मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 2

3
उपासनाखण्डः · 2

द्वितीयोऽध्यायः

ऋषयः उचुः ।

श्रीगणेशपुराणस्य महिमा यादृशो मुने ।

कथ्यतां कृपया शीघ्रं सोमकान्तप्रसङ्गतः ॥

सूत उवाच ।

श्रूयतामृषयः सर्वे सोमकान्तस्य दुष्कृतम् ।

अकस्मादभवत्तस्य गलत्कुष्ठोऽतिदुःखदः

॥१॥

धर्मशीलस्य राज्ञोऽथ पूर्वकर्मविपाकतः ।

शुभं वाप्यशुभं कर्म न मुञ्चति नरं क्वचित्

॥२॥

यस्यां यस्यामवस्थायां कृतं भवति कर्म यत् ।

तस्यां तस्यामवस्थायां भुज्यते प्राणिभिर्ध्रुवम्

॥३॥

दुःखसागरमग्नोऽभूदप्लवो जलधौ यथा ।

वेदनामलभद् बह्विं भुजङ्गेनेव दंशितः

॥४॥

नानाक्षतसमाकीर्णः स्त्रवद्रक्तस्ततस्ततः ।

पूयशोणितवान् राजा कृमिभिर्विह्वलीकृतः ।

अस्थिशेषोऽभवद्राजा यक्ष्मणेव समावृतः

॥५॥

चिन्तया व्याकुलीभूतः सर्वैन्द्रियरुजान्वितः ।

ततोऽमात्याञ्जगौ राजा मनः संरूद्ध्य यत्नतः

॥६॥

राजोवाच

धिङ् मे राज्यञ्च रूपञ्च धिग्बलं जीवितं धनम् ।

केनेदं कर्मबीजेन व्यसनं समुपस्थितम्

॥७॥

कान्त्या सोमो जितो येन सोमकान्तस्ततोऽभवम् ।

येन मे साधवो दीनाः श्रोत्रिया आश्रमा अपि

॥८॥

(सन्तसन्यासिनोऽपि च) पालिता पुत्रवज्जानपदा लोकास्तथा परे ।

येन मे निर्जिता बाणैः शत्रवो घोररूपिणः

॥९॥

येन मे सकला पृथ्वी कृता स्ववशवर्तिनी ।

सम्यगाराधितो देवः परमात्मा सदाशिवः

॥१०॥

दुष्टसङ्गमहीनेन चित्तनिग्रहकारिणा ।

येन मे वपुषा पूर्वमिष्टगन्धा निषेविताः

॥११॥

तदिदानीं पूतिगन्ध मतो मे जीवितं वृथा ।

अतोऽहङ्काननं यास्ये सर्वेषामभ्यनुज्ञया

॥१२॥

हेमकण्ठं सुतं सर्वे बुद्धिविक्रमसंयुतम् ।

सिञ्चन्तु राज्यहेतोर्मे पालयन्तु पराक्रमैः

॥१३॥

इदानीं न प्रदर्शिष्ये मुखं लोके कथञ्चन ।

न मे राज्यैर्नदारैर्वा जीवितेन श्रियाऽपि वा

॥१४॥

प्रयोजनं महामात्याः करिष्ये स्वहितं वने ।

सूत उवाच ।

इत्युक्त्वा निपपातोर्व्यान्तरुर्वातहतो यथा

॥१५॥

पूयशोणितधर्मौघैर्व्याप्तोऽसौ द्विजसत्तमाः ।

कोलाहलोमहानासीदमात्यानाञ्च योषिताम्

॥१६॥

हाहाकारश्च लोकानां क्षणमासीत्सुदारुणः ।

वस्त्रप्रोञ्छनवातादैरौषधैः क्षिप्रकारिभिः

॥१७॥

मन्त्रिमन्त्रप्रयोगैस्तं सचेतनमकारयन् ।

स्वस्थे जाते नृपे तस्मिन्नमात्या प्राब्रुवन्निदम्

॥१८॥

अमात्या ऊचुः

तव प्रसादादमरेन्द्रतुल्यं भुक्तं सुखं सर्वजनेष्वसिद्धम् ।

कथं त्विदानीं त्वदृते वसामः कथञ्च जीवेम पशुघ्नतुल्याः

॥१९॥

करोतु राज्यं तव सूनुरेकः प्रभूतकोशो बलवान् रिपुघ्नः ।

विहाय सर्वं सुखमाद्य राजन् ! सहैव यामस्तु वनाय गन्तुम्

॥२०॥

सूत उवाच

ततः सुधर्मा वचनं जगाद वने नृपं सेवितुमेकवीरा ।

व्रजे सहानेन प्रधानवर्या प्रशिष्ट राज्यं सह मे सुतेन

॥२१॥

दुःखस्य भोक्ता न परोऽस्ति नैव सुखस्य वा पूर्वकृतस्य जन्तोः ।

यथा यथा कर्मफलं प्रसक्तं तदेव भोग्यं स्वयमेव तादृक्

॥२२॥

मयाऽपि नानाविधभोगवत्या सुखेन राज्यं परिभुक्तमस्य ।

स्त्रीणां हि भर्ता गमनं सहैव परत्र लोके मुनिभिः प्रदिष्टम्

॥२३॥

ततः पुत्रो हेमकण्ठो विनीतः शोकसङ्कुलः ।

उवाच तस्मिन्समये सोमकान्तमिदं वचः

॥२४॥

हेमकण्ठ उवाच

न मे राज्येन दारैश्च प्राणैर्धनचयैरपि ।

त्वां विना नृपशार्दूलं कृत्यं नैवास्ति यत् क्वचित

॥२५॥

विना स्नेहं यथा दीपो विना प्राणं यथा तनुः ।

वृथा राज्यं तथा राजंस्त्वां विना धर्मपालक

॥२६॥

सूत उवाच

श्रुत्वा हृष्टमना राजा पुत्रं प्रोवाच धर्मतः ।

अमात्यानां सुधर्मायाः पुत्रस्य वचनामृतम्

॥२७॥

राजोवाच

पितुर्वाक्यरतोनित्यं श्रद्धया श्राद्धकृत्तथा ।

पिण्डदो यो गयायान्तु स पुत्रः पुत्र उच्यते

॥२८॥

अतो नीत्या समायुक्तः कुरू राज्यं ममाज्ञया ।

अमात्ययुक्तः शाधि त्वं पुत्रवच्चाखिलाः प्रजाः

॥२९॥

धर्मशास्त्रार्थतत्त्वज्ञो नीतिज्ञोऽखिलदोषकृत् ।

पितृनुद्धरते यस्तु पुत्रवान्पुत्र उच्यते

॥३०॥

अहं वनं गमिष्यामि गलत्कुष्ठोऽतिगर्हितः ।

पत्न्या सुधर्मया सार्धमनुजानीहि सुव्रत

॥३१॥

इति श्रीगणेशपुराणे उपासनाखण्डे द्वितीयोऽध्यायः ॥ २ ॥