मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 45

3
उपासनाखण्डः · 45

शिवस्य वरदानं नाम पञ्चचत्वारिंशोऽध्यायः

मुनिरुवाच

ततः प्रसन्ने विघ्नेशे देवेशे विघ्नहारिणि ।

वरान् दित्सति शर्वाय किं किं वव्रे सदाशिवः

॥१॥

ब्रह्मोवाच

गणेशवचनं श्रुत्वा शिवोवाक्यमथाऽब्रवीत् ।

स्मृत्वा गजाननं तं तु स्वस्वरूपं वरप्रदम्

॥२॥

शिव उवाच

दशापि नेत्राणि ममाद्य धन्यान्यथो भुजाः पूजनतस्तवाद्य ।

तवानतेः पञ्च शिरांसि धन्यान्यथस्तुतेः पञ्चमुखानि देव

॥३॥

पृथ्वी जलं वायुरथो दिशश्च तेजश्च कालः कलनात्मकोऽपि ।

नभो रसो रूपमथापि गन्धः स्पर्शश्च शब्दो मन इन्द्रियाणि

॥४॥

गन्धर्वयक्षाः पितरो मनुष्या देवर्षयो देवगणाश्च सर्वे ।

ब्रह्मेन्द्ररुद्रा वसवोऽथ साध्याः त्वत्तः प्रसूताः स चराचरश्च

॥५॥

सृजस्यदो विश्वमनन्यबुद्धे रजोगुणात्पासि समस्तमेतत् ।

तमोगुणात्संहरसे गुणेश नित्यो निरीहोऽखिलकर्मसाक्षी

॥६॥

ब्रह्मोवाच

ततोऽहमब्रुवं देवं गणेशं तं शिवाज्ञया ।

नाम चाकरवं तस्य यत्तच्छृणु महामते

॥७॥

त्वन्नाम बीजं प्रथमं मातृकाणामोङ्काररूपं श्रुतिमूलभूतम् ।

यतो गणानां त्वमसीह ईशो गणेश इत्येव तवास्तु नाम

॥८॥

ओमित्यथोक्ते गणनायकेन तुतोष शर्वः प्रददौ वरांश्च ।

यः सर्व कार्येषु तवेश कुर्यात् स्मृतिं तदन्तं स लभेदविघ्नम्

॥९॥

विना स्मृतिं तेन लभेच्च कोऽपि वाञ्छार्यसिद्धिं कृमिकीटकोऽपि ।

शैवेस्त्वदीयैरथ वैष्णवैश्च शाक्तैश्च सौरेरथ सर्वकार्ये

॥१०॥

शुभाशुभे वैदिकलौकिके वा त्वमर्चनीयः प्रथमं प्रयत्नात् ।

यन्मङ्गलं सर्वजनेषु देव सयक्षविद्याधरपन्नगेषु

॥११॥

तस्येश्वरो मङ्गलमूर्त्तितां त्वं ततो यतो मङ्गल कृत् स्वभक्ते ।

अहं पुराऽनर्चयतस्तवेश त्वय्यस्मृतेर्दैत्यवरस्य युद्धे

॥१२॥

अवन्दनाच्चाप पराभवं तं ततस्तवाङ्घ्रिं शरणं प्रपन्नः ।

क्षमापराधं मम सर्वशक्ते जयं प्रयच्छाखिलजन्यकाले

॥१३॥

ये सर्वथा त्वां न भजन्ति देव जडा दरिद्राः प्रभवन्तु तेऽपि ।

भजति ते भक्तियुता मनुष्याः प्राप्स्यन्ति सिद्धिं निखिलार्थदात्रीम्

॥१४॥

क उवाच

इत्थं निशम्याखिलवाक्यसारवेत्ताऽवदद्वाक्यमिदं गिरीशम् ।

यदायदा मे स्मरणं विदध्यास्तदाऽन्तिकं तेऽहमियामुमेश

॥१५॥

मन्नामबीजेन निमन्त्रयैकं बाणं तु तेनैव पुरत्रयं तत् ।

निपातयास्मन्महसा महेश कृत्वा स दैत्यं खलु भस्मसात् त्वम्

॥१६॥

ततः स्वनाम्नामवदत् सहस्रं गणाधिपोऽस्मै प्रणताय सम्यक् ।

शिवाय भक्त्या परितुष्टचित्तो जयप्रदं कामकरं जनानाम्

॥१७॥

उवाच चैनं रणकाल एतत् पठस्व दैत्यान्विनिहंसि शीघ्रम् ।

त्रिसन्ध्यमेतस्य जपान्नराणां सिध्यन्ति कामाः सकला अभीष्टाः

॥१८॥

श्रुत्वा तु वाक्यं द्विरदाननस्य तं पूज्य सम्यक् शिव उज्जहर्ष ।

संस्थापयामास महागणेशं प्रासादमुच्चैर्दृढमाशु चक्रे

॥१९॥

सन्तर्प्य देवान् मुनिसिद्ध सङ्घान् दानानि दत्वा द्विजपुङ्गवेभ्यः ।

पुनश्च सम्पूज्य नमश्चकार देवं गिरीशो वरदं गणेशम्

॥२०॥

उवाच सर्वान् मणिपूररियं तु विख्यातिमागच्छतु सर्वलोके ।

देवेन सर्वैश्च तथोदितैस्तैरन्तर्दधुस्ते गणनाथ मुख्याः

॥२१॥

अन्तर्हिते मुनिगणे ससुरे गणेशे शर्वोऽप्यगात् स्वनिलयं स्वगणैरूपेतः ।

गन्धर्व यक्ष निवहैरमराङ्गनाभिर्वृत्तं निजं परमुदा गिरिजामुवाच

॥२२॥

श्रुत्वा तदाऽमृतवचः सकलं गिरीशाद् देवेश्वरा मुमुदिरे मुनयः सदाराः ।

योगीश्वराश्च निहतं त्रिपुरं स्वधिष्ण्यममंसताप्यधिगतं गिरिशप्रसादात्

॥२३॥

इति श्रीगणेशपुराणे उपासनाखण्डे शिवस्य वरदानं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥