कामदहनो नाम चतुरशीतितमोऽध्यायः
क उवाच
एवमुक्त्वा गतः कामः सुरकार्यार्थसिद्धये ।
अपश्यच्छाङ्करं स्थानं वृक्षवल्लीसमाकुलम्
॥१॥सिंहशार्दूलजुष्टं च पक्षिश्वापदसंयुतम् ।
स्वयं च निर्ममे मायावाटिकां तत्क्षणेन सः
॥२॥सरोवराणि भूरीणि सुधारूपजलानि च ।
अनेककुसुमान् वृक्षानागव्यूति सुगन्धिनः
॥३॥जम्ब्वाम्रबदरीवृक्षान् सुपक्वफलशालिनः ।
तथैव रम्भापनसौ नारिकेलीः सखर्जुरीः
॥४॥एलालवङ्गमारीचवृक्षानन्याननेकशः ।
अगृह्यमाणो गन्धोऽसौ हरनासापुटं ययौ
॥५॥उषःकाले हरोऽपश्यज्ज्योत्स्नाजलमनोहरम् ।
अनेकफलपुष्पाढ्यं कामकाननमद्भुतम्
॥६॥तदैव भेदयामास मानसं शूलिनस्तु सः ।
स्वीयामशोकवनिकां धिक्चक्रे मनसा शिवः
॥७॥देहभावं गतो देवश्चिन्तयामास कारणम् ।
कृतं केन तपोविघ्नं कृतमेतद्वनं शुभम्
॥८॥अकस्माद्रचितं केन दुष्टेनेदं गतायुषा ।
आबद्धय भ्रुकुटीं रोषादारक्तनयनोदरः
॥९॥कामस्तु भयसन्त्रस्तो लीनः क्वापि न गृह्यते ।
इन्द्रादीनां स संस्मार स्मृतास्तेनात्र ते ययुः
॥१०॥विमानानि समारूढाः कार्यसिद्धीच्छया सुराः ।
शिवेन ददृशे तावन् मदनोऽतिलघुः कृशः
॥११॥दग्धुं मनोभवं नेत्रं तृतीयमुदघाटयत् ।
चकम्पे पृथिवी सर्वा स्वर्गः पातालमेव च
॥१२॥मा जहीत्यब्रुवन्देवा यावत् तावत् स नेत्रजः ।
चकार भम्मसात् कामं भस्ममात्रावशेषितम्
॥१३॥ततो भिल्ली महेशानं प्रार्थयामास सादरम् ।
नमस्कृत्वाञ्जलिं बद्ध्वा त्रैलोक्यहितकाम्यया
॥१४॥त्रैलोक्यदाहकं वह्निमुपसंहर शङ्कर ।
ब्रह्मलब्धवरो दैत्यस्तारकोऽतिमहाबली
॥१५॥आक्रान्तं तेन त्रैलोक्यं निःस्वाध्यायं निराहुति ।
स्थानच्युताः सुराः सर्वे त्वां दृष्ट्वा तपसि स्थितम्
॥१६॥त्वरया काममामन्त्र्य देहभावाय तेऽनघ ।
अप्रेषयन् स वै भस्म जातः श्रेष्ठापराधतः
॥१७॥इदानीं देव रक्षास्मांस्त्वामेव शरणं गतान् ।
विख्यातस्त्रिषु लोकेषु शरणागत पालकः
॥१८॥क्षमस्व कृपणानां त्वं देवानां शरणैषिणाम् ।
अपराधं महादेव करुणाकर शङ्कर
॥१९॥क उवाच
इति तस्या वचः श्रुत्वा स्वाङ्घ्रिस्थशिरसो मुने ।
जगाद हास्यवदनो वह्नि संहृत्य शङ्करः
॥२०॥उत्तिष्ठोत्तिष्ठ देवानां रक्षणं कृतमद्य मे ।
पादयोः पतितायास्ते वचसा प्रणयेन च
॥२१॥तत आलिङ्ग्य सहसा भिल्लीमङ्कमथानयत् ।
वृषभारुह्य च तया सार्द्धं कैलासमागमत्
॥२२॥इति श्रीगणेशपुराणे उपासनाखण्डे कामदहनो नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥