मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 30

3
उपासनाखण्डः · 30

अहल्याधर्षणं नाम त्रिंशतितमोऽध्यायः

नारद उवाच

कदाचिदमरावत्यां शक्रं दृष्टुं गतोऽस्म्यहम् ।

स मां सम्पूज्य विधिवदुवाचावनतो भृशम्

॥१॥

इन्द्र उवाच

किञ्चिदाश्चर्यभूतं मे सन्तोषाय मुने वद ।

भ्रमसे सर्वलोकांस्त्वं विदितं सर्वमस्ति ते

॥२॥

नारद उवाच

मृत्युलोके मया दृष्टो गौतमस्याश्रमो महान् ।

नानावृक्षलताजालैर्नानापक्षिगणैर्युतः

॥३॥

अहिल्यासहितं तत्र गौतमं दृष्टवानहम् ।

रूपं विलोक्य तस्यास्तु जातोऽहं कामविव्हलः

॥४॥

यस्या रूपेण सावित्री शचीलक्ष्मीर्गिरीन्द्रजा ।

उर्वशी मेनका रम्भा लोके ख्याता तिलोत्तमा

॥५॥

केशाबाला ययाऽकारि साऽनसूयाऽप्यरून्धती ।

छाया संज्ञा रवेर्भार्या कश्यपस्य च याऽदितिः

॥६॥

सदृशी नैव कापिस्यान्नागपत्नीषु वा क्वचित् ।

न च मे रोचते गानं न पूजा न च भोजनम

॥७॥

ब्रह्मचर्य च मे स्वीयं निद्रां च न लभे क्वचित् ।

त्वरावानह मायातो दृष्टुं साध्वमरावतीम्

॥८॥

तुच्छां पश्य इमां देवी विना ताममरावतीम् ।

नारद उवाच ।

इति शक्रं ब्रुवन्नन्तर्हितोऽहं नृपते वर

॥९॥

अन्तर्हिते मयि तदा मदद्वाक्यं मनसा स्मरन् ।

जम्भभेदी मत्सकेतुविद्धोमूर्छामवाप सः

॥१०॥

पश्ये कदा मुनेर्भार्यां गौतमस्येत्यचिन्तयत् ।

कदाऽधरामृतं प्राप्य मुच्येयं मदनानलात्

॥११॥

जीवितुं नैव पश्येऽन्यन्तदाश्लेषं विना शुभम् ।

एवं निश्चित्य सङ्कल्पं गौतमोऽभूत् स जम्भहा

॥१२॥

चिन्तयन्नेव तां मार्गे मुनेराश्रममाययौ ।

ददर्श तामहल्यां तु स्नातुं याते स गौतमे

॥१३॥

अभ्यन्तरगतः प्रोचे प्रिये शय्यां शुभां कुरू ।

सा चोवाच जपं त्यक्त्वा कथमद्यागतो गृहम्

॥१४॥

दिवैव सुरतेच्छां किं कुरूषेऽतिविगर्हिताम् ।

गौतम उवाच ।

अहं स्नातुं गतो यावत् तावदेव वराप्सराः

॥१५॥

तत्रैव स्नातुमायाता जाता नग्नाऽक्षिगोचरा ।

बिम्बाधरा सुचार्वङ्गी चारुपीनपयोधरा

॥१६॥

न लग्नं मे मनो देवि जपे कामास्त्रपीडितम् ।

ततोऽहमाश्रमं यातो रतिं देहि प्रियेऽधुना

॥१७॥

नोचेत्कामाग्निना दग्धं मृतं मां क्व नु पश्यसि ।

शपे त्वां प्रव्रजिष्ये वा निग्रहीष्ये मनोभृशम्

॥१८॥

अहल्योवाच

स्वाध्यायं देवपूजां च त्यक्त्वा किं प्रार्थ्यत रतिः ।

नोचितं तव ब्रह्मर्षे तथाऽप्याज्ञां करोम्यहम्

॥१९॥

भर्तुः शुश्रुषणादन्यो धर्मो नास्ति स्त्रियाः क्वचित् ।

नारद उवाच ।

स्वराकृति स्वभावैः सा ज्ञात्वा तं स्वामिनं निजम्

॥२०॥

विवेश शयने रन्तुमहल्या सह वज्रिणा ।

निःशङ्कं चुम्बनाश्लेषनीवीविस्त्रंसनादिभिः

॥२१॥

आकृत्या गौतमस्यैवं चिक्रीदे जम्भहा तया ।

दिव्यान्गन्धानुपाघ्राय चकिता शङ्किता भृशम्

॥२२॥

तर्कयामास मनसि किमयं कूटरुपवान् ।

कलङ्कोऽयं मम भृशं चन्द्रस्येव भवेन्नुकिम्

॥२३॥

उभे कुले मे नष्ट किं दुष्टस्यास्य तु सङ्गमात् ।

दर्शयिष्ये कथं लोकेऽयशःश्याम मुखत्विदम्

॥२४॥

नयिष्यति गति कां मे प्रियो भर्ता तु मां मुनिः ।

पप्रच्छ तं शठं कोपात् कोऽसि त्वं कूटरुपधृक्

॥२५॥

विश्वस्ता स्वामिरूपेण वदनो चेच्छपामि ते ।

इत्युक्तः शापभीतोऽसावाविश्चक्रे निजं वपुः

॥५६॥

दिव्याभरणसंयुक्तं किरीटकटकान्वितम् ।

कुण्डलाद्भुतदीप्ताभिर्विलसन् मुखपङ्कजम्

॥२७॥

उवाच स ततस्तां तु विद्धि मां त्वं शचीपतिम् ।

लावण्यदर्शनात्तेऽहं विव्हलो मदनाग्निना

॥२८॥

न लेभे कुत्रचिच्छर्म तत इत्थं कृतं मया ।

इतोऽपि मां भजस्व त्वं त्रैलोक्येश्वरमादरात्

॥२९॥

श्रुत्वेत्थं वचनं तस्य मुनिपत्नी रुषान्विता ।

वमन्तीव मुखाज्ज्वालां जगाद त्रिदशाधिपम्

॥३२॥

अस्य ते वपुषो मूढ मद्भर्तरि समागते ।

अवस्था का भवेन्मन्द न जानेऽहं शतक्रतो

॥३१॥

पातिव्रत्यं त्वया भग्नं दुष्ट पापीयसा मम ।

कामवस्थां गमिष्यामि शापाद् गौतमवाग्भवात्

॥३२॥

इति श्रीगणेशपुराणे उपासनाखण्डे अहल्याधर्षणं नाम त्रिंशतितमोऽध्यायः ॥ ३० ॥