मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 72

3
उपासनाखण्डः · 72

द्विसप्ततितमोऽध्यायः

शूरसेन उवाच

व्रते जाते कथमभू तयोः पुत्रः शतक्रतो ।

तत्सर्वं मे वद विभो विस्तरात् परिपृच्छतः

॥१॥

इन्द उवाच

किं किं न जायते राजन् परितुष्टे गजानने ।

प्रसादात् तस्य सा राज्ञी गर्भं दध्रे नृपस्य यत्

॥२॥

प्रसूता नवमे मासि मङ्गलं पुत्रमैक्षत ।

द्विस्कन्धं चारुवदनं बाहुहस्तविवर्जितम्

॥३॥

सुनासं पद्मनयनमूरूजानुविवर्जितम् ।

जङ्घापादविहीनन्तं दृष्ट्वा माता रुदोद ह

॥४॥

सा उवाच

दुर्भगायाः कथमभूदीदृशो बालको मम ।

करपादविहीनोऽयं कथं दत्तो गजानन

॥५॥

आसं शुभाऽहं वन्ध्यैव किमीदृक्पुत्रवत्यहम् ।

कथं न जातो नाशो मे पूर्वजन्मकृतैनसः

॥६॥

कथं प्रसादः फलितस्तवापि द्विरदानन ।

कथं ब्राह्मणवाक्यानि निष्फलानीदृशानि मे

॥७॥

पाणिभ्यां निघ्नती वक्षो ललाटं च मुहुर्मुहुः ।

तस्यां रुदत्यां सर्वास्ता रुरुदुस्तत्र यास्थिताः

॥८॥

तासां कोलाहलं श्रुत्वा नृपोऽपि तत्र चागमत् ।

तस्यापि रुदितं श्रुत्वा प्रधाना अपि चागमन्

॥९॥

तेषां च रुदितं श्रुत्वा नागरा रुरुदुस्तदा

॥१०॥

राजोवाच

कथं दीनानुकम्पित्वं तव देव गजानन ।

कथं दया कृता तेऽद्य मह्यमेवं प्रदर्शिता

॥१॥

कथं स्मरणमात्रेण पापानि हरसेऽनघ ।

जपस्तपः स्मृतिर्दानं पूजनं द्विजतर्पणम्

॥१२॥

अनुष्ठानं तथा होमः सर्वं व्यर्थङ्गतं मम ।

तस्माद् दैवं हि बलवत् प्रयत्नस्तु निरर्थकः

॥१३॥

न ज्ञायते कर्मगतिः कदा किं वा भविष्यति ।

मूषक प्राप्यते यद्वत् पर्वतस्य विदारणात्

॥१४॥

तथा मेऽजनि पुत्रेऽयमाजन्मकृतयत्नतः ।

तत ऊचुः प्रकृतयो नृपं शोकाकुलं तदा

॥१५॥

प्रधाना ऊचुः

अलं शोकेन भूपाल कथं भाव्यन्यथा भवेत् ।

रामः किं न मृगं वेद तत्पृष्टं गत एव सः

॥१६॥

धर्मराजो न किं वेद निषिद्धं द्यूतकर्म तत् ।

तथापि स गतो रन्तुं सर्वं हित्वा वनं गतः

॥१७॥

चारुता न भवेदस्य भृशमाक्रन्दिते सति ।

अदृष्टं चेद्भवेत् सम्यगग्रे चारुरयं भवेत्

॥१८॥

पुष्पं फलं वा कालेन यथा याति महीरूहाम् ।

तथा कालेन भविता सम्यक् च पृथिवीपतिः

॥१९॥

इन्द्र उवाच

इत्यमात्य वचः श्रुत्वा सावधानोऽभवन्नृपः ।

उवाच नृपपत्नीं तामुत्तिष्ठोतिष्ठ मा शुचः

॥२०॥

स्वयं च सुमना राजा समाहूय द्विजोत्तमान् ।

गणेशपूजनं चक्रे स्वस्तिवाचनमेव च

॥२१॥

कृत्वाऽभ्युदयिक श्राद्धं ददौ दानान्यनेकशः ।

माल्यालङ्कारवासांसि गावो रत्नान्यनेकशः

॥२२॥

सुहृत्सम्बन्धिभृत्येभ्यो वस्त्राणि विविधानि सः ।

नानावादित्रजीवेभ्यो ददौ राजा यथार्हतः

॥२३॥

बन्दिचारणदीनान्धकृपणेभ्यश्च सर्वशः ।

गृहे गृहे च ताम्बूल शर्करां दापयच्च सः

॥२४॥

कार्तवीर्येति नामास्य चकारैकादशेऽहनि ।

भोजयामास नगरं महोत्साहपुरःसरम्

॥२५॥

ततो द्वादश वर्षाणि व्यतितानी सुतस्य ह ।

आययौ स्वेच्छया तस्य दत्तात्रेयस्तदा गृहम्

॥२६॥

पादयोः स्वशिरः स्थाप्य कृतवीर्यो ननाम तम् ।

आलिलिङ्ग मुनिस्तं स उत्थाय नृपसत्तमम्

॥२७॥

उपविश्यासने रम्ये पूजयामास सादरम् ।

विष्टरं पाद्यमर्घ्यं च गां च वस्त्रोपवीतकम्

॥२८॥

ददौ धूपं च दिपं च नैवेद्यं विविधं फलम् ।

उद्वर्तनं च ताम्बूलं रत्नकाञ्चनदक्षिणाम्

॥२९॥

सुप्रसन्नं सुखासीनं पादसंवाहनादिभिः ।

उवाच राजा सम्यक् तं दत्तात्रेयं महामुनिम्

॥३०॥

जन्मजन्मातरीयं मे पुण्यं फलितमद्य वै ।

यच्चर्मचक्षुषां जातं साक्षात्ते दर्शनं मुने

॥३१॥

अग्रे शुभतरं भावि प्रसादात्तव सुव्रत ।

यतो भवादृशां नैव दर्शनं पापकर्मणाम्

॥३२॥

कृतवीर्यवचः श्रुत्वा दत्तात्रेयस्तमब्रवीत् ।

अपूर्वं तनयं तेऽद्य द्रष्टुकामोऽहमागतः

॥३३॥

तत आनन्दयुक्तोऽसौ नृपः प्राह मुनिं पुनः ।

नृप उवाच ।

अनुष्ठानं तपो दानं वृथा मम गतं व्रतम्

॥३४॥

जगदीशेन दत्तोऽयं पुत्रो हृच्छल्य एव सः ।

अनेनाऽदर्शनीयेन गतश्चादर्शनीयताम्

॥३५॥

इन्द्र उवाच

आनीय बालकं तस्मै मुनयेऽदर्शयन्नृपः ।

आच्छादयन्नेत्रकञ्जे तत्सुतं वीक्ष्य सन्मुनिः

॥३६॥

ज्ञात्वा ध्यानेन तत्कर्म मुनिस्तं पुनरब्रवीत् ।

अयमेव सुतों राजन् कर्ता सर्वान् विजित्य ह

॥३७॥

नाचान्तोऽसि विजृम्भ्य त्वं सङ्कष्टीव्रतजागरे ।

निन्दितो व्रतराजस्तु सर्वसङ्कष्टनाशनः

॥३८॥

अङ्गहीनः सुतो जात उपायात् साङ्गतामियात् ।

राजोवाच ।

ऋतमुक्तं त्वया स्वामिन् कृपां कृत्वा वदस्व मे

॥३९॥

येनोपायेन साङ्गो मे त्वत्प्रसादात् सुतो भवेत् ।

इन्द्र उवाच ।

मुनिः स कृपयाविष्टस्तत्सुताय तदाऽब्रवीत्

॥४०॥

मन्त्रमेकाक्षरं साङ्गं तत ऊचे पुनश्च तम् ।

आराधनं गणेशस्य मन्त्रेणानेन भक्तितः

॥४१॥

उपवासैकभक्तानां नियमान् कुरू सुव्रत ।

द्वादशाब्दं ततस्तुभ्यं दर्शनं स च दास्यति

॥४२॥

तद्दृष्टिपातमात्रेण दिव्यदेहो भविष्यसि ।

इत्युक्त्वा नृपमामन्त्र्य पिदधे मुनिपुङ्गवः

॥४३॥

गते मुनौ ततः पुत्रः पादहीनो महामनः ।

जगाद कृतवीर्यं स गहनं प्रापयसस्व माम्

॥४४॥

गजानन प्रसादार्थमनुष्ठानं करोम्यहम् ।

रुदित्वा पितरौ तस्य श‍ृत्वा वाणीं तदीरिताम्

॥४५॥

अप्रेषयद् वनं चारु नरयानेन तं पिता ।

भृत्याः पर्णकुटीमध्ये संस्थाप्य नगरं ययुः

॥४६॥

तस्थौ तत्र स्वयं सम्यक् तपसे कृतनिश्चयः

॥४७॥

इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्यप्रादुर्भावो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥