत नमो नमो विघ्ननिवारणाय ।

नमो नमोऽभक्तमनोरथघ्न नमो नमो भक्तमनोरथज्ञ

॥४५॥

नमो नमोऽभक्तमनोरथेश नमो नमो विश्वविधानदक्ष ।

नमो नमो दैत्यविनाशहेतो नमो नमः सङ्कटनाशकाय

॥४६॥

नमो नमः कारूणिकोत्तमाय नमो नमो ज्ञानमयाय तेऽस्तु ।

नमो नमोऽज्ञानविनाशनाय नमो नमो भक्तविभूतिदाय

॥४७॥

नमो नमोऽभक्तविभूतिहन्त्रे नमो नमो भक्तविमोचनाय ।

नमो नमोऽभक्त विबन्धनाय नमो नमस्ते प्रविभक्तमूर्ते

॥४८॥

नमो नमस्तत्त्वविबोधकाय नमो नमस्तत्त्वविदुत्तमाय ।

नमो नमस्तेऽखिलकर्मसाक्षिणे नमो नमस्ते गुणनायकाय

॥४९॥

ब्रह्मोवाच

एवं स्तुत सुरैर्देवो द्विरदानन ईश्वरः ।

उवाच परमप्रीतो हर्षयत् सुरसत्तमान्

॥५०॥

गणेश उवाच

स्तोत्रेण तपसा चैव सुराः सन्तुष्टिमागतः ।

ददामि सकलाभीष्टं तद् वृणुध्वं सुरेश्वराः

॥५१॥

देवा ऊचुः

यदि तुष्टोऽसि देवेश त्रिपुरं जहि दानवम ।

सर्वैषामधिकारान् नो गृहीत्वा यस्तु तिष्ठति

॥५२॥

त्वयैवास्याऽभयं दत्तं सर्वामरसमूहतः ।

अतः स्म सङ्कटं प्राप्ताः सङ्कटान्मोचयाऽऽशु नः

॥५३॥

त्वामे शरणं प्राप्ता एष एव वरो हि नः ।

गणेश उवाच ।

वारयिष्ये भयं सर्वं तस्माद् घोरतराद् हि वः

॥५४॥

भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम् ।

सङ्कष्टनाशनमिति विख्यातं च भविष्यति

॥५५॥

पठतां श‍ृण्वतां चैव सर्वकामप्रदं नृणाम् ।

त्रिसन्ध्यं यः पठेदेतत् सङ्कष्टं नाप्नुयात क्वचित्

॥५६॥

ब्रह्मोवाच

इति दत्त्वा वरं तेषां सुराणां जगदीश्वरः ।

पश्यतां मुनिदेवानां तत्रैवाऽन्तर्दधे विभुः

॥५७॥

इति श्रीगणेशपुराणे उपासनाखण्डे स्तोत्रनिरूपणं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥