शेषोपाख्यानं नन्नवतितमोऽध्यायः
नारद उवाच
किमर्थमेवं जातोऽसि निस्तेजा दुःखितो भृशम् ।
कथं भग्नशिराः कस्याचरोऽप्रियतरं मुने
॥१॥किं वा क्षुब्धो गिरीशस्तेऽकारि गर्वस्त्वयाऽथ किम् ।
वद यत्कारणं शेष प्रतीकारं पुरा वदे
॥२॥त्वां विना धारयेत् को नु चराचरयुतां धराम् ।
अनुक्तवति तस्मिंस्तु स्वयमेवाब्रवीन्मुनिः
॥३॥उपायं नागराजस्य स्वस्थानप्रापकं शुभम् ।
नारद उवाच ।
अवधारय मे वाक्यं शेषाशेषकलानिधे
॥४॥सुपर्वाणश्च केशाद्या येन स्युः किङ्करा इव ।
धरिष्यसे धरां मूर्ध्नि पुष्पमालामिवार्भकः
॥५॥शेष उवाच
किञ्चित् पुरातनं पुण्यमासीच्चेद् दर्शनं तव ।
अजन्यकस्मादग्रेऽपि सम्यङ् मे स्यान्न संशयः
॥६॥अन्यथाऽकृतपुण्यानां दर्शनं तु कथं भवेत् ।
अति विव्हलगात्रत्वादशक्तो भूमिधारणे
॥७॥तं प्रयत्नं वद मुनें येनाहं स्यां यथा पुरा ।
नारद उवाच ।
भणे महामनुं तेऽद्य तस्य देवस्य नागराट्
॥८॥यस्य प्रसादादिन्द्राद्यास्तत्तत् पदमवाप्नुवन् ।
केशा यदाज्ञयाऽशेषसृष्टिस्थित्यन्तकारिणः
॥९॥यस्मिन् प्रसन्ने सर्वेशे पूर्वावस्थानमवाप्स्यसि ।
कारुण्यं तव दृष्ट्वैव क्लिन्नं मे सर्वमानसम्
॥१०॥अतः षडक्षरं मन्त्रं गणेशस्य ददामि ते ।
अस्यानुष्ठानमात्रेण प्रत्यक्षस्ते गजाननः
॥११॥सर्वान् विधास्यते कामान् यान् याँस्त्वं वृणुषे ततः
॥१२॥क उवाच
कृत्वोपदेशं शेषाय नारदोन्तर्हितोऽभवत् ।
शेषोऽपि तपसे कृत्वा निश्चयं परमं शुभम् ।
निरूद्धाऽशेषकरणो ध्यात्वा देवं गजाननम्
॥१३॥जजाप परमं मन्त्रं सहस्रपरिवत्सरम् ।
तदन्ते पुरतोऽपश्यद्देवदेवं गजाननम्
॥१४॥सिंहारूढं त्रिनेत्रं दशभुजमुरगं कुण्डले चाङ्गदे च मुक्तामालां वहन्तं सुललितमुकुटं रत्नमुद्राक्षसूत्रम् ।
नानादेवर्षिवृन्दैरनुगतमनिशं वक्रतुण्डं गजास्यं भक्तेच्छोपात्तदेहं सुरनरपरदं चिन्तयेदेकदन्तम्
॥१५॥एवं गजाननस्तस्य दर्शनार्थं समाययौ ।
सिद्धिबुद्धियुतस्तादृग् ध्यातोऽहिना पुरा
॥१६॥सहस्रसूर्यसदृशो दीप्त्याक्रान्तदिगन्तरः ।
तेजसा तस्य शेषोऽपि धर्षितोऽन्ध इवाभवत्
॥१७॥च कम्पे भयसंविग्नो व्यग्रचित्तोऽति विव्हलः ।
स्वस्थो मुहूर्तमात्रेण चिन्तयामास चेतसि
॥१८॥किमिदं तेज आयातं प्रलयानलसन्निभम् ।
तच्चेद् दहेत् सर्वलोकानिदं मामेव धक्ष्यति
॥१९॥कल्याणे कर्मणि कथं क्रियमाणे शुभं भवेत् ।
अथवा नारदेनोक्तं द्रक्ष्यामि गणनायकम्
॥२०॥एवं चिन्तातुरे तस्मिन्नुवाच द्विरदाननः ।
मा भैः कुतर्ककुशल वरदोऽहं समागतः
॥२१॥यं ध्यायसि दिवारात्रौ वृणु यत्ते हृदि स्थितम् ।
अहमेव जगत्कर्ता पाता हर्ताऽखिलेश्वर
॥२२॥मत्तेजसा भाति चन्द्रो वह्निः सूर्यश्च भानि च ।
परब्रह्मस्वरूपोऽपि तपसा तव तोषितः
॥२३॥आविर्भूतो वरं दातुं लोकोपकृतयेऽपि च ।
त्वं तु मत्तो वरान्ब्रूहि यान् यान् कामयसेऽखिलान्
॥२४॥शेष उवाच
तेजसा धर्षितो देव द्रष्टुं वक्तुं च नोत्सहे ।
अनुग्रहश्च पूर्णस्ते मयि सौम्यो भवानघ
॥२५॥क उवाच
एवं सम्प्रार्थितस्तेन करूणाब्धिर्गजाननः ।
अभवत् कोटिचन्द्राभः सौम्यतेजाः सुरेश्वर
॥२६॥ततो वव्रे वरान् शेषो नत्वा स्तुत्वाऽखिलेश्वरः ।
अनादिनिधनं देवं वन्देऽहं गणनायकम्
॥२७॥सर्वव्यापिनमीशानं जगत्कारणकारणम् ।
सर्वस्वरूपं विश्वेशं विश्ववन्द्यं नमाम्यहम्
॥२८॥गजाननं गणाध्यक्षं गरूडेशस्तु तं विभुम् ।
गुणाधीशं गुणातीतं गणाधीशं नमाम्यहम्
॥२९॥विद्यानामधिपं देवं देवदेवं सुरप्रियम् ।
सिद्धिबुद्धिप्रियं सर्वसिद्धिदं भुक्तिमुक्तिदम्
॥३०॥सर्वविघ्नहरं देवं नमामि गणनायकम् ।
क उवाच ।
एवं स्तुत्वा तु देवेशं वरदं द्विरदानननम्
॥३१॥वरयामासयान् कामांस्तान् शृणुष्व महामुने ।
शेष उवाच ।
अद्य धन्यं तपो ज्ञानं पिता माता जनुर्मम
॥३२॥देहो नेत्राणि भूरीणि मस्तकानि बहूनि च ।
त्वां स्तोतुं सम्प्रवृत्ता या धन्यस्या रसना मम
॥३३॥कुलं शीलं च धन्यं मे त्वङ्घ्रियुगदर्शनात् ।
अखण्डित ते भजनं देहि मेऽखण्डविक्रम
॥३४॥दुःखं किं कि नु वक्तव्यं सर्वज्ञे त्वयि विघ्नराट् ।
अखर्वगर्वकरणात् स्फुटिता मस्तका मम
॥३५॥महारुषा महेशेनाऽऽस्फालितस्य महीतले ।
नारदस्य प्रसादेन दृष्टं ते चरणाम्बुजम् ।
इदानीं देव मे देहि श्रेष्ठतां भुवनत्रये
॥३६॥पाटवं सर्वशिरसि सामर्थ्यं धारणे भुवः ।
अचलं देहि मे स्थानं दर्शन ते निरन्तरम्
॥३७॥सान्निध्यं शङ्करस्यापि कुलशश्रैष्ठ्यं शिवे रतिम् ।
गणपतिरुवाच ।
यदि ते दशधा जातो मस्तको भुजगाधिप
॥३८॥तदा सहस्रवदनः सहस्त्रफणिमण्डितः ।
भविष्यसि जने ख्यातो यावच्चन्द्रार्कतारकाः
॥३९॥धराधरणसामर्थ्यं दृढं तव भविष्यति ।
पञ्चास्यपञ्चशिरसि मत्प्रसादात् स्थिति स्थिराम्
॥४०॥लप्स्यसे भुजगश्रेष्ठ मत्सान्निध्यं निरन्तरम् ।
अन्यत्ते वाञ्छितं शेष तदशेष भविष्यति
॥४१॥क उवाच
एवं वरान् ददौं तस्मै स्वोदरे तं बबन्ध ह ।
व्यालबद्धोदर इति नाम प्राप गजाननः
॥४२॥शेषस्य मस्तके हस्तमभयार्थं ददौं विभुः ।
स्वयं विराट्स्वरूपं स्वं शेषायादर्शयन् मुदा
॥४३॥शब्देनापूरयद्व्योम भूतलं विदिशो दिशः ।
यस्य पादतले भूमिर्दिशःश्रोत्रेऽक्षिणी रविः
॥४४॥ओषध्यो यस्य रोमाणि नखायस्य धराधराः ।
मेघाः स्वेदोदकं यस्य प्रजनश्चतुराननः
॥४॥कुक्षौ यस्य जगत्सर्वं चत्वारश्चैव सागराः ।
अनन्तानन एको योऽप्यनन्तनयनः स्वराट्
॥४६॥अनन्तरूपी चानन्तशक्तिरत्यन्तदीप्तिमान् ।
यद्रोमकूपे भान्ति स्म ब्रह्माण्डानि सहस्रशः
॥४७॥दृष्ट्वा तं तादृशं शेषो भीत्या भ्रान्त इवाभवत् ।
प्रार्थयामास विघ्नेशं पुनः सौम्यो भवेति च
॥४८॥ततो दशभुजो देवः सिंहारूढोऽभवच्च सः ।
उवाच वरदो देवो नेदृग् दृष्टः सुरैरपि
॥४९॥मदनुग्रहतोऽदर्शि त्वया शेषाद्य भाग्यतः ।
अचलं मयि ते स्थानं पातालेऽपि शिवेऽपि च ।
मया दत्तं प्रसन्नेन धर पुष्पमिवाद्य गाम्
॥५०॥शेष उवाच
धरे धरां स्वशिरसि धरणीधर इत्यपि ।
ममापि तेऽपि विख्यातं नाम लोकेतिविश्रुतम्
॥५१॥अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तकामान् प्रपूरय ।
ब्रह्मोवाच ।
ओमिति तमथोवक्त्वाऽसौ विघ्नेशोऽन्तर्दधे स्वयम्
॥५२॥शेषोऽपि तादृशीं मूर्तिं कृत्वाऽस्थापयदादरात् ।
अकरोद् बहुरत्नाढ्यं प्रासादं काञ्चनं शुभम्
॥५३॥धरणीधर इत्येतन्नामास्य परिकल्पयत् ।
हरेः शयनतां प्रायादवहत् पुष्पवद्धराम्
॥५४॥स्थिरोऽभून्नाभिपद्मेऽपि विघ्नराजस्य भूषणम् ।
एवं ते कथितो व्यास विघ्नेशमहिमाऽद्भुतः
॥५५॥प्रवालनगरे ख्यातो गणेशो धरणीधरः ।
एतदर्थं हि शेषेण कृतमाराधनं विभोः
॥५६॥इति श्रीगणेशपुराणे उपासनाखण्डे शेषोपाख्यानं नाम नवतितमोऽध्यायः ॥ ९० ॥
आदित श्लोकानां समष्ट्यङ्काः = ३९३१ + ५६ = ३९८७