कादम्बपुर गत वर्णनं नाम पंञ्चत्रिशत्तमोऽध्यायः
व्यास उवाच
देवर्षौ तु गते तस्मिन्नृपः किमकरोत् तदा ।
रूक्माङ्गदो मे कथय कथामेतां मनोरमाम्
॥१॥ब्रह्मोवाच
कृत्वोपदेशं सुमहान्तमेवं गते मुनौ नारद नाम्नि पुत्र ।
रुक्माङ्गदो हर्षयुतो ददर्श सेनां स्वकीयां चतुरङ्गिणीताम्
॥२॥तयाऽपि दृष्टो नृपतिर्विरुपो यः स्वर्णकान्ती रतिभर्तृरुपः ।
आसीत् पुरेत्थं कथमेष जातः संशय्य पप्रच्छ नृपं निमित्तम्
॥३॥सेनान्य ऊचुः
गिरीन्वनानि सरितो भ्रान्त्वा च वयमागतः ।
क्षुत्तुट्परीता राजेन्द्र त्वद्दर्शनसमुत्सुकाः
॥४॥पदे पदे प्रपश्यन्तः सम्प्राप्तास्ते पदाम्बुजम् ।
इमामवस्थां दृष्ट्वा ते दुःखाद्दुःखतरं गताः
॥५॥किं निमित्तमभूत् तन्नः कथयस्व नृपोत्तम ।
नृप उवाच ।
अहमग्रे समायातस्तृषितः क्षुधितश्च ह
॥६॥अपश्यं पुरतः शीघ्रं वाचक्नविगृहाश्रमम् ।
तत्र गत्वा मया दृष्ट्वा तस्य पत्नी शुभानना
॥७॥नाम्ना मुकुन्देति शुभा याचिता सा जलं मया ।
सा तु दुष्टा स्वैरिणी च मामुवाचाऽशुभं वचः
॥८॥रति कुरु मया सार्धं नो चेच्छापं ददामि ते ।
निराकृता मया सा तु बलाच्छुद्धेन चेतसा
॥९॥तद्भर्तरि गते स्नातुं सा मां दुष्टाऽशपद् रुषा ।
ततस्तु वृक्षमुलेऽहमुपविष्टो हि दुःखितः
॥१०॥प्रभावात् पूर्वपुण्यस्य दृष्टवान् नारदं मुनिम् ।
तेन मे कथितोऽरिष्टनाशको विधिरूत्तमः
॥११॥चिन्तामणिक्षेत्रगतो गणेशतीर्थसंश्रितः ।
महिमा कथितस्तेन तस्य तीर्थस्य विस्तरात्
॥१२॥तत्र स्नानं समाख्यातं मुनिना दिव्यचक्षुषा ।
अतः स्नातुं गमिष्यामि स्वदोषस्याऽपनुत्तये
॥१३॥यान्तु सर्वे मया सार्द्धं तत्र स्नातुं यदीच्छथ ।
स्नात्वा दत्त्वा यथाशक्ति सम्पूज्य च विनायकम्
॥१४॥पूतास्तयोः प्रभावेण यास्यामः स्वपुरं ततः ।
क उवाच ।
इति ते निश्चयं बुद्ध्वा जग्मू राजपुरःसराः ।
दृष्ट्वा तीर्थं गणेशाख्यं दिव्यदेहो बभौ नृपः
॥१५॥तप्तकाञ्चनवर्णाभो यथापूर्वं मुनीश्वर ।
ततो रुक्माङ्गदो मेने नारदोक्तमृतं वचः
॥१६॥तत्र स्नात्वा ददौ दानान्यनेकानि नृपस्तदा ।
रुक्माङ्गदो ब्राह्मणेभ्यो मुदा परमया युतः
॥१७॥विनायकं पूजयित्वा तेजोराशिं ददर्श सः ।
विमानमर्कप्रतिमं ब्राह्मणाः सेवकाश्च ते
॥१८॥विनायकगणैर्जुष्टमप्सरः किन्नरैर्युतम् ।
नत्वा नृपस्तान् पप्रच्छ के यूयं कुत आगताः
॥१९॥दूताः कस्य किमत्रास्ति कार्यं तद् ब्रूत सादरम् ।
ब्रह्मोवाच ।
श्रुत्वा नृपति वाक्यानि मञ्जुलानि विमानगाः
॥२०॥दूता विनायकस्योचुर्धन्योऽसि नृपसत्तम ।
येन ते सर्वभावेन ध्यातश्चिन्तामणिः प्रभुः
॥२१॥तीर्थयात्रा कृता सम्यग् दानं दत्वा यथाविधि ।
चिन्तामणिः पूजितश्च कृतकृत्योऽसि साम्प्रतम्
॥२२॥चिन्तितस्य प्रदानाद् हि चिन्तामणिरयं स्मृतः ।
वयं च कृतकृत्याः स्मो दर्शनात् तव सुव्रत
॥२३॥महिमानं न जानीमस्तव भक्तेर्नृपोत्तम ।
कायेन वचसा बुद्ध्या जीवस्याप्यर्पणेन च
॥२४॥आराधितास्त्वया देवः सर्व ब्रह्माण्डनायकः ।
विनायकस्तस्य दूतास्तेन च प्रेषिता नृप
॥२५॥उत्सुकः स उवाचाऽस्मान् मद्भक्तं शीघ्रयायिनः ।
रुक्माङ्गदं विमानेन आनयन्तु ममान्तिकम्
॥२६॥इति श्रुत्वा वयं याता आरोहस्व नभोगमम् ।
याहि शीघ्रतरं देव सहाऽस्माभिर्विनायकम्
॥२७॥ब्रह्मोवाच
इति श्रुत्वा वचस्तेषामाह रूक्माङ्गदो नृपः ।
क्वाऽहं मन्दमतिर्दूताः क्व चाखण्डितविग्रहः
॥२८॥अप्रमेयोऽप्रतर्क्यश्च चिन्मात्रो विभुरव्ययः ।
सर्गस्थित्यप्ययानां यः कारणं कारणातिगः
॥२९॥तस्यादरो मयि कथं न जाने तीर्थजं फलम् ।
जन्मान्तरगतं किं मे फलितं पुण्यमुत्तमम्
॥३०॥तेन वो दर्शनं जातमग्रेऽतिफलदं शुभम् ।
यूयं धन्यतरा येषां प्रत्यक्षोऽहर्निशं विभुः
॥३१॥इत्युक्त्वा पूजयामास नत्वा चरणपङ्कजम् ।
प्रार्थयामास सर्वांस्तान्पिता मम नृपोत्तमः ।
ब्रह्मण्यः सत्यवादी च भीमो भीमपराक्रमः
॥३२॥विना तं कथमायामि मानरं चारुहासिनीम् ।
तयाऽऽप्याराधितो देवो देवदेवो विनायकः
॥३३॥जन्मावधि न चान्यं सा मनुते देवन्तान्तरम् ।
दूत उवाच ।
एवं चेत्तर्हि तीर्थोऽस्मिन् कुरु स्नानं तयोरपि ।
श्रेयस्तस्मै च तस्यै च पित्रे मात्रे प्रदीयताम्
॥३५॥ततस्तावपि नेष्यामो विमानवरमास्थितौ
॥३६॥ब्रह्मोवाच
इति तद्वचनं श्रुत्वा कृत्वा प्रतिकृतिं कुशैः ।
कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा
॥३७॥त्वयि स्नाते तु स स्नातो यस्येदं ग्रन्थिबन्धनम् ।
एवं मन्त्रं समुच्चार्य सर्वेषामानुपूर्वशः
॥३८॥ग्राम्याणां सर्वलोकानां चक्रे स्नानविधिं नृपः ।
चिन्तामणिक्षेत्रगते तीर्थे गणेशसंज्ञके
॥३९॥ततो रुक्माङ्गदो राजा सबलो दूतवाक्यतः ।
विमानवरमारूह्य कौण्डिन्यं पुरमाययौ
॥४०॥वाद्यघोषैर्ब्रह्मघोषैर्गन्धर्वाप्सरसां रवैः ।
नादितं गगनं तेन विमानेन दिशो दश
॥४१॥मातापितृभ्यां प्रददौ श्रेयो रुक्माङ्गदो नृपः ।
सर्वेषामेव लोकानां स्नानश्रेयो विनायके
॥४२॥दत्तमात्रे तु कौशेयस्नानजे श्रेयसि ध्रुवम् ।
विनायकाज्ञयाऽन्यानि विमानानि समाययुः
॥४३॥प्रत्येकं ते समारुढा एकैकं गगनेचरम् ।
एवं रुक्माङ्गदो भीमस्तन्माता चारुहासिनी
॥४४॥सर्वे लोका ययुस्तत्र यत्र देवो विनायकः ।
एवं तन्नगरं सर्वमाबालश्वपचावधि
॥४५॥पुण्याद् गणेशतीर्थस्य स्नानजात् स्वर्गतिं गतम् ।
क उवाच ।
इति ते कथितं सर्वं यद्यत् पृष्टं त्वया मुने
॥४६॥चिन्तामणिक्षेत्रगतं माहात्म्यं तीर्थसम्भवम् ।
यः शृणोति नरो भक्त्या सोऽपि तद्गतिमाप्नुयात्
॥४७॥इति श्रीगणेशपुराणे उपासनाखण्डे कादम्बपुरगतवर्णनं नाम पंञ्चत्रिशत्तमोऽध्यायः ॥ ३५ ॥