मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 11

3
उपासनाखण्डः · 11

मन्त्रकथनं नामैकादशोऽध्यायः

भृगुरुवाच

जगादभूयश्चतुराननस्तमेवं कृतप्रश्नविवक्षयाऽथ ।

क्रमेण सर्वं कथयामि तेऽहं गणेशमन्त्रान् बहुधा विचार्य

॥१॥

ब्रह्मोवाच

अनन्ता हि मुने मन्त्रा गणेशस्य महात्मनः ।

उपासनं वदिष्यामि शीघ्रं सिद्धिकरस्य ते

॥२॥

सप्तकोटिमहामन्त्रा गणेशस्यागमे स्थिताः ।

तद्रहस्यं शिवो वेद किञ्चित् किञ्चिदहं मुने

॥३॥

षडक्षरैकाक्षरयोः श्रेष्ठत्वं तेषु विद्यते ।

ययोः स्मरणमात्रेण सर्वसिद्धिः करे भवेत्

॥४॥

जीवनमुक्ता भवन्त्येव यदुपासनया मुने ।

त एव धन्यास्ते पूज्यास्ते नमस्याः सुरैरपि

॥५॥

यदुपासनया दास्यं येषां कुर्वन्ति सिद्धयः ।

इच्छाविहाराः सर्वज्ञा नानारूपा भवन्ति ते

॥६॥

ये कुर्वन्ति गणेशस्य भक्तिं भावसमन्विताः ।

न येषां भक्तिलेशोऽपि तेषां जन्म निरर्थकम्

॥७॥

नालोकयन्मुखं तेषां विमुखा ये गजानने ।

तेषां दर्शनमात्रेण विघ्नानि स्युः पदे पदे

॥८॥

विघ्नान्युपशमं यान्ति तदुपासकदर्शनात् ।

नमस्यन्ति च भूतानि स्थावराणि चराणि च

॥९॥

अतस्तेऽहं प्रवक्ष्यामि मन्त्रमेकाक्षरं शुभम् ।

तदनुष्ठानमात्रेण वाञ्छितं समवाप्स्यसि

॥१०॥

अनुष्ठानं प्रवक्ष्यामि यथोक्तं शम्भुना मम ।

स्नानं कृत्वा धौतवस्त्रे परिधाय शुचिर्नरः

॥११॥

चैलाजिनं कुशैः कृत्वा स्वासनं साधकः सुधीः ।

तस्मिन् स्थित्वा भूतशुद्धिं प्राणानां स्थापनं तथा

॥१२॥

अन्तर्बहिर्मातृकाणां न्यासं कृत्वा त्वतन्द्रितः ।

प्राणायामं ततः कृत्वा मूलमन्त्रं जपन् हृदि

॥१३॥

मन्त्रसन्ध्यामुपासीत आगमोक्तां यथाविधि ।

आपादमस्तकं देवं ध्यात्वा निश्चलचेतसा

॥१४॥

मानसैरूपचारैस्तं पूजयेत् सुसमाहितः ।

ततो जपेद्यथाशक्ति पुरश्चरणमार्गतः

॥१५॥

अनुकूलो भवेद्यावद् वरं दातुं गजाननः ।

स्वरूपं दर्शयेद्यावत्तावज्जपपरो भवेत्

॥१६॥

भृगुरुवाच

एवमुक्त्वा मुनिं ब्रह्मा विलोक्य शुभवासरम् ।

एकाक्षरं मन्त्रराजमेकार्णं गणपस्य च

॥१७॥

अशिक्षयत् तदा सर्वं सम्भ्रान्तं मुनिसत्तमम् ।

ब्रह्मोवाच ।

सूर्यकोटिप्रतीकाशं वरं दातुं समागतम्

॥१८॥

यदा द्रक्ष्यसि तं देवं तदा चित्तं स्थिरीकुरु ।

ममैव हृदये नित्यं स्थिरो भव गजानन

॥१९॥

वृणीष्वेति वरं तस्मात् स ते दास्यत्यसंशयम् ।

हृदि स्थिते तत्र देवे दिव्यं ज्ञानमवाप्स्यसि

॥२०॥

भूतं भावि भवच्चैव ज्ञास्यसि त्वमशेषतः ।

हित्वा भ्रान्तिं दृढां वत्स नानाग्रन्थान् करिष्यसि

॥२१॥

व्यास उवाच

गता भ्रान्तिर्मम पितरुपदेश कृते त्वया ।

अनुष्ठानं करिष्यामि पितामह तवाज्ञया

॥२२॥

ब्रह्मोवाच

एकान्ते निर्जने देशे व्यग्रताहेतुवर्जिते ।

अनुष्ठानं कुरू विभो गजाननमनुस्मरन्

॥२३॥

नास्तिके निन्दके क्रूरेऽनाचारे च खले शठे ।

न वक्तव्यो मन्त्रराजस्तादृशे शरणागते

॥२४॥

दृढभक्तौ श्रद्दधाने विनीते वेदवादिनि ।

साकाङ्क्षे निरनुक्रोशे शास्त्रज्ञे च प्रकाशय

॥२५॥

प्रापयत्येव नरकान् दशपूर्वान् दशापरान् ।

मन्त्रराजस्तु वक्तारमप्रकाश्ये प्रकाशितः

॥२६॥

यो जपेद् भक्तिपूर्वं तु स लभेदीप्सितं फलम् ।

पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः

॥२७॥

एकदन्तप्रभावेण लब्ध्वा ज्ञानं सुनिर्मलम् ।

इह भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्नुयात्

॥२८॥

इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रकथनं नामैकादशोऽध्यायः ॥ ११ ॥