मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 60

3
उपासनाखण्डः · 60

अङ्गारक चतुर्थी व्रतोपाख्येन षष्टितमोऽध्यायः

ब्रह्मोवाच

अङ्गारकचतुर्थ्यास्तु महिमानं महीपते ।

श‍ृणुष्वावहितो भूत्वा कथयामि समासतः

॥१॥

अवन्तीनगरे राजन् भारद्वाजो महामुनि ।

वेदवेदाङ्गवित् प्राज्ञः सर्वशास्त्रविशारदः

॥२॥

अग्निहोत्ररतो नित्यं शिष्याध्ययनतत्परः ।

नदीतीरगतस्तिष्ठन्ननुष्ठानरतो मुनिः

॥३॥

एकस्मिन्नेव समये दृष्टा तेनाप्सरोवरा ।

तां दृष्ट्वा चकमे भौक्तुं भारद्वाजो महामुनिः

॥४॥

अकस्मात् कामिनीं दृष्ट्वा कामासक्तोऽभवन्मुनिः ।

कामबाणाभिभूतः सन्निपपात महितले

॥५॥

अतिविव्हलगात्रस्य तस्य रेतः प्रचस्खले ।

प्रविष्टं तस्य तद् रेतः पृथिवीबिलमध्यतः

॥६॥

तत एकः कुमारोऽभूज्जपाकुसुमसन्निभः ।

तं धरित्री स्नेहवशात् पालयामास सादरम्

॥७॥

जनुः स्वं तेन धन्यं सा मनु ते पितरौ कुलम् ।

ततः स सप्तवर्षस्तां पप्रच्छ जननीं निजाम्

॥८॥

मयि लोहितिमा कस्मान्मानुषं देहमास्थिते ।

कश्च मे जनको मातस्तन्ममाचक्ष्व साम्प्रतम्

॥९॥

धरण्युवाच

भारद्वाजमुने रेतः स्खलितं मयि सङ्गतम् ।

ततो जातोऽसि रे पुत्र वर्धितोऽसि मया शुभम्

॥१०॥

स उवाच

तर्हि तं मे मुनिं मातर्दर्शयस्व तपोनिधिम् ।

ब्रह्मोवाच ।

तमादाय तदा देवी भारद्वाजं जगाम कुः

॥११॥

उवाच प्रणिपत्यैनं त्वद्वीर्यप्रसवं सुतम् ।

वर्धितं तं पुरोधार्य स्वीकुरुष्व मुनेऽधुना

॥१२॥

तदायज्ञा ययौ धात्री स्वधाम रुचिरं तदा ।

भारद्वाजः सुतं लब्धा मुमुदे चालिलिङ्ग तम्

॥१३॥

आघ्राय शिर उत्सङ्गे स्थापयामास तं मुदा ।

सुमुहूर्ते शुभे लग्ने चकारोपनयं मुनिः

॥१४॥

वेदशास्त्राण्युपादिश्य गणेशस्य मनुं शुभम् ।

उवाच कुर्वनुष्ठानं गणेशप्रीतये चिरम्

॥१५॥

सन्तुष्टो दास्यते कामान् सर्वांस्तव मनोगतात् ।

ततः स नर्मदातीरे पद्मासनगतो मुनिः

॥१६॥

सन्नियम्येन्द्रियाण्याशु ध्यायन् हेरम्बमन्तरा ।

जजाप परमं मन्त्रं वायुभक्षो भृशं कृशः

॥१७॥

एवं वर्षसहस्रं स तपस्तेपे सुदारुणम् ।

माघकृष्णचतुर्थ्यां तमुदये शशिनोऽमले

॥१८॥

दर्शयामास रूपं स्वं गणनाथोऽथ दिग्भुजम् ।

दिव्याम्बरं भालचन्द्रं नानायुधलसत्करम्

॥१९॥

चारुशुण्डं लसद्दत्तं शूपकर्णं सकुण्डलम् ।

सूर्यकोटिप्रतिकाशं नानालङ्कारमण्डितम्

॥२०॥

ददर्श रूपं देवस्य स बालः पुरतः स्थितम् ।

उत्थाय प्रणिपतत्यैनं तुष्टाव जगदीश्वरम्

॥२१॥

भौम उवाच

नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे ।

सुरासुराणामीशाय सर्वशक्त्युपबृंहिणे

॥२२॥

निरामयाय नित्याय निर्गुणाय गुणच्छिदे ।

नमो ब्रह्मविदां श्रेष्ठ स्थितिसंहारकारिणे

॥२३॥

नमस्ते जगदाधार नमस्त्रैलोक्यपालक ।

ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे

॥२४॥

लक्ष्यालक्ष्यस्वरूपाय दुर्लक्षणभिदे नमः ।

नमः श्रीगणनाथाय परेशाय नमो नमः ।

इति स्तुतः प्रसन्नात्मा परमात्मा गजाननः

॥२५॥

उवाचश्लक्ष्णया वाचा बालकं सम्प्रहर्षयन् ।

गजानन उवाच ।

तवोग्रतपसा तुष्टो भक्त्या स्तुत्याऽनयाऽपि च

॥२६॥

बालभावेऽपि धैर्यात्ते ददामि वाञ्छितान् वरान् ।

एवमुक्तो भूमिपूत्रो वच ऊचे गजाननम्

॥२७॥

भौम उवाच

धन्या दृष्टिर्जननमपि मे दर्शनात्ते सुरेश धन्यं ज्ञानं कुलमपि विभोः भूः सशैलाऽद्य धन्या ।

धन्यं चैतत्सकलमपि तपो येन दृष्टोऽखिलेशो धन्या वाणी वसतिरपि यया संस्तुतो मूढभावात्

॥२८॥

यदि तुष्टोऽसि देवेश स्वर्गे भवतु मे स्थितिः ।

अमृतं पातुमिच्छामि देवैः सह गजानन

॥२९॥

कल्याणकारि मे नाम ख्यातिमेतु जगत्त्रये ।

दर्शनं मे चतुर्थ्यां ते जातं पुण्यप्रदं विभो

॥३०॥

अतः सा पुण्यदा नित्यं सर्वसङ्कष्टहारिणी ।

कामदा व्रतकर्तॄणां त्वत्प्रसादात् सदाऽस्तु च

॥३१॥

गणेश उवाच

अमृतं पास्यसे सम्यग् देवैः सह धरासुत ।

मङ्गलेति च नाम्ना त्वं लोके ख्यातिं गमिष्यसि

॥३२॥

अङ्गारकेति रक्तत्वाद् वसुमत्या यतः सुतः ।

अङ्गारकचतुर्थीं ये करिष्यन्ति नरा भुवि

॥३३॥

तेषामब्धसमं पुण्यं सङ्कष्टीव्रतसम्भवम् ।

निर्विघ्नता सर्वकार्ये भविष्यति न संशयः

॥३४॥

अवन्तीनगरे राजा भविष्यसि परन्तप ।

व्रतानामुत्तमं यस्मात् कृतं ते व्रतमुत्तमम्

॥३५॥

यस्य सङ्कीर्तनान्मर्त्यः सर्वान् कामानवाप्नुयात् ।

ब्रह्मोवाच ।

इति दत्वा वरोदेवः पिदधे द्विरदाननः

॥३६॥

ततस्तु मङ्गलो देवं स्थापयामास भक्तितः ।

शुण्डामुखं दशभुजं सर्वांवयवसुन्दरम्

॥३७॥

प्रासादं कारयामास गजाननमुदावहम् ।

संज्ञां मङ्गलमूर्तीति देवदेवस्य सोऽकरोत्

॥३८॥

ततोऽभवत् कामदातृक्षेत्रं सर्वजनस्य तत् ।

अनुष्ठानात् पूजनाच्च दर्शनात् सर्वमोक्षदम्

॥३९॥

ततों विनायको देवो विमानवरमुत्तमम् ।

प्रेषयामास स्वगणैर्भौममानेतुमन्तिकम्

॥४०॥

ते गत्वा तेन देहेन तं भौममानयन् बलात् ।

गणेशस्यान्तिकं राजंस्तदद्भुतमिवाभवत्

॥४१॥

ततो भौमोऽभवत् ख्यातस्त्रैलोक्ये सचराचरे ।

यतो भौमेन सङ्कष्टचतुर्थी भौमसंयुता

॥४२॥

कृता प्राप्तं च स्वर्गे चामृतपानं सुरैः सह ।

अतश्चाङ्गारकयुता चतुर्थी प्रथिता भुवि

॥४३॥

चिन्तितार्थप्रदानेन चिन्तामणिरिति प्रथाम् ।

प्रयातो मङ्गलमूर्तिः सर्वानुग्रहकारकः

॥४४॥

पारिनेरात्तु नगरात् पश्चिमे प्रथितोऽभवत् ।

चिन्तामणिरितिख्यातः सर्व विघ्ननिवारणः

॥४५॥

अधुना सिद्धगन्धर्वैः पूज्यते स विधूदये ।

ददाति वाञ्छितानर्थान् पुत्रपौत्रादि सम्पदः

॥४६॥

इति श्रीगणेशपुराणे उपासनाखण्डे अङ्गारकचतुर्थीव्रतोपाख्येन षष्टितमोऽध्यायः ॥ ६० ॥