मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 50

3
उपासनाखण्डः · 50

हिमवद्गिरिजा संवादे चतुर्थीव्रत कथनं नाम पञ्चाशत्तमोऽध्यायः

पार्वत्युवाच

अहं मन्त्रे न जानामि गिरीन्द्र मे वद स्वयम् ।

अनुग्रहं गणेशस्य यामि यामि शिवं शिवम्

॥१॥

हिमावानुवाच

मन्त्रा नानाविधा देवि नानासिद्धि प्रदायकाः ।

असङ्ख्याता गणेशस्य कांश्चित्तेषु वदामि ते

॥२॥

कृत्वा पद्मासनं सम्यक् नियम्य खानि सर्वशः ।

कृत न्यासविधिः पश्चाज्जपं कुर्यानिजेच्छया

॥३॥

एकाक्षरस्य मन्त्रस्य लक्षं लक्षार्धमेव च ।

षडक्षरस्य मन्त्रस्य नियुतं चायुतं तथा

॥४॥

तथा पञ्चाक्षरस्यापि दशाष्टाक्षरयोरपि ।

अष्टाविंशद्वर्णमन्त्रो जप्तव्योऽयुतसङ्ख्यया

॥५॥

एवं नानाविधान्मन्त्रान् जपन्ति स्वेष्टसिद्धये ।

त्वं तु पार्वति मे वाक्यं श‍ृणुष्वैकाग्रमानसा

॥६॥

एकाक्षरं षडर्णञ्च गृहाण मन्त्रमुत्तमम् ।

नभः शुक्ल चतुर्थ्यां त्वमारम्भं कुरु सुव्रते

॥७॥

अनुष्ठानं मासमानं कुरु कार्यं भविष्यति ।

शिवं प्राप्स्यसि सुव्यक्तमन्यद्यच्चापि वाञ्छितम्

॥८॥

पार्थिवी पूजिता मूर्तिः स्त्रिया वा पुरुषेण वा ।

एका ददाति सा काम्यं धनपुत्रपशूनपि

॥९॥

असाध्यं साधयेन्मर्त्यो मूर्तिद्वयप्रपूजनात् ।

त्रिमूर्तिपूजनाद्राज्यं रत्नानि सर्वसम्पदः

॥१०॥

चतुमूर्तेः पूजयेद्यो धर्मार्थकाममोक्षभाक् ।

सार्वभौमो भवेद्राजा पञ्चमूर्तिप्रपूजनात्

॥११॥

षण्मूर्तिपूजया सृष्टिस्थितिप्रलयकृद्भवेत् ।

सप्ताष्टनवमूर्तिनां पूजया सर्वविद् भवेत्

॥१२॥

भूतं भव्यं भविष्यं च वेत्ति देवप्रसादतः ।

त्रयस्त्रिंशत्कोटिदेवा वह्नीन्द्रशिवविष्णवः

॥१३॥

सनकाद्या मुनिगणाः सेवन्ते दशपूजनात् ।

एकादशार्चनादेव दशरुद्राधिपो भवेत्

॥१४॥

द्वादशादित्य राज्यं च लभेच्च द्वादशार्चनात् ।

अतिसङ्कटवेलासु कुर्याद् वृद्ध्या प्रपूजनम्

॥१५॥

अष्टोत्तरशतं यावत्तावत् तत्तदवाप्नुयात् ।

महामुक्तिमवाप्नोति लक्षपूजनतोऽन्वहम्

॥१६॥

कारागृहान्मुक्तिकामः कारयेन्मूर्तिपञ्चकम् ।

त्रिःसप्तरात्रान्मुच्येत गणेशानुग्रहान्मुने

॥१७॥

सप्तमूर्तिः प्रकुरर्वीत प्रत्यहं पञ्चवत्सरम् ।

महापापात् प्रमुच्येत गणेशे भक्तिमान्नरः

॥१८॥

आजन्ममरणादेकां पूजयेत् पार्थिवीं नरः ।

गणेशः स तुविज्ञेयो दर्शनाद् विघ्ननाशनः

॥१९॥

तमेव सर्वकामेष पूजयेन्न गणाधिपम् ।

तस्यैव पूजया प्रीतो न देवः स्यात्तथा स्वयम्

॥२०॥

सर्वरोग प्रपीडासु मूर्तीनां त्रयमुत्तमम् ।

नवाहं पूजयेद्यस्तु सर्वपीडां व्यपोहति

॥२१॥

सौवर्णी राजती ताम्रीरीतिकांस्य समुद्भवा ।

मौक्तिकी च प्रवाली च सर्वमेतत् प्रयच्छति

॥२२॥

एवं कृते व्रते देवि सर्वान कामानवाप्स्यसि ।

यावद् भाद्रपदे मासि चतुर्थी परिलभ्यते

॥२३॥

तस्यां महोत्सवः कार्यो यथा विभवमादरात् ।

रात्रौ जागरणं कार्यं तत्कथावाद्यगायनैः

॥२४॥

प्रभाते विमले स्नात्वा पूर्ववत् पूजयेद् विभुम् ।

गणेशं वरदं देवं ततो होमं समारभेत्

॥२५॥

कुण्डे साङ्गे स्थण्डिले वा हूयाज्जपदशांशतः ।

पूर्णाहुतिं ततः कुर्याद् बलिदानपुरःसरम्

॥२६॥

आचार्यं पूजयेत् पश्चात् गोभूवासोधनादिभिः ।

ब्राह्मणां स्तोषयेत् पश्चाद्धोमशेषं समापयेत्

॥२७॥

तर्पयेत्तद्दशांशेन तद्दशांशेन भोजयेत् ।

ब्राह्मणान् वेदविदुषः सपत्नीकांश्च कांश्चन

॥२८॥

तेभ्यो भूषणवासांसि दद्याच्छक्त्या च दक्षिणाम् ।

दद्यात् स्त्रीणामलङ्कारान् योषिद्भ्यश्च सकञ्चुकान्

॥२९॥

तुष्टये गणनाथस्य सिद्धिबुद्धियुतस्य ह ।

वित्तशाठयं न कुर्वीत यथाविभवमाचरेत्

॥३०॥

ततः सुहृज्जनयुतः स्वयं भुञ्जीत सादरम् ।

अपरस्मिन्दिने मूर्तिं नृयाने स्थापयेन्मुदा

॥३१॥

छत्रध्वजपताकाभिश्चामरैरूपशोभिताम् ।

किशोरैर्दण्डयुद्धेन युध्यद्धिश्च पुरःसरम्

॥३२॥

महाजलाशयं गत्वा विसृज्य निनयेज्जले ।

वाद्यगीतध्वनियुतो निजमन्दिरमाव्रजेत्

॥३३॥

इति श्रीगणेशपुराणे उपासनाखण्डे हिमवद्गिरिजासंवादे चतुर्थीव्रतकथनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥