सङ्कष्ट चतुर्थी व्रत कथनं नामाष्ट पञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच
एवं श्रुत्वा शूरसेनो मरुत्वद्वाक्यमुत्तमम् ।
पुनः पप्रच्छ तं व्यास प्रीतः श्रुत्वा कथामृतम्
॥१॥शूरसेन उवाच
केनोपायेन देवेशं यानं ते गगनं व्रजेत् ।
तमुपायं कुरु विभो वद वा किं करोमि ते
॥२॥ब्रह्मोवाच
एवं पुनः कृतं प्रश्नं नृपं प्राह सुरारिहा ।
शृण्वतां सर्वलोकानां स्मयमान इदं वचः
॥३॥इन्द्र उवाच
कश्चित्स्यादिह सङ्कष्टचतुर्थीव्रतकारकः ।
विप्रो वा क्षत्रियो वापि नगरे ते नृपोत्तम
॥४॥तस्याब्दकृतपुण्येन सम्यग्दत्तेन भूभुज ।
इदानीं प्रचलेदेतन्नान्यथाऽयुतपुरूषैः
॥५॥नृप उवाच
कथं व्रतं तु सङ्कष्टचतुर्थ्या वद मे मुने ।
किं पुण्यं किं फलं तस्य को विधिः कस्य पूजनम्
॥६॥पुरा केन कृतं चात्र सिद्धिर्यस्मिन् कृतेऽभवत् ।
एतत्सर्वं शुनासीर कृपया वद विस्तरात्
॥७॥शक्र उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कृतवीर्यस्य संवादं नारदेन महात्मना
॥८॥बभूव बलवान् राजा कृतवीर्यो महीतले ।
सत्यशीलो वदान्यश्च यज्वा मानी महारथः
॥९॥जितेन्द्रियो मिताहारो देवद्विजनिषेवकः ।
यस्याश्वगजयोधानां रथिनां सर्वधन्विनाम्
॥१०॥न सङ्ख्या विद्यते राजन् सहयाद्रिविषयासिनाम् ।
मन्दिरे यस्य सौवर्णाः पर्यका भाजनानि च
॥११॥नासीदौदुम्बरं पात्रं पाकार्थमपि सर्वदा ।
यम्य द्वादशसाहस्त्रा ब्राह्मणाः पङ्क्तिभोजिनः
॥१२॥सुगन्धा नाम यस्यासीत् पत्नी धर्मपरायणा ।
पतिव्रता पतिप्राणा त्रैलोक्येऽतिमनोरमा
॥१३॥नानालङ्कारसुभगा द्विजदेवातिथिप्रिया ।
एवं तौ दम्पती राजन्नपुत्रौ सम्बभूवतुः
॥१४॥पुत्रार्थं सर्वदानानि व्रतानि च तपांसि च ।
चक्रतुर्नियमानन्यान् यज्ञांश्च बहुदक्षिणान्
॥१५॥नानातिर्थानि क्षेत्राणि जग्मतुः पुत्रलिप्सया ।
तथापि नाभवत् पुत्रो जन्मान्तरकृतैनसोः
॥१६॥एकदा दुःखितो राजा समाहूय समन्त्रिणः ।
राज्यं मुद्रां च कोशं च जनान् जनपदाँस्तथा
॥१७॥तेभ्यो निवेद्य सर्वं तौ जग्मतुर्वनमुत्तमम् ।
वल्कलाजिनसंवीतौ दम्पती तप आस्थितौ
॥१८॥जितेन्द्रियौ जिताहारौ जीर्णपर्णानिलाशिनौ ।
चक्षुर्मात्रेण लक्ष्यौ तौ दृष्टवाऽथ नारदो मुनिः
॥१९॥जनकं कृतवीर्यस्य पितृलोकस्थमब्रवीत् ।
अपुत्रत्वात् प्रायगतो विद्यते तनयस्तव
॥२०॥कृतवीर्यो मृत्युलोके श्वःपरश्वो मरिष्यति ।
यदि तस्य भवेत्पुत्रो नाकलोक प्रदर्शकः
॥२१॥कृतवीर्यस्तदा जीवेन्मृतो वा स्वर्गमाप्नुयात् ।
इत्युक्त्वा नारदो यातः पश्यतिस्माद्भुतं भुवि
॥२२॥भ्रशुण्डेः पितरौ पुत्रौ तस्य पत्नीं सकन्यकाम् ।
अग्निज्वालाकुले घोरे कुम्भीपाके ह्यधोमुखान्
॥२३॥याम्यदूतैस्ताड्यमानान् क्रन्दन्तो विविधान् रवान् ।
तेषामाक्रन्दितं श्रुत्वा नारदः करुणानिधिः
॥२४॥आगत्य कथयामास तेषां दुःख भ्रशुण्डये ।
नारद उवाच ।
शक्रादयो देवगणा मुनयः कपिलादयः
॥२५॥यस्य ते दर्शनं कर्तुं यान्ति हेरम्बरूपिणः ।
तत्कथं पितरौ पत्नी पुत्राः पुत्र्यश्च किंकराः
॥२६॥यमलोके कुम्भिपाके पच्यन्ते तव दोषतः ।
त्वं चापि ज्ञानसम्पन्नः कथं तन्नावबुध्यसे
॥२७॥पूर्वजानां त्वमुद्धारे यत्नं कुरु महामुने ।
शक्र उवाच ।
भ्रुशुण्डिरतिसन्तप्तो वाक्यं श्रुत्वा मुनीरितम् ।
दुःखितः पितृदुःखेन भृशं जज्वाल वह्निवत्
॥२८॥उपायं चिन्तयामास तेषामुद्धारकारकम् ।
ददौ श्रेयः स सङ्कष्टचतुर्थीव्रतजं तदा
॥२९॥विलोक्य प्रणिधानेन भ्रुशुण्डी स परोक्षवित् ।
ध्यात्वा गजाननं देवं करे धृत्वा शुभं पयः
॥३०॥उवाच पितॄनुद्दिश्य याचन्देवं गजाननम् ।
भ्रुशुण्डिरुवाच ।
यदि भक्त्या कृतं मेऽस्ति गणनाथ व्रतं तव
॥३१॥तदा तस्य प्रभावेन शीघ्रमुद्धर पूर्वजान् ।
एवमुक्त्वा तु तत्तोयं गजानन करेऽक्षिपत्
॥३२॥क्षिप्तमात्रे तदा तोये गजानन प्रसादतः ।
विमानानि समारुहय सर्वे ते देवरूपिणः
॥३३॥सेव्यमाना अप्सरोभिः स्तूयमानाश्च चारणैः ।
गन्धर्वैर्गीयमानास्ते गणेशस्थानमाप्नुवन्
॥३४॥अन्येऽपि कुम्भिपाके च नरादुष्कृतिनोऽभवन् ।
तेऽपि सर्वे विमानस्थाः पदं गाणेश्वरं ययुः
॥३५॥एवं व्रतस्य महिमा मया ते परिकीर्तितः ।
यदेकदिनपुण्येन सर्वे ते सद्गतिं गताः
॥३६॥जन्मावधि कृतं येन सङ्कष्टं व्रतमादरात ।
शेषोऽपि तस्य पुण्यस्य सङ्ख्या कर्तुं न वै क्षमः
॥३७॥अतस्तस्य प्रभावेन विमानं प्रचलेन्मम
॥३८॥इति श्रीगणेशपुराणे उपासनाखण्डे सङ्कष्टचतुर्थीव्रत कथनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥