गजाननदर्शनन्नाम द्वादशोऽध्यायः
सूत उवाच
इति श्रुत्वा तु वचनं निर्गतं ब्रह्मणो मुखात् ।
हर्षेण महता युक्तो मुनिः पप्रच्छ तं पुनः
॥१॥व्यास उवाच
अवधानं मया प्राप्तं पीत्वा वागमृतं तव ।
इदानीं श्रोतुमिच्छामि मन्त्रराजमिमं पितः
॥२॥को जजाप कथं सिद्धिमवाप च गजाननात् ।
एतं मे संशयं छिन्धि त्वत्तोऽन्यो नास्ति मे गुरूः
॥३॥भृगुरुवाच
इत्येवं मुनिना पृष्टो जगाद वदतां वरः ।
कृपयावनतं ब्रह्मा तं व्यास राजसत्तम
॥४॥ब्रह्मोवाच
साधु साधु त्वया पृष्टं पुण्यवानसि साम्प्रतम् ।
न ह्यपुण्यवतां ब्रह्मन् कथायाः श्रवणे रतिः
॥५॥उपासनामार्गमिमं सम्यक्त्वां बोधयाम्यहम् ।
स्निग्धे प्रज्ञाधिके शिष्ये यतो गोप्यं न किञ्चन
॥६॥ॐकाररूपी भगवानुक्तसे गणनायकः ।
यथा सर्वेषु कार्येषु पूज्यतेऽसौ विनायकः
॥७॥निर्विघ्नकामनावद्भिर्नोचेद्विघ्नं करोति सः ।
तथोङ्कार बीजयुक्ता ॐकार पल्लवान्विताः
॥८॥मन्त्राः सर्वागमे प्रोक्ता अन्ये ये निष्फलाश्च ते ।
सदसद् व्यक्तमव्यक्तं सर्वं हि गणनायकः
॥९॥एवं सर्वे देवसिद्धमुनिराक्षसकिन्नराः ।
गन्धर्वाश्वारणा नागा यक्षगुह्यकमानवाः
॥१०॥उपासका गणेशस्य सर्वे लोकाश्चराचराः ।
अत एव गणेशाद्धि परं किञ्चिन्न विद्यते ।
इदानीं कथयिष्यामि कथामेकां पुरातनीम्
॥११॥मन्त्रराजजपेनायं यथा तुष्टो गजाननः ।
कदाचिद्दैवयोगेन प्रलये समुपस्थिते
॥१२॥वायुभिः पर्वता भिन्नाः पतिताः परितो दिशम् ।
तपन्ति द्वादशादित्याः शोषयित्वा जलं महत्
॥१३॥ज्वालामाली महावन्हिरखिलं ज्वलयत्यपि ।
संवर्त्तका महामेघा वर्षन्ति परितो जलम्
॥१४॥हस्तिहस्तोपमाभिस्तु धाराभिर्द्विजसत्तम ।
उल्लङ्घयन्ति मर्यादां सागराः सरितोऽपि च
॥१५॥एवं सर्वे विनश्यन्ति ह्याब्रह्मस्थावरादयः ।
एवं मायामये नष्टे विकारेऽसौ गजाननः
॥१६॥अणुभ्योऽणुतरं रूपं कृत्वा क्वापि व्यवस्थितः ।
ततः काले बहुतरे गतेऽन्धतमसावृते
॥१७॥एकाक्षरं पुनर्ब्रह्म नादयुक्तमजायत ।
वैकारिकं पुनारूपं यदा नादमयं स्थितम्
॥१८॥मायाविकारमासाद्य तदेवाभूद् गजाननः ।
तत एव च सम्भूता गुणाः सत्त्वं रजस्तमः
॥१९॥ततस्त्रयः समुत्पन्ना विष्णुर्ब्रह्मा हरोऽपि च ।
मामया रचितं सर्वं त्रैलोक्यं सचराचरम्
॥२०॥ततस्तन्मायया भ्रान्ता बभ्रुमुस्ते सुरास्त्रयः ।
तमेव जनक स्वस्य द्रष्टुं प्रष्टुं समुत्सुकाः
॥२१॥किमस्याभिः कर्म कार्यमिति जिज्ञासया मुने ।
एकविंशतिस्वर्गाणि पूर्वमूर्ध्वं विलोक्यते
॥२२॥अन्तरिक्षं तया तिर्यक् पश्चात् पातालमाययुः ।
अदृष्ट्वा परमात्मानं तपश्चेरूस्ततो भृशम्
॥२३॥निराहारा जपपरा दिव्यवर्षसहस्रकम् ।
श्रान्ताः खेदमनुप्राप्तास्ततस्ते पृथिवीं पुनः
॥२४॥विचिन्वन्तो ययुर्द्रष्टं वनान्युपवनानि च ।
सरितः सागरान् शैलान् शिखराणि गुहापि च
॥२५॥ततो जलाशयं ते तु महान्तं ददृशुः सुराः ।
नानाजलचरैर्वृक्षैः पक्षिभिर्विविधैर्युतम्
॥२६॥बलाकाभिश्चक्रवाकैर्हंसैः कारण्डकैरपि ।
नादितं नलिनीजालं बिसखण्डाशने रतैः
॥२७॥स्नात्वा विश्रम्य तत्तीरे समुत्तीर्य पुरो ययुः ।
नानावीचिसमायुक्तं महान्तं तं जलाशयम्
॥२८॥सुदुस्तरतरं पुंसां झषनक्रसमाकुलम् ।
ईक्षां चक्रुः सुदुर्दर्शं प्रलयानलसन्निभम्
॥२९॥कोटिसूर्यप्रतीकाशं तेजोराशिं पुरो मुने ।
चिन्तामापुः परान्ते तु तेजसा हृतदृष्टयः
॥३०॥ततो गगनमार्गेण तेजोमध्याद् विनिर्गताः ।
क्षुधातृषापरिश्रान्ता निश्वसन्तो मुहुर्मुहुः
॥३१॥निन्दतश्च शपन्तश्च स्वात्मानं जातसाध्वसाः ।
ततोऽति करूणाविष्टो लोकाध्यक्षोऽखिलार्थवित्
॥३२॥दर्शयामास तान् रूपं मनोनयननन्दनम् ।
पादाङ्गुलीनखश्रीर्भिजितरक्ताब्जकेसरम्
॥३३॥रक्ताम्बरप्रभावात्तु जितसन्ध्यार्कमण्डलम् ।
कटिसूत्रप्रभाजालैर्जितहेमाद्रिशेखरम्
॥३४॥खड्गखेटधनुःशक्तिशोभि चारूचतुर्भुजम् ।
सुनासं पूर्णिमाचन्द्रजितकान्ति मुखाम्बुजम्
॥३५॥अहर्निशं प्रभायुक्तं पद्मचारुसुलोचनम् ।
अनेकसूर्यशोभाजिन्मुकुटभ्राजिमस्तकम्
॥३६॥नानाताराङ्कितव्योमकान्तिजिदुत्तरीयकम् ।
वराहदंष्ट्राशोभाजिदेकदन्तविराजितम्
॥३७॥ऐरावतादि दिक्पालभयकारि सुपुष्करम् ।
दृष्ट्वैव सहसा देवं प्रणेमुस्ते मुदा मुने ।
पादाम्बुजमुपस्पृश्य ततः स्तोतुं प्रचक्रमुः
॥३८॥इति श्रीगणेशपुराणे उपासनाखण्डे गजाननदर्शनन्नाम द्वादशोऽध्यायः ॥ १२ ॥