मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 38

3
उपासनाखण्डः · 38

वरप्रदानं नामाष्ट त्रिंशत्तमोऽध्यायः

व्यास उवाच

ततो गृत्समदस्यासीत् कथं वृत्तिः सुरेश्वर ।

तन्ममाचक्ष्व यत्नेन श्रद्दधानस्य पद्मज

॥१॥

ब्रहोवाच

ततः सर्वे मुनिगणा मानयामासुरादरात् ।

ब्रह्मन् मुनिवरश्रेष्ठं नेमुर्गृत्समदं च तम्

॥२॥

वरदानाद्गणेशस्य वव्रुस्तं यज्ञकर्मणि ।

सर्वारम्भे गणेशस्य पूजनादौ च सस्मरुः

॥३॥

एवं विख्यातिमगमत् स मुनिर्गणनायके ।

भक्तिं परमिकां चक्रे जपन्मन्त्रं सुनिश्चलः

॥४॥

कदाचित् स मुनिर्व्यास चुक्षुवे बलमुत्तरम् ।

दिशो नभश्च पृथिवीं नादयन् गिरिगव्हरान्

॥५॥

अपयश्यत् पुरतो यावत् तावद्बालं भयङ्करम् ।

रक्तवर्ण महानादं जपाकुसुमसन्निभम्

॥६॥

तेजोराशिं च मुष्णन्तं नेत्रालोकपथं मुहुः ।

दृष्ट्वा स तादृशं बालं चकम्पे भयविव्हलः

॥७॥

तर्कयामास मनसा विघ्नः कोऽयमिहागतः ।

न जाने गणनाथेन दत्तः पुत्रो ममाद्भुतः

॥८॥

पश्यति स्म पुनः सोऽमुं चारूवक्त्रं सुलोचनम् ।

चारूरूक्माङ्गदं चारु मुकुटं चारूनूपुरम्

॥९॥

चारूणा कटिसूत्रेण राजत्कटितटं सुतम् ।

पप्रच्छ तं मुनिः कोऽसि कस्यासि किञ्चिकीर्षसि

॥१०॥

क्व च ते पितरौ स्थानं दद तेजोनिधेऽर्भक ।

क उवाच ।

श्रुत्वेत्थं वचनं तस्य जगाद बालको मुनिम्

॥११॥

बालक उवाच

भुतभाविभवज्ज्ञानी किं मां त्वं परिपृच्छसि ।

तथाऽप्याज्ञावशो वच्मि क्षुतात् तव जनिर्मम

॥१२॥

त्वमेव जनको माता कृपां कुरू ममोपरी ।

पालयस्य पितर्मां त्वं दिनानि कतिचिन्मुने

॥१३॥

त्रैलोक्याक्रमणे शक्तो देवेन्द्र वशवर्तिनम् ।

करिष्यामि न सन्देहो वीक्ष्यसे पौरूषं मम

॥१४॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्य भयहर्षसमन्वितः ।

उवाच श्लक्ष्णया वाचा मुनिर्गृत्समदो वचः

॥१५॥

यद्ययं जातमात्रोऽपि शक्तस्त्रैलोक्यकर्षणे ।

तस्मादस्य प्रदास्यामि स्वं मन्त्र स्वात्मजस्य हि

॥१६॥

येनास्य वाञ्छितं देवः परितुष्टो विनायकः ।

प्रदास्यति जगन्नाथो मम कीर्तिर्भविष्यति

॥१७॥

एवं सञ्चित्य मनसा तस्मै स्वं मन्त्रमादिशत् ।

गणानां त्वेति तं चाह कुर्वनुष्ठानमादरात्

॥१८॥

जपस्व वैदिकं मन्त्र चित्तं स्थाप्य गजानने ।

सन्तुष्टस्ते यदा पुत्र सर्वान् कामान् प्रदास्यति

॥१९॥

एवं प्राप्तमहामन्त्रो जगाम तपसे वनम् ।

एकाङ्गुष्ठेनाऽवतस्थे निराहारो जितेन्द्रियः

॥२०॥

ध्यायन् गजाननं देवं मनसा निश्चेलन सः ।

जपतस्तस्य वर्षाणि सार्धायुतमितानि च

॥२१॥

गतानि तस्य मुखतो बभूवाग्निर्दिशो ज्वलन् ।

भयं बभूव देवानां दैत्याना तलवासिनाम्

॥२२॥

ततस्तत्तपसा तुष्ट आविरासीद् गजाननः ।

दिशो वितिमिराः कुर्वंश्छादयन् भानुमण्डलम्

॥२३॥

भ्रामयन् पुष्करं चारू सुविषाणं मुदायुतः ।

तद् बृंहितरवं श्रुत्वा बालको विव्हलन्निव

॥२४॥

उन्मील्य नेत्रे सोऽपश्यद्देवन्तं पुरतः स्थितम् ।

चतुर्भुजं महाकायं नानाभूषाविभूषितम्

॥२५॥

परशुं कमल माला मोदकान् बिभ्रतङ्करैः ।

तेजसा धर्षितस्तस्य धैर्यं कृत्वा ननाम सः

॥२६॥

बद्धाञ्जलिपुटो भूत्वा प्रार्थयामास तं विभुम् ।

बालक उवाच ।

किं मां धर्षयसे देव भक्तं त्वां शरणागतम्

॥२७॥

भव सौम्यतरो देव देहि मेऽखिलवाञ्छितम् ।

ब्रह्मोवाच ।

इत्याकर्ण्य वचस्तस्य सञ्जहार स्वकं महः

॥२८॥

उवाच परमप्रीतो सावधान भवार्भक ।

यं ध्यायसि दिवारात्रौ सोऽहं ते वरदोऽधुना

॥२९॥

ममेदं परमं रूपं स्वप्रकाशं जगन्मयम् ।

न विदुर्ब्रह्मरूद्राद्याः कुतो वेत्स्यन्ति मानवाः

॥३०॥

देवाश्च मुनयः सर्वे न च राजर्षयोऽपरे ।

नासुराः सिद्धगन्धर्वा न नागा न च दानवाः

॥३१॥

सोऽहं तव तपोबद्धो वरं दातुमिहागतः ।

वरयस्व वरान्मत्तो यान्यांस्त्वं मनसेच्छसि

॥३२॥

स उवाच ततो बालो धन्योऽहं तव दर्शनात् ।

पिता धन्यतरो मेऽद्य सार्थकं जन्म मे तपः

॥३३॥

स्तुतिं कर्तुं न जानामि बालभावात्सुरेश्वर ।

यतस्त्वं सर्वजगतां कर्ता पाताऽपहारकः

॥३४॥

त्वद्भासा भासयत्येष रविरग्निश्च चन्द्रमाः ।

चराचरं चेतयसे स्वमाहात्म्यान् महामतेः

॥३५॥

महिमानं महान्तं ते केशा अपि न वै विदुः ।

यदि मे वरदोऽसि त्वं तन्मे देदि गजानन

॥३६॥

त्रैलोक्याकर्षणे शक्तिं विशिष्टां देहि मे विभो ।

देवदानवगन्धर्वमनुष्योरगराक्षसा

॥३७॥

वश्या मम सदा सन्तु मुनिकिन्नरचारणाः ।

मनसा चिन्तितं यन्मे तत्तत् सिध्यतु सर्वदा

॥३८॥

इन्द्रादयो लोकपालाः सेवां कुर्वन्तु मे सदा ।

इह भोगाननेकान्मे मुक्तिं चान्ते प्रयच्छ च

॥३९॥

अन्यं च ते वरं याचे पुरमेतत् तवाज्ञया ।

प्रथां यातु यतश्चात्र तपमुग्रं तपो मया

॥४०॥

गणेशपुरमिति च ख्याति यातु जनेष्टदम् ।

गणेश उवाच ।

त्रयाणामपि लोकानामाक्रमं त्वं करिष्यसि

॥४१॥

सर्वेभ्यो न भयं तेऽस्ति सर्वे वश्याश्च ते सदा ।

आयसं काञ्चनं रौप्यं मया दत्तं पुरत्रयम्

॥४२॥

अभेद्यं सर्वदेवानां कामगं शङ्करं विना ।

त्रिपुरेति च ते नाम ख्यातिं लोके गमिष्यति

॥४३॥

यदैकेन च बाणेन शिवो भेत्स्यति ते पुरम् ।

तदैव यास्यसे मुक्तिं नात्र कार्या विचारणा

॥४४॥

अन्यत्ते वाञ्छितं सर्व मत्प्रसादाद्भविष्यति ।

ब्रह्मोवाच ।

दत्त्वेत्थं स वरान्देवस्तत्रैवाऽन्तर्दधे विभुः ।

विषादमगमद्देव वियोगात् त्रिपुरासुरः

॥४५॥

हर्ष च विपुलं लेभे वरान्प्राप्य यथेप्सितान् ।

त्रैलोक्यविजयं कर्तुं यतते स्म ततो बलात्

॥४६॥

इति श्रीगणेशपुराणे उपासनाखण्डे त्रिपुरासुरवरप्रदानं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ३८ ॥