मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 91

3
उपासनाखण्डः · 91

एकनवतितमोऽध्यायः

व्यास उवाच

अन्यत् कथय मे देव गणेशस्य कथान्तरम् ।

श‍ृण्वतो मे मनोऽत्यन्तमुत्सुकुं भवति प्रभो

॥१॥

ब्रह्मोवाच

एकदा प्रलये वृत्तेऽज्ञापयन्मां गजाननः ।

सृष्टिं नानाविधां ब्रह्मन कुरू त्वं हि ममाज्ञया

॥२॥

अहं प्रकल्पयामास पुत्रान् सप्त हृदा तदा ।

तेषां नामानि ते वच्मि कश्यपो गौतमोऽपि च

॥३॥

जमदग्निर्वसिष्ठश्च भरद्वाजोऽत्रिरेव च ।

विश्वामित्रश्च सप्तैते सर्वविद्याविशारदाः

॥४॥

सर्वे मामब्रुवन ब्रह्मन्नाज्ञापय सुरेश्वर ।

मया तु कश्यपोऽज्ञापि बुद्धिमाँस्तेषु चाधिकः

॥५॥

मत्कार्यं विविधां सृष्टिं कुर्वित्याज्ञापितस्तदा ।

असावोमिति मामुक्त्वा जगाम तपसे वनम्

॥६॥

जजापैकाक्षरं मन्त्रं दिव्यवर्षसहस्रकम् ।

ततः प्रसन्नो भगवान् द्विरदानन ईश्वरः

॥७॥

चतुर्भुजोऽरविन्दाक्षो महामुकटमण्डितः ।

पाशाङ्कुशधरो मालादन्तहस्तः शुभाङ्गदः ।

सुवर्णमणिरत्नाढ्यो मुक्तामालालसद्गलः

॥८॥

सर्पोदरः कोटिसूर्य विलसद्दीप्तिमण्डलः ।

विकसन्नेत्रविभ्राजच्चारूशुण्डालसन्मुखः

॥९॥

आविरासीत् कश्यपस्य पुर एवं गजाननः ।

क्षुद्रघण्टानूपुराणां रवान् मुखरिताङ्घ्रियुक्

॥१०॥

दृष्ट्वा ननर्त तं देवं कश्यपो हर्षनिर्भरः ।

नत्वा सम्पूजयामास नानामङ्गलवस्तुभिः

॥११॥

बद्धाञ्जलिरूवाचेदं सुप्रसन्नो गजाननम् ।

धन्यो मे जनको माता तपोज्ञानं वपुश्च दृक्

॥१२॥

धन्येयं धरणी तात वीरूद्वृक्षफलानि च ।

धन्य एकाक्षरो मन्त्रो येन दृष्टोऽखिलेश्वरः

॥१३॥

गजाननः प्रसन्नात्मा परमात्मा परात्परः ।

यत्र कुण्ठाश्चतुर्वेदा वेदान्ता मूकतां गताः

॥१४॥

अगोचरो मनस्तर्कैः सोऽयं देवोमयेक्षितः ।

यस्मादाविर्भवन्तीमे हरेशाग्निमुखाः सुराः

॥१५॥

पातालानि च सप्तैव भुवनानि चतुर्दश ।

यत्रैतानि लयं यान्ति सोऽयं देवो मयेक्षितः

॥१६॥

यो निर्गुणो निराधीशो गुरूगम्यो निराकृतिः ।

ब्रह्मेति यं विदुः केचित् सोयं देवो मयेक्षितः

॥१७॥

क उवाच

एवं वाक्यामृतरसैः परितुष्टो गजाननः ।

उवाच कश्यपं नम्रं स्तुवन्तं विविधैः स्तवैः

॥१८॥

गणेश उवाच

भक्तेःस्तवादनुष्ठानात् प्रीतस्तेऽहं मुनेऽधुना ।

वरं वरय मत्तस्त्वं यं यं स मनसेच्छसि

॥१९॥

कश्यप उवाच

सृष्टिं नानाविधां कर्तुं सामर्थ्यं देहि मे प्रभो ।

त्वदङ्घ्रिकमले भक्तिमविस्मरणमेव च

॥२०॥

यायाः प्रत्यक्षतां तत्र स्मरे त्त्वां यत्र चाप्यहम् ।

तादृशं देहि मे पुत्रं नाम्ना कश्यपनन्दनम्

॥२१॥

गणेश उवाच

सर्वं ते वाञ्छितं मत्तो भविताऽशु महामुने ।

भक्तिर्मेऽविस्मृति स्यात् ते सङ्कटे चान्तिकं व्रजे

॥२२॥

करिष्यसि विचित्रां त्वं सृष्टिं मम प्रसादतः ।

क उवाच ।

एवमुक्त्वा मुनिर्देवस्तत्रैवान्तरधीयत ।

कश्यपोऽपि मुदा युक्तो निजस्थानं तदा ययौ

॥२३॥

कदाचित् कश्यपोऽकस्मादशरीरप्रपीडितः ।

न चालभत् क्वापि शर्म गृहमध्यं ततोऽगमत्

॥२४॥

नित्यं नैमित्तिकं काम्यं कर्म ध्यानं च नास्मरत् ।

तं तथा विव्हलं दृष्ट्वा योषितोऽस्य चतुर्दश

॥२५॥

दित्यदितिर्दनुकद्रुर्विनताद्याः पुरः स्थिताः ।

बुभुजे क्रमशस्तास्तु नानागारेषु कश्यपः

॥२६॥

काले यथोक्ते सुषुवे दितिर्दैत्याननेकशः ।

अदितिर्देवगन्धर्वान् दनुश्च दानवानथ

॥२७॥

क्रमेण किन्नरा यक्षाः सिद्धचारणगुह्यकाः ।

पशवश्च तथारण्या ग्राम्याश्चासन्ननेकशः

॥२८॥

पृथिवी पर्वता वृक्षाः समुद्राः सरितो लता ।

धान्यानि धातवो रत्नमुक्ताकृमिपिपीलिकाः

॥२९॥

सर्पाः पक्षिगणास्ताभ्यः सर्वमासीच्चराचरम् ।

एवं दृष्ट्वा स सन्तानं जातं नानाविधं तदा

॥३०॥

जहर्ष कश्यपो धीमान् नानामन्त्रान् समादिशत् ।

शोधायित्वा ऋणधनं सिद्धारिचक्रमीक्ष्य च

॥३१॥

षोडशार्णं च कस्मैचित् तथाऽष्टादशवर्णकम् ।

एकाक्षरं च कस्मैचिदन्यस्मै च षडक्षरम्

॥३२॥

पञ्चार्णमष्टाक्षरं च द्वादशाक्षरमेव च ।

कस्मैचिच्च महामन्त्रं ददौ स मुनिपुङ्गवः

॥३३॥

कुर्वन् त्वनुष्ठितं तावद् यावद्देवो निरीक्ष्यते ।

गजाननोऽखिलाधारः सर्वसिद्धिप्रदायकः

॥३४॥

एवमाज्ञापयत् ताँश्च ते च जग्मुस्तदैव हि ।

तपसे बहुशो देशान् जेपुः स्वं स्वं मनुं तदा

॥३५॥

आसने भोजने देवं निद्रायां जागरेऽपि च ।

अनन्यभक्त्या देवेशं संस्मरुस्ते गजाननम्

॥३६॥

दिव्यवर्षसहस्रान्ते परितुष्टो गजाननः ।

आविरासिदनेकात्मा तत्पुरः करूणानिधिः

॥३७॥

यो यथा ध्यातवान्देवं तादृशस्तत्पुरोऽभवत् ।

कस्यचित् पुरतश्चासीन् मेघाभोऽष्टमहाभुजः

॥३८॥

कस्यचित् पुरतस्त्वासीच्छशिवर्णश्चतुर्भुजः ।

अग्रे कस्यचिदारक्तः षड्भुजोऽसौ गणेश्वरः

॥३९॥

सहस्रनयनस्तावद्भुजोऽसावपि कस्यचित् ।

भाति बालस्वरूपोऽपि युवा वृद्धोऽपि भासते

॥४०॥

दशद्वादशदोर्दण्डो धूम्रवर्णो महन्महः ।

अष्टादशभुजोप्यासीत् कोटिसूर्यसमप्रभः

॥४१॥

तेजोरूपो महाकाय आखुवाहनपृष्ठगः ।

सिंहगो बर्हिगो वापि गजास्योऽनेकवक्त्रवान्

॥४२॥

दृष्ट्वा देवं तु ते सर्वेऽनेकधा तुष्टुवुर्मुदा ।

बद्धाञ्जलिपुटा नम्रा भक्त्या देवं गजाननम्

॥४३॥

सर्वे ऊचुः

यतोऽनन्तशक्तेरनन्ताश्चजीवा यतो निर्गुणादप्रमेयाद्गुणास्ते ।

यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः

॥४४॥

यतश्चाविरासीज्जगत् सर्ववेत्तुस्तथाऽब्जासनो विश्वगो विश्व गोप्ता ।

तथेन्द्रादयो दैत्यसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः

॥४५॥

यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः ।

यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा तं गणेशं नमामो भजामः

॥४६॥

यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च ।

यतः पक्षिकीटा यतो वीरुघश्च सदा तं गणेशं नमामो भजमः

॥४७॥

यतो बुद्धिरज्ञाननाशो मुमुक्षोयतः सम्पदो भक्तसन्तोषिकाः स्युः ।

यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः

॥४८॥

यतः पुत्रसम्पद् यतो वाञ्छितार्थो यतो भक्तिविद्यास्तथाऽनेकरूपाः ।

यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः

॥४९॥

यतोऽनन्त शक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।

यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः

॥५०॥

यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति ता यं गृह्णन्ति ।

परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः

॥५१॥

इति श्रीगणेशपुराणे उपासनाखण्डे कश्यपसृष्टिवर्णनं नामैकनवतितमोऽध्यायः ॥ ९१ ॥