मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 54

3
उपासनाखण्डः · 54

इन्दुमती नारद संवादे चतु।पञ्चाशत्तमोऽध्यायः

पार्वत्युवाच

तस्यां तु मूर्छितायां तु किमकुर्वन् जनास्तदा ।

तन्मे विस्तरतो ब्रूहि हृदयानन्दनं पितः

॥१॥

हिमवानुवाच

तदा सर्वे नागरिका नानावाक्यविशारदाः ।

प्रमृज्य स्वानि चाश्रूणि समादध्युर्नृपस्त्रियम्

॥२॥

जना ऊचुः

मातरुत्तिष्ठ मा शोकं कुरु पुत्रे मनः कृथाः ।

प्रेतं दहति शोकाश्रु तस्माद्भर्तृहितं कुरु

॥३॥

मर्त्येषु न हि दृष्टोऽस्ति चिरञ्जीवी शुभानने ।

यथा जीर्णं परित्यज्य वासोऽन्यद्गृह्यते जनैः

॥४॥

वर्ष्मापि देहिना तद्वत् त्यक्त्वाऽन्यद् गुह्यते शुभम् ।

अत्याश्चर्यमिदं भद्रे स्वयं मृत्युमुखे स्थितः

॥५॥

शोचते मृतमपरं स्वयं मरण धर्मवान् ।

स्वदेहेन वियोगं च न वेत्ति भाविनं जनः

॥६॥

मदीयं मन्यते सर्वं दैवकालवशे स्थितम् ।

ब्रह्मादिस्थावरान्तं यद् विश्वं साब्धिचराचरम्

॥७॥

ज्ञात्वा तं नश्वरं शोकं त्यक्त्वोत्तिष्ठ सुपुत्रिणि ।

धर्मवान् पुण्यशीलस्ते भर्ता मुक्तिं गतो भवेत्

॥८॥

जीवन् यदि भवेत् स्वर्गे तदा यास्यति कर्हिचित् ।

अतिपुण्यान्मानवोऽपि याति स्वर्गं गतः पुनः ।

अथवा परिपृच्छामो मुनिं कञ्चिदिहागतम्

॥९॥

अतीतानागतविदं कथयिष्यति सोऽखिलम् ।

अनन्तरं हि यत्कार्यं तत्सर्वं विदधामहे

॥१०॥

हिमवानुवाच

एवं प्रबोधिता लोकैः क्षणमिन्दुमती तदा ।

आश्वस्ता सर्ववाक्येन प्रमृज्याश्रूणि वाससा

॥११॥

विसर्जयामास तदा लोकान् सर्वान् समागतान् ।

त्यक्त्वा सौभाग्यचिन्हानि प्रपेदे कृशतां भृशम्

॥१२॥

रुदती शोचती तस्थौ श्वसती मूर्छिता मुहुः ।

ततो द्वादशवर्षान्ते नारदो दिव्यदर्शनः

॥१३॥

आजगाम गृहं तस्या यदृच्छाविचरन्मुनिः ।

दृष्ट्वा तं विललापाशु वदन्ती भर्तृचेष्टितम्

॥१४॥

दुःख चाकथयत्तस्मै जातं द्वादशवार्षिकम् ।

निशम्य रुदितं तस्या हर्षयन् मुनिरब्रवीत्

॥१५॥

नारद उवाच

क्वापि तिष्ठति ते भर्त्ता न तं शोचितुमर्हसि ।

शिरश्छादय नीलेन वाससा कर्णभूषणे

॥१६॥

कर्णयोः कुरु भाले त्वं बिभ्रती कुङ्कुमं शुभम् ।

वलयानि च करयोः कण्ठे मङ्गलसूत्रकम्

॥१७॥

हिमवानुवाच

सर्वज्ञस्य मुनेर्वाक्याद्विश्वस्ता सत्यवादिनः ।

तत्कालं सर्वमानाय्य हर्षिता सा तथाऽकरोत्

॥१८॥

आकार्य ब्राह्मणान् सर्वान् सम्पूज्य नारदं पुरा ।

सम्पूज्य सकलांस्तांस्तु ददौ दानान्यनेकशः

॥१९॥

वादयामास वाद्यानि शर्करां च गृहेगृहे ।

प्रेषयामास च तदा हर्षादिन्दुमती शुभा

॥२०॥

वस्त्रताम्बूल दानेन ददावाज्ञां जनस्य सा ।

प्रणिपत्य पुनर्देव मुनिं नारदमादरात्

॥२१॥

स्वभर्तृप्राप्तयेऽपृच्छदुपायं राजकन्यका ।

इन्दुमत्युवाच ।

कुत्र तिष्ठति मे भर्ता कथं तिष्ठति वा मुने

॥२२॥

केनोपायेन वेदज्ञ दर्शनं तस्य मे भवेत् ।

अनुग्रहं कुरु मुने तमुपायं वदस्व मे ।

व्रतं दानं तपो वापि दुःसाध्यमपि यद्भवेत्

॥२३॥

नारद उवाच

व्रतं तु परमं तेऽहं कथयामि समासतः ।

नभः शुक्लचतुर्थ्यां तदारभेत् परया मुदा

॥२४॥

नद्यां तडागे वाप्यां वा दन्तधावनपूर्वकम् ।

स्नानं प्रभातसमये कुरु सङ्कल्प पूर्वकम्

॥२५॥

शुक्लवासा गृहं गत्वा मृन्मयीं मूर्तिमुत्तमाम् ।

कुर्याच्चतुर्भुजां सम्यग्गणेशस्य मनोरमाम्

॥२६॥

उपचारैः षोडशभिः पूजयेत् स्थिरचेतसा ।

एकान्नमेकभुक्तं वा स्वयं कुर्यात्पप्रयत्नतः ।

उपोषणं वा कुर्वीत यावद् भाद्रचतुर्थिका

॥२७॥

गीतवादित्र नृत्याद्यैर्ब्राह्मणानां च भोजनैः ।

महोत्सवं प्रकुरर्वीत विभवे सति शोभने

॥२८॥

एवं व्रतं कुरु शुभे भर्त्रा सह समेष्यसि ।

पाताले नागकन्याभिः रुद्धेन जीविता शुभे

॥२९॥

सत्यं ब्रवीमि ते सत्ये नान्यथा मम भाषितम् ।

हिमवानुवाच ।

इत्युक्ता तेन मुनिना व्रतं प्रारम्भदादरात्

॥३०॥

गते मुनौ नभोमासि दिनैः कतिभिरागते ।

द्विरदाननमूर्तिं सा चकार पार्थिवीं शुभाम्

॥३१॥

पूर्वोक्तविधिना पूजां चकार सुमनोहराम् ।

दिव्यगन्धैर्दिव्यवस्त्रैर्दिव्यैश्च कुसुमैरपि

॥३२॥

दिव्यैर्नानाविधैश्चैव नैवेद्यैः फलकाञ्चनैः ।

दीपैः पुष्पाञ्जलीभिश्च प्रक्रमैर्नतिभिःस्तवैः

॥३॥

तन्नामस्मरणैर्ध्यानैस्तोषयामास तं विभुम् ।

गीतवादित्रनृत्याद्यैर्ब्राह्मणानां च भोजनैः

॥३४॥

पलमात्रं पयो भुक्त्वा चकार व्रतमुत्तमम् ।

नभः शुक्लचतुर्थ्यादि चिरनष्टप्रियाप्तये

॥३६॥

नारदस्य मुनेर्वाक्याद् यावद्भाद्रचतुर्थिका

॥३६॥

इति श्रीगणेशपुराणे उपासनाखण्डे इन्दुमतीनारदसंवादो चतुपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥