मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 78

3
उपासनाखण्डः · 78

कार्तवीर्योपाख्यानं नामाष्टसप्ततितमोऽध्यायः

क उवाच

ततो मुनिः शिष्यगणमुवाच त्वरया व्रज ।

आकारयितुं नृपतिं नदीतीरनिवासिनम्

॥१॥

ते शिष्यास्तं नृपं गत्वा गृह्य तत् प्रणतिं पुरा ।

दत्वाऽऽशीर्वर्चनं तस्मै मुनेराज्ञां तथाऽब्रुवन

॥२॥

चल राजन्नवहितो भोजनाय ससैनिकः ।

पात्राणि परिविष्टानि सङ्ख्यातीतानी षड्रसैः

॥३॥

क उवाच

तत उत्थाय राजाऽसौ समाहूय ससैनिकान् ।

सुस्नातः सर्वसैन्येन कार्तवीर्यो नृपो ययौ

॥४॥

मुनिवेश्म ततोऽपश्यन्न दृष्टं न च वै श्रुतम् ।

एतादृशं त्रिलोकेषु गृहतोरणमाप सः

॥५॥

स निषिद्धो वेत्रधरैर्मुनिसङ्केतकामुकैः ।

ते निषिद्धाः शिष्यगणैस्ततोऽगाद् भोजनालयम्

॥६॥

स्थित्वा मध्ये पश्यति स्म राजाऽसौ सम्पदं मुनेः ।

अमन्यत तदा स्वान्ते नेदृशी श्रीर्हरौ हरे

॥७॥

पालकेऽपालके स्त्रष्टर्यपि ब्रह्मणि नेदृशी ।

ततो मुनिः पुरो भूत्वा प्रतिपात्रे न्यवेशयत्

॥८॥

राजानुमतिमाज्ञाय पङ्क्तौ पङ्क्तौ ससैनिकान् ।

दापयामास पात्राणि ये बहिर्भोजिनश्च तान्

॥१॥

उपविष्टेषु सर्वेषु राजानमुपवेशयत् ।

बुभुजुस्ते तदा वाद्ये वादिते सर्व एव हि

॥१०॥

अदृष्टपूर्वाण्यन्नानि स्वादुमूलफलानि च ।

परस्परं च पप्रच्छुः किमिदं किमिदन्त्विति

॥११॥

आश्चर्यं मेनिरे सर्वे यामेनेत्थं कथं कृतम् ।

यथेष्टं भुञ्जते सर्वे तृप्ताश्चान्नानि तत्यजुः

॥१२॥

ते प्रक्षालनपात्राणि प्रतिपात्रे न्यवेदयन् ।

मुनिशिष्याजलं चापि शलाका अपि चारवः

॥१३॥

गजाश्ववृषवृन्देभ्यः शिष्याः शेषान्नमर्पयन् ।

ततोऽन्यस्मिन् गृहे सर्वे विस्तीर्णे कृतसंस्तरे

॥१४॥

इक्षुद्राक्षाम्रपनस दाडिमानि बभक्षिरे ।

एलालवङ्गकर्पूर चूर्णखादिरपूगकान्

॥१५॥

जगृहुर्मुनिदत्तांस्ते नागवल्लीदलैर्युतान ।

ततो ददावलङ्कारान् वासांसि च मुदा मुनिः

॥१६॥

तेभ्यो यथार्हं सर्वेभ्यो राजेऽनर्घ्यतराणि च ।

मुनिरुवाच ।

किं मया भोजनं देयं मुनिना वन्यवृत्तिना

॥१७॥

अवाप्तसर्वकामाय राज्ञे ते विष्णुरूपिणे ।

यशोऽकारि त्रिलोके मे त्वया मद्वाक्यकारिणा

॥१८॥

जमदग्नेर्गृहे राज्ञा ससैन्येन भुजिः कृता ।

अतिपुण्यवतो लोके साधुशब्दः प्रयुज्यते

॥१९॥

महान् क्षुद्रस्य वाक्यं चेत् कुरूते सोऽपि साधुताम् ।

प्राप्नोति सर्वलोकेषु कीर्तिं स्फीतां समुत्कटाम्

॥२०॥

मद्वाक्यकरणे तेऽपि दूरेऽरिष्टं गतं महत् ।

ब्रह्मोवाच ।

इति वाणीं समाकर्ण्य जमदग्निसमीरिताम्

॥२१॥

पप्रच्छ राजा तं तत्र विस्मयाविष्टमानसः ।

राजोवाच ।

नादर्शि प्रथमं किञ्चिदिदं किं मायया कृतम्

॥२२॥

तपः प्रभावाद् वाऽकारि सत्त्वं मे वद सुव्रत ।

मुनिरुवाच ।

अनृतं नोक्तपूर्वं मे परिहासेऽपि वा नृप

॥२३॥

अतः सत्यं ब्रवीमि त्वां कामधेन्वाऽखिलं कृतम् ।

ब्रह्मोवाच ।

कुमतिस्तस्य भवति यस्य दैवमदक्षिणम्

॥२४॥

अनिष्टं बलवद् भावि दुष्टग्रहकृतं मुने ।

भुक्त्वा तृप्तोऽपि राजाऽसौ सम्यक् स बलवाहनः

॥२५॥

आदाने कामधेनोः स मतिं चक्रेऽब्रवीदिदम् ।

राजोवाच ।

मुनीनां शान्तचित्तानां कन्दमूलफलाशिनाम्

॥२६॥

मनसा सृष्टिसंहारकर्तॄणामस्पृहावताम् ।

जितेन्न्द्रियाणां विज्ञानां नेक्षे धेन्वा प्रयोजनम्

॥२७॥

वन्यमारुतभक्ष्याणां मोक्षसाधनकारिणाम् ।

वेदाभ्यसनशीलानां सम्पदा किं प्रयोजनम्

॥२८॥

शास्त्रपाठनशीलानां धर्मशास्त्रार्थवेदिनाम् ।

योगाभ्यासरतानां च कामधेनोः प्रयोजनम्

॥२९॥

कार्याय महते स्यात्तु महद्वस्तु महद्गतम् ।

अरण्यवासिने तुभ्यं महद्रत्नं च नोचितम्

॥३०॥

तस्माद् देया कामधेनुर्मम ब्रह्मन् मुदा त्वया ।

मयि स्थिता तवैवास्ति चेतसि त्विति धार्यताम्

॥३१॥

मर्यादां रक्ष तां ब्रह्मन्नुक्तमेवं पुरस्तव ।

नो चेद् राज्ञां किमग्राह्यं लोकेषु बलशालिनाम्

॥३२॥

स्वराष्ट्रे परराष्ट्रे वा चतुरङ्गबलैः सह ।

ब्रह्मोवाच ।

श्रुत्वैवं वचनं तस्य कार्तवीर्यस्य दुर्मतेः

॥३३॥

प्रतिजज्वाल रोषेण जमदग्निर्महामुनिः ।

सर्पिषा बहुलेनैव जातवेदा यथा द्विजः

॥३४॥

उवाचारक्तनयनः शिक्षयन्निव भूमिपम् ।

मुनिरुवाच ।

साधुः शुद्धो महान् राजा प्रार्थितो भोजनाय हि

॥३५॥

कौटिल्यं तव न ज्ञातं बकस्येव हृदि स्थितम् ।

यथा वा कोकीला काकबालं पुष्णाति मायया

॥३६॥

अन्ते तत्काकभावेन भक्ष्याभक्ष्यरतिं व्रजेत् ।

अहमेवाभवं भ्रान्तो य इमां राजमित्रताम्

॥३७॥

न दृष्टां न श्रुतां लोके नानुभूतां च केनचित्

॥३८॥

इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्योपाख्यानं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥