मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 15

3
उपासनाखण्डः · 15

गजानन पूजा निरूपणनाम पञ्चदशोऽध्यायः

भृगुरुवाच

व्यासायाकथयच्चाग्रे ब्रह्मा लोकपितामहः ।

सोमकान्त प्रवक्ष्यामि तां कथां श‍ृणु सादरम्

॥१॥

ब्रह्मोवाच

ततोऽहं सुमहत्स्वप्नं ददर्श मुनिसत्तम ।

भ्रमता भ्रमता व्योमजले दृष्टो वटो महान्

॥२॥

महावातातपाद्भिस्तु नष्टे स्थावरजङ्गमे ।

अवशिष्टः कशमयमेकएव वटो महान्

॥३॥

एवं संशयमापन्नस्तत्पत्रे बालकं लघुम् ।

चतुर्बाहुं सुमुकुटं कुण्डलाभ्यां विराजितम्

॥४॥

मणिमुक्तामयं दाम विभ्रत्कण्ठे सुशोभितम् ।

अर्धचन्द्रं रक्तवस्त्रं कटिसूत्रं तथैव च

॥५॥

एकदन्तं नरवपुर्गजास्यं तेजसा ज्वलत् ।

दृष्ट्वैवं तर्कयामास बालकं कथमत्र वै

॥६॥

पुष्करेण च बालोऽसौ जलं मन्मस्तकेऽक्षिपत् ।

ततोऽहमाजहासोच्चैश्चिन्तानन्दसमन्वितः

॥७॥

मय्याहसति बालः स उत्ततार वटात्ततः ।

स ममाङ्कं समागत्य मञ्जुवाक्यं जगाद ह

॥८॥

बाल उवाच

लघोर्लघुतरोऽसि त्वं वृथा वृद्धोऽपि मूढधीः ।

विघ्नैरभिहतोऽसि त्वं सृष्टिचिन्तासमावृतः

॥९॥

तपश्चिन्तापरो नित्यं विभ्रमञ्जलमध्यगः ।

सर्वचिन्ताहरं तेऽहुमुपायं चतुरानन

॥१०॥

उपादिशामि ते मन्त्रमेकाक्षरमिमं मम ।

पुरश्चरणमार्गेण दशलक्षं जपस्व तम्

॥११॥

ततः प्रत्यक्षतां यास्ये दास्ये सामर्थ्यमुत्तमम् ।

ब्रह्मोवाच ।

दृष्ट्वैवं स्वप्नमाश्चर्यं प्रतिबुद्धोंऽभवं ह्यहम्

॥१२॥

शुशोच च कदा मे स्याद्दर्शनं परमेशितुः ।

दृष्टस्वप्नोऽभवं मग्न आनन्दमयसागरे

॥१३॥

ततः स्नात्वा परं मन्त्रं जजाप बहुवासरम् ।

एकपादेन कमले तिष्ठन् ध्यायन गजाननम्

॥१४॥

जितेन्द्रियो जिताहारः काष्ठपाषाणवत् स्थिरः ।

दिव्यवर्षसहस्रं स तपस्तेपे परं महत्

॥१५॥

ततो मन्मुखतो ज्वालाः प्रादुरासन् दुरासदाः ।

ताभिः सर्वाणि भूतानि पीडामापुः सुदारुणाम्

॥१६॥

ततो गजाननो दृष्ट्वा तां निष्ठां मम सुदृढाम् ।

तुतोष परया भक्त्या प्रादुरासीत्ततः पुरः

॥१७॥

कोटिसूर्यसमानश्रीर्ज्वालामालीव हव्यभुक् ।

दहन्निव त्रिलोकीं स संहरन्निव रोदसी

॥१८॥

परशुकमलधारी दिव्यमायाविभूषः सकलदुरितहारी सर्वसौन्दर्यकोशः ।

करिवरमुखशोभी भक्तवाञ्छाप्रपोषः सुरमनुजमुनीनां सर्वविघ्नैकनाशः

॥१९॥

तेजोराशिमहं दृष्ट्वा चकम्पे व्यास सन्मुने ।

चिन्तामवाप परमां व्यग्रचित्तो जपाच्च्युतः

॥२०॥

आच्छादितानीक्षणानि स्मृतिश्च विलयं गता ।

दृष्ट्वेदृशीमवस्थां तां शीघ्रं प्राहाऽथ विघ्नराट्

॥२१॥

गणेश उवाच

न भयं कुरू लोकेश ! स एवाहं समागतः ।

येन ते मन्त्र आदेशि स्वप्न एकाक्षरः शुभः

॥२२॥

तेन सिद्धिरनुप्राप्ता वरं दातुं समागतः ।

सौम्यभावं प्रपन्नोऽस्मि वरं वरय सुव्रत

॥२३॥

दास्यामि ते प्रसन्नोऽहं यत् ते हृदि वर्तते ।

मयि प्रसन्ने सर्वं तद्भविता नात्र संशयः

॥२४॥

मुनिरुवाच

इत्थं निशम्य गणनाथ वचो विशुद्धं ब्रह्मा जहर्ष परमं प्रसमीक्षमाणः ।

नत्वा चराचरगुरूं सकलैः शिरोभिः प्राह प्रसन्नहृदयः सफलं जनुर्मे

॥२५॥

ब्रह्मोवाच

यो वेदानां सशास्त्राणां ज्ञानिनां योगिनामपि ।

सर्वोपनिषदां चैव गोचरो न कदाचन

॥२६॥

स पुण्यनिचयैर्मैऽद्य यातः प्रत्यक्षतां विभुः ।

अनादिनिधनोऽनन्तोऽप्रमेयो निर्गुणोऽपि च

॥२७॥

यदि प्रसन्नो देवेश विघ्नेश करूणाकर ।

तव भक्तिं दृढां देहि यया दुःखं न नःस्पृशेत्

॥२८॥

इदानीं देहि सामरर्थ्यं नाना निर्माणने मम ।

विघ्नानिच शमं यान्तु यदि तुष्टोऽसि मे प्रभो

॥२९॥

स्मृतमात्रः सदा मे त्वं सर्वं कार्यं समापय ।

अन्ते मुक्तिं स्थिरां देहि ज्ञानञ्च विमलं मम

॥३०॥

गजानन उवाच

एवमस्तु कुरुष्व त्वं सृष्टिं नानाविधां बहुम ।

मां स्मृत्वा सर्वविघ्नानि नाशं यास्यन्ति सर्वतः

॥३१॥

दृढा भक्तिः शुभं ज्ञानं मत्प्रसादाद्भविष्यति ।

निःशङ्कं कुरू कार्याणि सर्वाणि चतुरानन

॥३२॥

मुनिरूवाच

एवं लब्धवरो ब्रह्मा पूजयामास तं विभुम् ।

यद्यच्चितेऽचिन्तयत् स तत् तदेवोपतिष्ठते

॥३३॥

पूजार्थं देवदेवस्य गणेशस्य प्रसादतः ।

दक्षिणावसरे द्वे तु कन्यके समुपस्थिते

॥३४॥

चारुप्रसन्ननयनवदनैः सुविराजते ।

अनेकरत्नखचितनानालङ्कारशोभिते

॥३५॥

दिव्यगन्धयुते दिव्यवस्त्रमालाविभूषते ।

ते तस्मै दक्षिणार्थं स कल्पयामास पद्मभूः

॥३६॥

रम्भागर्भेण नीराज्य दिव्यं पुष्पाञ्जलिं ददौ ।

सहस्रनामभिः स्तुत्वा प्रदक्षिणमथाकरोत्

॥३७॥

नमस्य प्रार्थयामास दीनानां शङ्करो भव ।

एवं सम्पूजितस्तेन ब्रह्मणा परमेष्ठिना

॥३८॥

ततः प्रसन्नो भगवान् विघ्नहर्ता गजाननः ।

सिद्धिबुद्धी गृहीत्वा ते ह्यन्तर्धानमगाद्विभुः

॥३९॥

कस्ततः कारयामास सृष्टिं पूर्ववदायताम् ।

आज्ञया परमेशस्य प्रसादाच्च प्रसन्नधीः

॥४०॥

इति श्रीगणेशपुराणे उपासनाखण्डे गजानन पूजा निरूपणनाम पञ्चदशोऽध्यायः ॥ १५ ॥