मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 73

3
उपासनाखण्डः · 73

चतुर्थी व्रतमाहात्म्यं नामत्रिसप्ततितमोऽध्यायः

इन्द्र उवाच

गुरुपदिष्टं मन्त्रं जजाप नियमेन सः ।

ध्यायनन् गजाननं देवं निष्ठामास्थाय नैष्ठिकीम्

॥१॥

वायुभक्षो निराहारो लोष्ठपाषाणसन्निभः ।

एवं द्वादशवर्षाणि व्यतीतानि तपस्यतः

॥२॥

हस्तपादविहीनस्य बालकस्य महात्मनः ।

निर्वाणं तस्य तदृष्ट्वा द्वादशाब्दं गजाननः

॥३॥

तडागमध्यादुत्तस्थौ प्रवालमयमूर्तिगः ।

उवाच सम्मुखो भूत्वा निष्ठाभक्तिसुतोषितः

॥४॥

गणेश उवाच

निर्जनेऽस्मिन् वने यस्मात् सिंहव्याघ्रनिषेविते ।

निकुंज बहुलेऽतिष्ठद् यतो द्वादशवार्षिकम्

॥५॥

अतस्तेऽहं वरं दास्ये श‍ृणु यत्ते मनोगतम् ।

श्रुत्वा वाणीं तदुदितामास्थितो देहभावनाम्

॥६॥

कृतवीर्यसुतो नत्वा प्रोवाच द्विरदाननम् ।

श‍ृण्वत्सु सर्वमुनिषु विमानस्थेषु भूरिशः

॥७॥

पुत्र उवाच

त्वत्पादयुगले देव भक्तिरव्यभिचारिणी ।

अस्तु मे सततं नान्यदुत्साहो मे प्रयाचितुम्

॥८॥

तथापि याचे देवेश पित्रोः सन्तोषहेतवे ।

शरीरे चारुतां देहि सर्व सन्तोषकारिणीम्

॥९॥

इन्द्र उवाच

श्रुत्वा वाक्यं तदीयं तु मायावी स गजाननः ।

अणिमानं समास्थाय विवेशोदरमादरात्

॥१०॥

तस्मिन् प्रविष्टे पुत्रोऽसौ दिव्यदेहोऽभवन्नृप ।

सहस्रभुजवान् जातः कृतवीर्यात्मजस्तदा

॥११॥

ऋजुपादद्वययुतः स्थितः पर्वतसन्निभः ।

ववर्षुः पुष्पवर्षाणि देवा देवर्षयोऽपि च

॥१२॥

तुष्टुवस्तं च देवं च गीतवादित्रनिस्वनैः ।

जगर्ज कार्तवीर्योऽसौ सहस्रभुजमण्डितः

॥१३॥

तस्य शब्दं समाकर्ण्य घनगर्जितसन्निभम् ।

समवर्ती भृशं त्रस्तः परेषां गणना कुतः

॥१४॥

पृथिव्यां सर्वराजानः समकम्पन्त तद्भयात् ।

अयं पञ्चशतं बाणान् सङ्ग्रामे मोचयेदिति

॥१५॥

ब्रह्मादयस्ततो यानादुत्तीर्याथ तमब्रुवन् ।

स्मरणात्तव देवानां प्राप्तिः स्याद् गतवस्तुनः

॥१६॥

हृदिस्थं सर्वलोकानामामयं त्वं विनेष्यसि ।

यतः साक्षाद् विष्णुरूपः सहसस्रार्जुनसंज्ञया

॥१७॥

त्रिषु लोकेषु विख्यातो यावत्कल्पं भविष्यसि ।

साधुत्राणे च निरतः शरणागतपालकः

॥१८॥

विजेता सर्वशत्रूणां पृथिवी मण्डलाधिपः ।

इति नाना वरान् दत्वा पिदधुर्देवतागणाः

॥१९॥

हस्त्यश्व नरयानानि छत्रचामर दीपिकाः ।

रथानुपायनान्यन्यान्याजह्रुरखिला नृपाः

॥२०॥

ततः संस्थापयामास महाप्रासादमध्यगाम् ।

प्रावालीं गणनाथस्य मूर्तिं द्विजपुरःसरः

॥२१॥

प्रवालगणपश्चेति तस्य नाम दधुर्द्विजाः ।

ददौ ग्रामान् ब्राह्मणेभ्यः पूजायै स्थापिताश्च ये

॥२२॥

प्रवालक्षेत्रमिति तत् पप्रथे भुवि सिद्धिदम् ।

तत्र शेषो धरां धर्तुमनुष्ठानपरोऽभवत्

॥२३॥

प्राप तस्माद्गणेशात् तु वरान् बहुतरानपि ।

धराधरणसामर्थ्यं सर्वज्ञत्वं तथैव च

॥२४॥

मूर्ध्ना सहस्रं श्रैष्ठ्यं च नवनागकुलेष्वपि ।

अति सन्तुष्ट मनसा तेन यत् स्थापितं पुरा

॥२५॥

धरणीधर इत्येवं द्वितीयं नाम पप्रथे ।

स्मरतां श‍ृण्वतां चापि सर्वकामफलप्रदम्

॥२६॥

सम्पूज्य सर्वान् द्विजपुङ्गवांस्तान् राज्ञश्च सर्वाननुपृच्छ्य चैतान् ।

सहस्रबाहुर्नगरं स्वकीयं द्रष्टुं स्वमातापितरावथागात्

॥२७॥

तौ तं जहृषतुर्दृष्ट्वा नगरं च तथाविधम् ।

ददतुर्द्विजमुख्येभ्यो नानादानानि सर्वशः

॥२८॥

इन्द्र उवाच

अभ्यधायि तु सङ्कष्टचतुर्थीमहिमाऽदभुतः ।

कृतवीर्य सुताच्चायं मृत्युलोकं गतः शुभः

॥२९॥

अनुभूतः सुरगणैश्चन्द्रसेनादिभिर्नृपैः ।

अतिपुण्यतमश्चायं स्मरणादपि सिद्धिदः

॥३०॥

एतत्प्रसादात् सम्प्राप्ता रावणेनाखिलाज्ञता ।

एतत् प्रसादात् सम्प्राप्ता पुरा राज्यं च पाण्डवैः

॥३१॥

एतद् व्रतस्य यत्पुण्यं हस्ते मे दीयते यदि ।

तदैव तद् विमानं तु प्रचलेदमरावतीम्

॥३२॥

क उवाच

इति शक्रमुखात्तस्य व्रतस्य महिमा श्रुतः ।

शूरसेनेन भूपेन स्वानन्दाब्धौ निमज्जता

॥३३॥

वन्दिते पादकमले शक्रस्य प्रतिगर्जिता ।

तमुवाच ततः प्रीतः शूरसेनो नृपोत्तमः

॥३४॥

श्रुत्वा कथां दिव्यरूपां चतुर्थीव्रतसम्भवाम् ।

स उवाच ।

फलितं पूर्वपुण्यं मे येनाश्रावीदृशं व्रतम्

॥३५॥

न ह्येतस्मात् पुण्यतरं त्रिषु लोकेषु किञ्चन ।

इत्युक्त्वा शक्रमारेभे व्रतं कर्तुं स्वयं ततः

॥३६॥

इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थीव्रतमाहात्म्यं नामत्रिसप्ततितमोऽध्यायः ॥ ७३ ॥