मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 33

3
उपासनाखण्डः · 33

त्रयस्त्रिशतितमोऽध्यायः

नारद उवाच

ऊचुर्देवा वृत्रहणं बहिर्याहि शतक्रतो ।

वयं हि सहितास्तत्र नारदेन सुरर्षिणा

॥१॥

तं गत्वा गौतममुनिं प्रसाद्य त्वामिहागताः ।

उपायस्तेन कथितो वरोदत्तस्तवापि च

॥२॥

दोषे जाते स्वयं सन्तः ख्यापयन्ति जनेषु तम् ।

तत्र प्रतिविधि सम्यक् कुर्वन्ति तन्निरर्थकम्

॥३॥

आच्छादने दोषवृद्धिः ख्यापने तु लयो भवेत् ।

तस्मात्त्वमपि देवेन्द्र बहिरागत्य तं वद

॥४॥

देवर्षि प्रति तं ब्रूहि कुरुपायं मुनीरितम् ।

वैनायकं महामन्त्रं गृहाण त्वं षडक्षरम्

॥५॥

ब्रह्मा ददर्श चाङ्गुष्ठं विवाहे गिरिजेशयोः ।

चस्कन्द स तदा रेतो लज्जितोऽवाङ्मुखो गतः

॥६॥

ज्ञात्वा महेशः कृतवान्निर्दोषं तमुपायतः ।

इति वाणीं स श्रुत्वैव देवर्षिगणनिर्मिताम्

॥७॥

आजगाम बहिः शक्रो नलिनीकोशतो नृप ।

सर्वेषां तत्र देवानां श्रुत्वा वाक्यानि सादरम्

॥८॥

पूयशोणितदिग्धाङ्गो मलिनः पूतिगन्धवान् ।

दृष्ट्वा तथा विधं देवा नेमुः सर्वे सुरेश्वरम्

॥९॥

आच्छाद्य घ्राणरन्ध्राणि वस्त्राग्रैर्नृपसत्तम ।

सुस्नातं पुनराचान्तं तमिन्द्रं वाक्पतिस्तदा

॥१०॥

षडक्षरं महामन्त्रं गणेशस्योपदिष्टवान् ।

उपदेशे कृते तेन दिव्यदेहोऽभवच्च सः

॥११॥

सहस्रनयनः श्रीमान्बभौ सूर्यं इवापरः ।

ततो वाद्यनिनादैश्च जयशब्दैर्दिवौकसाम्

॥१२॥

गन्धर्वाणां गानरवैर्नादिता विदिशो दिशः ।

मुमुचुः पुष्पवर्णाणि सर्वेदेवा मुदान्विताः

॥१३॥

आशिषोऽथ ददुः सर्वे मुनयो नारदादयः ।

आलिलिङ्गुर्मुदादेवास्तुष्टुवुश्चापरे च तम्

॥१४॥

केऽप्यूचुस्तं सुमनसः सनाथा हि वयं त्वया ।

विना त्वां नैव शोभामो विना चन्द्रं नभो यथा

॥१५॥

विना स्वपितरौ बाला न सुखं यान्ति सर्वथा ।

तथा विना वयं त्वां हि लभामः शर्म न क्वचित्

॥१६॥

मुनिरुवाच

श्रुत्वेथं देववचनं जहर्षं च शतक्रतुः ।

उवाच च प्रसन्नात्मा तथ्यं वाक्यं सुरान्प्रति

॥१८॥

इन्द्र उवाच

मया कृतं कर्म सुदुष्करं यद्देवर्षि वाक्येन विमोहितेन ।

लब्धं फलं दुःसहमद्य सर्वैरुद्धारितोऽहं दुरितप्रकोपात्

॥१८॥

नमामि सर्वानमरप्रबर्हानृषींश्च सर्वान् सुगुरुप्रभावान् ।

उद्धर्तुमात्मानमतोऽखिला मां संत्रातुमर्हाः शरणं प्रपन्नम्

॥१९॥

कथं प्रयत्नो रचितो भवद्भिः प्रसादनायास्य हि गौतमस्य ।

कथं नु मन्त्रं परमं मदर्थे स उक्तवांस्तत् कथयन्तु सर्वे

॥२०॥

देवा ऊचुः

मुनि पुरस्कृत्य गुरूं वयं च गता मुनि तं प्रणिपत्य सम्यक् ।

प्रसादितो वागमृतैर्विचित्रैः संयाच्यमानोऽप्यवदत् स्वमन्त्रम्

॥२१॥

यस्योपदेशेन सहस्रनेत्रो जातो भवान्सर्वसुखाय देव ।

प्रयाहि देवत्वमरावतीं स्वां प्रशाधि सर्वान् विबुधांश्च लोकान्

॥२२॥

इन्द्र उवाच

नाहं प्रयास्ये स्वपुरीं प्रसादं विना गणेशस्य सुरर्षिवर्याः ।

व्रजन्तु यूयं कृतसाधुकृत्या धामानि दिव्यानि मुदा रमन्तः

॥२३॥

एतावताऽलं प्रकटीकृतोऽहं लज्जाविलीनो बहुदुर्गतिश्च ।

प्रसादितो यन्मुनिरुग्रतेजा भवत् प्रसादाद्बहुनेत्रता मे

॥२४॥

इति श्रीगणेशपुराणे उपासनाखण्डे त्रयस्त्रिशतितमोऽध्यायः ॥ ३३ ॥