मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 59

3
उपासनाखण्डः · 59

चतुर्थीव्रतकथनं नामैकोनषष्टितमोऽध्यायः

राजोवाच

कुम्भीपाकाद् विनिःसृत्य तेषु यातेषु वै दिवम् ।

कमुपायं स कृतवान् कृतवीर्यपिता तदा

॥१॥

शक्र उवाच

ब्रह्मलोकं जगामाशु ददर्श कमलासनम् ।

दुःखितो नारदाच्छृत्वा वंशविच्छेदमात्मनः

॥२॥

प्रणम्य तमपृच्छत् स वंशविच्छेदकारणम् ।

मम पुत्रोऽतिधर्मात्मा वदान्यो यज्ञकारकः

॥३॥

देवतातिथिभक्तश्च मान्यमानयिता भृशम् ।

नानाविधप्रयत्नं स पुत्रार्थं कृतवान् विधे

॥४॥

तथापि नाभवत् कस्मात् तस्य पुत्रः सुरेश्वर ।

राज्यं प्रकृतिसात् कृत्वा वायुभक्षः स्थितो वने

॥५॥

अस्थिमात्रावशेषोऽसावद्य श्वो वा मरिष्यति ।

जन्मान्तरीयं तस्यैनो येन गच्छेल्लयं प्रभो

॥६॥

तमुपायं दयां कृत्वा वद मे कमलासन ।

तं प्रापयिष्ये तत्राहं स्ववंशस्य विवृद्धये

॥७॥

एवं सुललितां वाणीं श्रुत्वोचाच तथा विधिः ।

श्रूयतां तव पुत्रस्य पूर्वजन्म मयेरितम्

॥८॥

सामनाम्नाभवत् पूर्वं तत्रैव नगरेऽन्त्यजः ।

दुष्कर्माऽतितरां यस्य दर्शनं पुण्यनाशकृत्

॥९॥

एकदा तेन वित्तस्य लोभेन पथि घातिताः ।

द्वादश ब्राह्मणाः शान्तास्त्यक्तास्तेन गुहान्तरे

॥१०॥

सर्वं तदीमादाय निशि स्वगृहमागतः ।

माघकृष्णचतुर्थ्यां स उदये शशिनो नृप

॥११॥

गणेशेति गणेशेति पुत्रमाहूय सत्वरम् ।

अलब्धान्न जलस्तेन सहैव बुभुजे मुदा

॥१२॥

कालेन तस्य पुत्रोऽसौ पञ्चत्वमगमन्निशि ।

चन्द्रोदये चतुर्थ्यां तु कृष्णायामेव भूभुज

॥१३॥

अज्ञानकृतसङ्कष्ट चतुर्थीव्रतसम्भवात् ।

पुण्याद्वैनायकं धाम जगाम सुखदं तु सः

॥१४॥

विमानवरमारुढो वीक्ष्यमाणोऽप्सरैगणैः ।

वैमानिकैः स्तुयमानो दिव्यपुष्पैरथार्चितः

॥१५॥

तेनैव पुण्यशेषेण कृतवीर्याभिधो नृपः ।

तव पुत्र समापेदे पुत्रत्वमधुना भुवि

॥१६॥

तदघौघक्षयात् तस्य पुत्र उत्पत्स्यतेऽनघ ।

इति ब्रह्मवचः श्रुत्वा चकम्पे स नृपोत्तमः

॥१७॥

पप्रच्छ पुनरेवासावुपायं पापनाशनम् ।

कृतवीर्य पितोवाच ।

ब्रह्महत्याकृतस्तस्य पापं नश्येत्कथं विधे

॥१८॥

तद् वदस्व दयासिन्धो यद्यपि स्यात् सुदुष्करम् ।

ब्रह्मोवाच ।

स चेद् व्रतं तु सङ्कष्टचतुर्थीसंज्ञकं तव

॥१९॥

सुतः करिष्यते सम्यक्तेन पापात् प्रमोक्ष्यते ।

राजोवाच ।

कथं तत्क्रियते ब्रह्मन् कस्मिन्मासे व्रतं शुभे

॥२०॥

तत्सर्वं वद मे स्वामिन् येन पापं लयं व्रजेत् ।

ब्रह्मोवाच ।

चतुर्थी भौमवारे तु माघे कृष्णे भवेद्यदि

॥२१॥

शुभे मुहूर्ते चन्द्रे च कुर्यात् प्रारम्भमस्य ह ।

दन्तधावनपूर्वाणि स्नानानि चैकविंशतिम्

॥२२॥

कुर्वीत नित्यकर्माणि जपेन्मत्रं ततः परम् ।

निराहारो भवेन्मौनि परनिन्दाविवर्जितः

॥२३॥

दुष्टकर्म च ताम्बूलं वर्जयेन्नियमेन च ।

वर्जयेज्जलपानं च परद्रोहं च पैशुनम्

॥२४॥

तिलामलककल्केन दिनान्ते स्नानमाचरेत् ।

एकाक्षरं षडर्णं वा जपेद्वा वैदिकं मनुम्

॥२५॥

गणेशप्रीतये तस्य नाममन्त्रं यथाविधि ।

ध्यायेत् स्थिरेण मनसा देवदेवं गजाननम्

॥२६॥

मुहुर्तमात्रेण ततः पूजयेद् गणनायकम् ।

उपचारैः षोडशभिर्नैवेद्यर्विविधैरपि

॥२७॥

मोदकापूपशष्कूलीलड्डूकैर्वटकैरपि ।

पायसैर्विविधरन्नैर्व्यञ्जनैर्लेह्यचोष्यकैः

॥२८॥

फलैर्नानाविधैः पूगताम्बूलैर्दक्षिणादिभिः ।

एकविंशतिदूर्वाभिर्दीपैश्च कुसुमैरपि

॥२९॥

चन्द्रोदयेऽर्घ्यदानेन तिथये मन्त्रपूर्वकम् ।

गजाननाय पश्चात्तु चन्द्राय च ततः परम्

॥३०॥

निवेद्य पूजनं नत्वा क्षमाप्य च ततः पुनः ।

ब्राह्मणान्भोजयेद् भक्त्या शक्त्या वा चैकविंशतिम्

॥३१॥

दश द्वादश वाऽशक्तो दक्षिणाभिः सुतोषयेत् ।

कथां श्रुत्वा ततः सम्यक् स्वयं भुञ्जीत वाग्यतः

॥३२॥

गीतवादित्रघोषेण शेषां रात्रिं ततो नयेत् ।

एवं व्रतं चैकवर्षं कृतं चेद् यत्नतो नृप

॥३३॥

सर्वपापक्षयात्तस्य भविता पुत्र उत्तमः ।

अन्य वा चिन्तयेत्कामं यं यं तं प्राप्नुयान्नरः

॥३४॥

सर्वसङ्कटनाशः स्यात् परचक्राद् भयं न हि ।

शमीमूले जपंस्तिष्ठन्नुपवासपरायणः

॥३५॥

आचन्द्रोदयपर्यन्तं व्रतमेतत् समाचरेत् ।

अन्धो मूको जडः पङ्गुस्तदीप्सितमवाप्नुयात्

॥३६॥

दारान् पुत्रान् धनं राज्यं लभते नात्र संशयः ।

श्रावणादिषु मासेषु घृतलड्डवादिकं पृथक्

॥३७॥

भक्षेयद् वर्षपर्यन्तं तस्य सिद्धिरनुत्तमा ।

श्रावणे सप्तलड्डुकान्नभस्ये दधिभक्षणम्

॥३८॥

आश्विने चोपवासं च कार्तिके दुग्धपानकम् ।

मार्गशीर्षे निराहारं पौषे गोमूत्रपानकम्

॥३९॥

तिलाञ्च भक्षयेन्माघे फाल्गुने घृतशर्कराम् ।

चैत्रमासे पञ्चगव्यं वैशाखे शतपत्रिकाम्

॥४०॥

घृतस्य भोजनं ज्येष्ठे आषाढे मधुभक्षणम् ।

कृतवीर्यपितो वाच ।

अङ्गारकचतुर्थ्यां तु विशेषोऽभिहितः कुतः

॥४१॥

वद त्वं कृपया ब्रह्मन् प्रश्रयावनताय मे ।

श‍ृण्वतो न च मे तृप्तिर्गजानन कथां शुभाम्

॥४२॥

इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थीव्रतकथनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥