मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 4

3
उपासनाखण्डः · 4

चतुर्थोऽध्यायः

सूत उवाच

जातेऽभिषेके राजाऽसौ चकार द्विजपूजनम् ।

मणिमुक्ताप्रवालानि ददौ साङ्गं गवा युतम्

॥१॥

तोषयामास सर्वान्स्तान् गजगोऽश्वधनांशुकैः ।

नानादेश्यानि वासांसि सुवर्णान्तरितानि च

॥२॥

नानावर्णानि काश्मीरदेशजानि महान्ति च ।

राजभ्यो राजपत्नीभ्यो ग्राम मुख्येभ्य एव च

॥३॥

तद्भृत्येभ्यो गुणिभ्यश्च ददौ राजां यथर्हतः ।

अमात्येभ्यो ददावन्यान् ग्रामान् बहुधनान्यपि

॥४॥

ततो वनं ययौ राजा दुः शोकसमन्वितः ।

पूर्व जन्मार्जितैदोषैरत्यन्तमलिनोऽशुचिः

॥५॥

तस्मिन्प्रयाते लोकानां हाहाकारो महानभूत् ।

स्वं स्वं कार्यं विहायैव प्रतिजग्मुर्जनाधिपम्

॥६॥

अमात्या राजभार्याच हेमकण्ठः सुहृद्गतः ।

उत्तिष्ठन् प्रपपाताग्रे स्खलन् धावन् रुदन्नपि

॥७॥

अमात्यानागरास्तं तु दुःखिता अप्यवारयन् ।

गव्यूतिद्वितयं गत्वा तस्थौ राजा श्रमान्वितः

॥८॥

दृष्ट्वा वापीं शीतजलां नानावृक्षसमन्विताम् ।

उवाच नागरान् सर्वानमात्यान् स्वजनानपि

॥९॥

अपराद्धं मया यद् यच्चिरं राज्यं प्रकुर्वता ।

तत् क्षन्तव्यं नमाम्येष बध्वाञ्जलिपुटं जनाः

॥१०॥

कृपा विधया पुत्रे मे यदि दैवात् समागते ।

विज्ञापयामि वः सर्वान् मयि स्नेहो न हीयताम्

॥११॥

गच्छन्तु नगरं सर्वे सस्त्रीवृद्धाः समागताः ।

पुत्रेण पाल्यमाना मे तिष्ठन्तु विगतज्वराः

॥१२॥

अनुजानन्तु मां सर्वे सुचित्तो याम्यहं वनम् ।

युष्मासु तु प्रयातेषु मनो मे निश्चलं भवेत्

॥१३॥

उपकारं महान्तं मे कुर्वन्तु कृपयाऽखिलाः ।

दुःखितो निष्ठुरं वक्तुं मर्तुकामोऽपि नोत्सहे

॥१४॥

महत्पापं मयैवैतज्जन्मजन्मान्तरार्जितम् ।

यद्वियोगो हि राज्यस्य लोकानां हितकारिणाम्

॥१५॥

परन्तु किं करोम्येष यद् गलत्कुष्ठवानहम् ।

सर्वोऽपि स्वकृतं भुङ्क्ते सुकृतं दुष्कृतं तथा

॥१६॥

सूत उवाच

इति श्रुत्वा वचो राज्ञो मूर्छिताः सुहृदस्तथा ।

घ्नन्तः केचित् पाणितलैः शिरांसि भृशदुःखिताः

॥१७॥

केचित् परस्परं चक्रुरभिज्ञाः पण्डिताश्च ये ।

सान्त्वनं पूर्वजातानां नृपाणां चरितैर्नृपे

॥१८॥

अनिर्वाच्यामवस्थां तत् समीक्ष्येयुरथाऽपरे ।

यथा स्वरूपे विज्ञाते योगिनो ज्ञानवृत्तयः

॥१९॥

दुःखितं सोमकान्तं तं वनं गन्तुं समुत्सुकम् ।

नियम्य दुःखं धैर्येण धीराः केचिदथाब्रुवन्

॥२०॥

जना ऊचुः

पोषयित्वा पालयित्वा न नस्त्वं त्यक्तुमर्हसि ।

यथा न त्यजते शैत्यं जलमौष्ण्यं तनूनपात्

॥२१॥

मर्यादां जलधिर्वाऽपि सूर्यः प्राकाश्यमेव च ।

कथं वा नगरं यामस्त्वां विना जनवत्सल

॥२२॥

यथोडुपतिना हीनं व्योम तारान्वितं नृपः ।

पुरं तद्वन्न शोभेत त्वां विना शत्रुकर्षण

॥२३॥

सहैव यामस्तीर्थानि द्वित्राणि वयमप्युत ।

रूपं ते कान्तिमत् कान्त ! भविता तीर्थ सेवनात्

॥२४॥

ततः सहैव यास्यामो नगरं ध्वजसङ्कुलम् ।

हर्षेण महता युक्ता वाद्यबन्दिपुरः सराः

॥२५॥

सूत उवाच

इति तद्वचनं श्रुत्वा क्रोध दुःख समन्वितः ।

उवाच राजा तान्नत्वा मैवं मैवं पुनः

॥२६॥

ततोऽब्रवीद्वेमकण्ठं सामात्यो वत्सलं नृपम् ।

स्नेह कारूण्य भावेन विनयेन समन्वितः

॥२७॥

पुत्र उवाच

विना त्वां नोत्सहे गन्तुं कर्तुं राज्यञ्च जीवितुम् ।

न मया दृष्टपूर्वस्ते विरहस्तं सहे कथम्

॥२८॥

राजोवाच

एतदर्थ मया पूर्वं धर्मशास्त्रं सुनीतिमत् ।

उपदिष्टं तव शुभं न वृथा कर्तुमर्हसि

॥२९॥

श्रूयते जामदग्न्येन जननी निहता पुरा ।

पितृवाक्यानुरोधेन नीतिज्ञेन सुधीमता

॥३०॥

रामस्तु राज्यं त्यक्त्वैव वनं यातः सहानुजः ।

अपृष्ट्वा कारणं सीतां तत्त्याज लक्ष्मणो वने

॥३१॥

हेमकण्ठ ! पुरं शीघ्रममात्यैस्त्रिभिरन्वितः ।

अतो ममाज्ञया गच्छ कुरु राज्यं मयाऽर्पितम्

॥३२॥

विज्ञे यथा कार्यसक्ते चित्तं तस्य परात्मनि ।

यथाऽवस्थापिते वित्ते चित्तं लोकस्य वर्तते

॥३३॥

तथा मयि वनं याते स्वान्तं मे त्वयि वर्तते ।

दैवयोगेन सुभगो जातोयास्ये पुनर्गृहम्

॥३४॥

भविष्यति तथा धर्मो मद्वाक्यकारिणस्तव ।

न तथा सह यातेन तस्माद्गच्छ व्रजामि च

॥३५॥

सूत उवाच

अमात्या नागराः पुत्रः प्रयातुं कृतमानसाः ।

कष्टेन महतायुक्ता नमश्चक्रुर्नृपं तदा

॥३६॥

अनुज्ञातास्ततस्तेन आशीर्भिभिनन्द्य च ।

प्रदक्षिणी कृत्य नृपं निवृत्ता नगरं प्रति

॥३७॥

अग्ने कृत्वा महासेनां गजाश्वरथपत्तिनीम् ।

छत्रध्वजयुतो मानी हेमकण्ठोऽगमत्पुरीम्

॥३८॥

इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्ततपोवनगमनं नाम चतुर्थोऽध्यायः ॥ ४ ॥