श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रकथनन्नाम षट्चत्वारिंशोऽध्यायः
व्यास उवाच
कथं नाम्नां सहस्रं तद् गणेश उपदिष्टवान् ।
शिवायैतन्ममाचक्ष्व लोकानुग्रह तत्पर
॥१॥ब्रह्मोवाच
देवः एवं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल
॥२॥मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधी
॥३॥विघ्नप्रशमनोपायमपृच्छदपराजितः ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम्
॥४॥सर्वविघ्नैकहरणं सर्वकामफलप्रदम् ।
ततस्तमै स्वकं नाम्नां सहस्रमिदमब्रवीत्
॥५॥अस्य श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रमालामहामन्त्रस्य गणेशऋषिः ।
श्रीमहागणपतिर्देवता ।
श्रीस्वानन्देशो ब्रह्मणस्पतिर्देवता ।
नानाविधानिच्छन्दासि ।
गमिति बीजम् ।
तुण्डमिती शक्तिः ।
स्वाहाशक्तिरिति कीलकम् ।
सकलविघ्नविनाशनद्वारा श्रीब्रह्मणस्पतिप्रीत्यर्थे (महागणपतिप्रीत्यर्थं) जपे विनियोगः ।
अथ न्यासाः ।
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ।
कुमारगुरुरीशानेति तर्जनीभ्यां नमः ।
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तोरक्ताम्बरधर इत्यनामिकाभ्यां नमः ।
सर्वसद्गुरुसंसेव्य इतिकनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः सुभक्तामिति करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासाः ।
छन्दश्च्छन्दोवपुरिति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानन्दं इति कवचाय हुम् ।
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनन्तशक्तसहित इत्यस्त्राय फट् ।
इति दिग्बन्धः ।
अथ ध्यानम् ।
रक्ताम्भोधिस्थपोतोल्लसदरूणसरोजाधिरुढं त्रिनेत्रम् पाशं चैवाङ्कुशाख्यं परशुमभयदं बाहुभिर्धारयन्तम् ।
शक्त्या युक्तं गजास्यं पृथुतरजठरं सिद्धिबुद्धीसमेतं रक्तं चन्द्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ॥
श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रीस्वानन्देशाय ब्रह्मणस्पतये साङ्गाय सपरिवाराय सशक्तिकाय सायुधाय सवाहनाय सावरणाय नमः ।
इति नाममन्त्रेण मानसः पञ्चोपचारैः सम्पूज्य पठेत् ।
श्रीमहागणपतिरूवाच ।
अस्य श्रीमहागणपतिदिव्यसहस्रनामस्तोत्रमालामहामन्त्रस्य गणेशऋषिः ॥
महागणपतिर्देवता ॥
नानाविधानिच्छन्दांसि ॥
गं इति बीजम् ॥
तुण्डं इति शक्तिः ॥
स्वाहा कीलकम् ॥
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः ।
श्रीमहागणपतिरूवाच ।
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदंष्ट्रो वक्रतुण्डो गजवक्त्रो महोदरः
॥६॥लम्बोदरो धम्रवर्णो विकटो विघ्ननायकः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः
॥७॥भीमः प्रमोद आमोदः सुरानन्दो महोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः
॥८॥नन्दनोऽलम्पटोऽभीरुः मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो धीरशूरो वरप्रदः
॥९॥महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः
॥१०॥कुमार गुरुरीशान पुत्रो मूषकवाहनः ।
सिद्धि प्रियः सिद्धिपतिः सिद्धिः सिद्धिविनायकः
॥११॥अविघ्नस्तुम्बरुः सिंहवाहनो मोहिनीप्रियः ।
कटङ्कटो राजपुत्रः शाकलः सम्मितोऽमितः
॥१२॥कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः
॥१३॥विश्वकर्ता विश्वमुखो विश्वरुपो निधिर्घृणिः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः
॥१४॥ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तस्थः सूयमण्डलमध्यगः
॥१५॥कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपालनः
॥१६॥किरीटी कुण्डलीहारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः
॥१७॥सद्योजातःस्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नप्रहृत् प्रसहनो गुणीनादप्रतिष्ठितः
॥१८॥सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः
॥१९॥चित्राङ्कश्यामदशनो भालचन्द्रो चतुर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः
॥२०॥गणाधिराजो विजयस्थिरो गजपतिर्ध्वजी ।
देवदेवः स्मरप्राणो दीपको वायुकीलकः
॥२१॥विपश्चिद्वरदोनादोन्नादभिन्न बलाहकः ।
वराहरदनो मृत्युजयो व्याघ्राजिनाम्बरः
॥२२॥इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः
॥२३॥शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः
॥२४॥यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्द्धा ककुप्श्रुतिः
॥२५॥ब्रह्माण्डकुम्भश्विद्व्योमभालः सत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्क सोमदृक्
॥२६॥गिरीन्द्रैकरदो धर्मोधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिव्हो वासवनासिकः
॥२७॥भ्रूमध्यसंस्थितकरो ब्रह्मविद्या मदोत्कटः ।
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः
॥२८॥नदीनदभजः सर्पाङ्गुलीकस्तारकानखः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः
॥२९॥कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्द्रस्रजानुकः
॥३०॥पातालजङ्घो मुनिपात् कालाङ्गुष्ठस्रयीतनुः ।
ज्योतिर्मण्डललाङ्गुलो हृदयालाननिश्चलः
॥३१॥हत्पद्मकर्णिकाशालिवियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः
॥३२॥प्रतापी कश्यपसुतो गणपो विष्टपी बली ।
यशस्वी धार्मिकः स्वोजा प्रथमः प्रथमेश्वरः
॥३३॥चिन्तामणिद्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः
॥३४॥तीव्राशिरोघृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीः भोगदाभूषितासनः
॥३५॥सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः
॥३६॥सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः ।
लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः
॥३७॥उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः
॥३८॥निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः
॥३९॥भग्नवामरदस्तुङ्ग सव्यदन्तो महाहनुः ।
हृस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः
॥४०॥स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान्
॥४१॥सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्षोदराबन्धः सर्पराजोत्तरीयकः
॥४२॥रक्तो रक्ताम्बरधरो रक्तमाल्यविभूषणः ।
रक्तेक्षणो रक्तकरो रक्ततात्वोष्ठपल्लवः
॥४३॥श्वेतःश्वेताम्बरधरः श्वेतमाल्यविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः
॥४४॥सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः
॥४५॥सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदैककरःशार्ङ्गी बीजपूरी गदाधरः
॥४६॥शुक्लाङ्गो लोकसुखदः सुतन्तुस्तन्तुवर्धनः ।
किरीटी कुण्डलीहारी वनमाली शुभांगदः
॥४७॥इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलःशालीमञ्जरीभृत्स्वदन्तभृत्
॥४८॥कल्पवल्लीधरो विश्वाभयदैककरोवशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः
॥४९॥पूर्णपात्री कम्बुधरो विधृतालिसमूहकः ।
मातुलिङ्गधरश्चूतकलिकाभृत् कुठारवान्
॥५०॥पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः
॥५१॥महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः
॥५२॥महिवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्रमोदनः
॥५३॥समेधितसमृद्धि श्रीर्रिद्धिसिद्धिप्रवर्त्तकः ।
दत्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः
॥५४॥मदनावत्याश्रिताङ्घ्रिः कृतदौर्मुख्यदुर्मुखः ।
विघ्नसम्पल्लवोपघ्नः सेवोन्निद्रमदद्रवः
॥५५॥विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः ।
(शक्तिसंवृतः) तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक्
॥५६॥मोहिनीमोहनो भोगदायिनी कान्तिमण्डितः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः
॥५७॥(युक्तश्रीस्तेजिन्यधिष्ठितैकदृक्) वसुन्धरामदोन्नद्ध महाशङ्खनिधिप्रभुः ।
(निधिप्रियः) नमद्वसुमतीमौलिमहापद्मनिधिप्रभुः
॥५८॥सर्वसद्गुरूसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः
॥५९॥अग्रप्रत्यग्रनयनो दिव्यास्त्राणां प्रयोगवित् ।
ऐरावतादिसर्वाशावावारणावरणप्रियः
॥६०॥वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरीवारो विजयाविजयावहः
॥६१॥अजितार्चितपादाब्जो नित्यानित्यावतंसितः ।
विलासिनीकृतोल्लासःशौण्डीसौन्दर्यमण्डितः
॥६२॥अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः
॥६३॥सुभगासंश्रीतपदः ललिताललिताश्रयः ।
कामिनीकामनः काममालिनीकेलिलालितः
॥६४॥सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः
॥६५॥नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः
॥६६॥विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः
॥६७॥उच्छिष्टगण उच्छिष्टगणेशो गणनायकः ।
सार्वकालिकसंसिद्धिः नित्यशैवो दिगम्बरः
॥६८॥अनापायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ।
अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरम्
॥६९॥अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः ।
अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः
॥७०॥अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठः आधारः आधाराधेयवर्जितः
॥७१॥आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थः इक्षुभक्षणलालसः
॥७२॥इक्षुचातिरेकश्रीरिक्षुचापनिषेवितः
॥७३॥इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ।
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः
॥७४॥इध्मप्रिय इडाभाग इडाधामेन्दिराप्रियः ।
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः
॥७५॥ईशानमौलिरीशान ईशानसुत ईतिहा ।
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः
॥७५॥उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ।
उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणीः
॥७७॥ऊर्जस्वान् ऊष्मलमद ऊहापोहदुरासदः ।
ऋग्यजुः सामसम्भूतिर्रिद्धिसिद्धिप्रवर्तकः
॥७८॥ऋजुचित्तैकसुलभ ऋणत्रयविमोचकः ।
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिःसुरद्विषाम्
॥७९॥लुप्तश्रीर्विमुखार्चानांलूताविस्फोटनाशनः ।
एकारपीठमध्यस्थ एकपादकृतासनः
॥८०॥एजिताखिलदैत्य श्रीरेजिताखिलसंश्रय ।
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः
॥८१॥ऐरम्मदसमोन्मेष ऐरावतनिभाननः ।
ॐकारवाच्य ॐकार ओजस्वानोषधीपतिः
॥८२॥औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिःस्वनः ।
अङ्कुशःसुरनागानामङ्कुशःसुरविद्विषाम्
॥८३॥अःसमस्तविसर्गान्त पदेषु परिकीर्तितः ।
कमण्डलुधरः कल्पः कपर्दी कलभाननः
॥८४॥कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ।
कदम्बगोलकाकारःकूष्माण्डगणनायकः
॥८५॥कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ।
खर्वःखड्गप्रियःखड्ग खातान्तस्थःखनिर्मलः
॥८६॥खल्वाटशृङ्गनिलयःखट्वाङ्गी खदुरासदः ।
गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः
॥८७॥गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ।
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः
॥८८॥गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ।
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः
॥८९॥ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ।
चण्डश्चण्डेश्वरसुहृत् चण्डीशश्चण्डविक्रमः
॥९०॥चराचरपतिश्चिन्तामणिश्चर्वणलालसः ।
छन्दश्छन्दोवपुश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः
॥९१॥जगद्योनिर्जगत्साक्षी जगदीशोजगन्मयः ।
जपोजपपरो जाप्यो जिह्वासिंहासनप्रभुः
॥९२॥झलझ्झल्लोल्लसद्दानझङ्कारिभ्रमराकुलः ।
टङ्कारस्फारसंरावष्टङ्कारिमणिनूपुरः
॥९३॥ठद्वयीपल्लवान्तस्थःसर्वमन्त्रैकसिद्धिदः ।
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः
॥९४॥ढक्कानिनादमुदितो ढौकौ ढुण्ढिविनायकः
॥९५॥तत्त्वानां परमं तत्त्वं तत्त्वं पदनिरूपितः ।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः
॥९६॥स्थाणुःस्थाणुप्रियःस्थातास्थावरं जङ्गमं जगत् ।
दक्षयज्ञप्रमथनो दाता दानवमोहनः
॥९७॥दयावान् दिव्यविभवो दण्डभृद्द्ण्डनायकः ।
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः
॥९८॥दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः ।
धनधान्यपतिर्धन्यो धनदो धरणीधरः
॥९९॥ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारब्रह्माण्डावलिमेखलः
॥१००॥नन्दो नन्दिप्रियो नादो नादमध्ये प्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः
॥१०१॥परंव्योम परंधाम परमात्मा परंपदम् ।
परात्परः पशुपतिः पशुपाशविमोचकः
॥१०२॥पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ।
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः
॥१०३॥प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ।
फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः
॥१०४॥बाणार्चिताङ्घ्रियुगुलो बालकेलीकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः
॥१०५॥बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः
॥१०६॥भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ॥
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः
॥१०७॥भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः
॥१०८॥मेखवान् मन्दगतिर्मतिमत्कमलेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः
॥१०९॥यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याचकप्रियः
॥११०॥रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ॥
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः
॥१११॥लक्ष्यं लक्ष्यप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः ॥
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः
॥११२॥वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ॥
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः
॥११३॥वामदेवो विश्वनेता वज्रिवज्रनिवारणः ॥
विश्वबन्धन विष्कम्भाधारो विश्वेश्वरः विभुः
॥११४॥शब्दब्रह्मशमप्राप्यः शम्भुशक्तिगणेश्वरः ॥
शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः
॥११५॥षड् ऋतुकुसुमस्रग्वी षडाधारः षडक्षरः ॥
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम्
॥११६॥सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदनः ॥
सिन्दूरितमहाकुम्भः सदसद्व्यक्तिदायकः
॥११७॥साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः ॥
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी
॥११८॥हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ॥
हव्यं हुतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः
॥११९॥क्षेत्राधिपः क्षमाभर्ता क्षमापरपररायणम् ॥
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः
॥१२०॥धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ॥
विद्याप्रदो विभवदो भुक्तिमुक्तिप्रदायकः
॥१२१॥आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ॥
सर्ववश्यकरो गर्भदोषहापुत्रपौत्रदः
॥१२२॥मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥
श्रीशोकहारी दौर्भाग्यनाशनः सर्वशक्तिभृत्
॥१२३॥प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ।
पराभिचारशमनो दुःखभञ्जनकारकः
॥१२४॥लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ।
घटीमुहूर्त प्रहरो दिवानक्तमहर्निशम्
॥१२५॥पक्षोमासोऽयनं वर्षं युगं कल्पोमहालयः ।
राशिस्तारा तिथिर्योगो वारः करणमंशकम्
॥१२६॥लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ।
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः
॥१२७॥कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं च यत् ।
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान्
॥१२८॥ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ।
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः
॥१२९॥साध्या विद्याधर भूता मनुष्याः पशवः खगाः ।
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः
॥१३०॥साङ्ख्यं पातञ्जलं योगः पुराणानि श्रुतिः स्मृतिः ।
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः
॥१३१॥आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ।
वैखानसं भागवतं सात्वतं पाञ्चरात्रकम्
॥१३२॥शैवं पाशुपतं कालमुखं भैरवशासनम् ।
शाक्तं वैनायक सौरं जैनमार्हतसंहिता
॥१३३॥सदसद् व्यक्तमव्यक्तं सचेतनमचेतनम् ।
बन्धो मोक्षः सुखं भोगोऽयोगः सत्यमणुर्महान्
॥१३४॥स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड्वौषड्वषण्नमः ।
ज्ञानं विज्ञानमानन्दो बोधः संविच्छमो यमः
॥१३५॥एक एकाक्षराधार एकाक्षरपरायणः ।
एकाग्रधीरेकवीर एकानेकस्वरूपधृक्
॥१३६॥द्विरूपो द्विभुजो द्व्यक्षो द्विरदोद्वीपरक्षकः ।
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः
॥१३७॥त्रिधामास्त्रिकरस्रेतात्रिवर्गफलदायकः ।
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः
॥१३८॥चतुर्बाहुश्चतुर्दतश्चतुरात्मा चतुर्मुखः ।
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः
॥१३९॥चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ।
चतुर्थीपूजनप्रीतः चतुर्थीतिथि सम्भवः
॥१४०॥पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्य पञ्चकृत्यकृत् ।
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः
॥१४१॥पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः ।
पञ्चब्रह्ममयस्फूर्तिः पञ्चवारणवारितः
॥१४२॥पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः ।
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः
॥१४३॥षडध्वध्वान्तविध्वंसी षडङ्गुलमहाहृदः ।
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः
॥१४४॥षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ।
षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः
॥१४५॥सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ।
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः
॥१४६॥सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः ।
सप्तच्छन्दोनिधीः सप्तहोता सप्तस्वराश्रयः
॥१४७॥सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ।
सप्तच्छन्दोमोदमदः सप्तच्छन्दोमखप्रभुः
॥१४८॥अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम् ।
अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः
॥१४९॥अष्टशक्तिसमृद्धश्रीरष्टैश्वर्यप्रदायकः ।
अष्ठपीठोपपीठश्रीरष्टमातृसमावृतः
॥१५०॥अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ।
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः
॥१५१॥नवनागासनाध्यासी नवनिध्यनुशासिता ।
नवद्वारपुराधारो नवद्वारनिकेतनः
॥१५२॥नवनारायणस्तुत्यो नवदुर्गानिषेवितः ।
नवनाथमहानाथो नवनागविभूषणः
॥१५३॥नवरत्नविचित्राङ्गो नवशक्तिशिरोधृतः ।
दशात्मको दशभुजो दशदिक्पतिवन्दितः
॥१५४॥दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ।
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः
॥१५५॥एकादशमहारुद्रैः स्तुतएकादशाक्षरः ।
द्वादशोद्द्ण्डदोर्दण्डो द्वादशान्तनिकेतनः
॥१५६॥त्रयोदशभिदाभिन्न विश्वेदेवाधिदैवतम् ।
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः
॥१५७॥चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः ।
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः
॥१५८॥षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशान्तपदावासः षोडशेन्दुकलात्मकः
॥१५९॥कलासप्तदशीसप्तदशः सप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत्
॥१६०॥अष्टादशौषधिसृष्टिरष्टादशविधिस्मृतः ।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः
॥१६१॥एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ।
चतुर्विंशतितत्त्वात्मा पञ्चविशाख्य पूरुषः
॥१६२॥सप्तविंशतितारेशः सप्तविंशतियोगकृत् ।
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाहृदः
॥१६३॥षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलातनुः ।
नमदेकोनपञ्चाशन्मरुद्वर्गोनिरर्गलः
॥१६४॥पञ्चाशदक्षरश्रेणीः पञ्चाशद्रुद्रविग्रहः ।
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः
॥१६५॥द्विपञ्चाशद्वपुःश्रेणीस्त्रिषष्टयक्षरसंश्रयः ।
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः
॥१६६॥चतुःषष्टिमहासिद्धयोगिनीवृन्दवन्दितः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः
॥१६७॥चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकःप्रभुः ।
शतानन्दः शतधृतिः शतपत्रायतेक्षणः
॥१६८॥शतानीकः शतमखः शतधारवरायुधः ।
सहस्रपत्रनिलयः सहस्रफणभूषणः
॥१६९॥सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः
॥१७०॥दशसहस्रफणिभृत् फणिराजकृतासनः ।
अष्टाशीतिसहस्रौघमहर्षिस्तोत्रयन्त्रितः
॥१७१॥लक्षाधीशप्रियाधारो लक्षाधीशमनोमयः ।
चतुर्लक्षजपप्रीतः चतुर्लक्षप्रकाशितः
॥१७२॥चतुराशीतिलक्षाणां जीवानां देहसंस्थितः ।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः
॥१७३॥शिवाभवाध्युष्टकोटिविनायकधुरन्धरः ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः
॥१७४॥त्रयस्त्रिंशत् कोटिसुरश्रेणी प्रणतपादुकः ।
अनन्तदेवतासेव्यो ह्यनन्तमुनिसंस्तुतः
॥१७५॥अनन्तानामानन्तश्रीरनन्तानन्तसौख्यदः ।
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ।
अनन्तमुनिसंस्तुत ॐ नम इति ।
ॐ इति वैनायकं नाम्नां सहस्रमिदमीरितम्
॥१७६॥इदं ब्राह्मेमुहूर्ते वै यः पठेत् प्रत्यहं नरः ।
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम्
॥१७७॥आयुरारोग्यमैश्वर्यं धैर्य शौर्य बलं यशः ।
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता
॥१७८॥सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ।
जगत्संयमनं विश्वसंवादो वादपाटवम्
॥१७९॥सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥
औन्नत्यंच कुलं शीलं प्रतापो वीर्यमार्यता
॥१८०॥ज्ञानं विज्ञानमास्तिक्यं धैर्यं विश्वातिशायिता ।
धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत्
॥१८१॥वश्यं चतुर्विधं नॄणां जपादस्य प्रजायते ॥
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः
॥१८२॥जप्येत यस्य वश्यार्थे स दासस्तस्य जायते ॥
धर्मार्थकाममोक्षणामनायासेन साधनम्
॥१८३॥शाकिनीडाकिनीरक्षोयक्षोरगभयापहम् ॥
साम्राज्यसुखदं चैव समस्तरिपुमर्दनम्
॥१८४॥समस्तकलहध्वंसी दग्धबीजप्ररोहणम् ।
दुःस्वप्नप्रशमनं क्रुद्धस्वामिचित्तप्रसादनम्
॥१८५॥षट्कर्माष्टमहासिद्धित्रिकालज्ञानसाधनम् ।
परकृत्योपशमनं परचक्रविमर्दनम्
॥१८६॥संग्रामरङ्गे सर्वेषामिदमेकं जयावहम् ॥
सर्ववन्ध्यात्वदोषघ्नं गर्भरक्षैककारणम्
॥१८७॥पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥
देशे तत्र न दुर्भिक्षरमीतयो दुरितानि च
॥१८८॥न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥
क्षयकुष्ठप्रमेहार्शो भगन्दरविषूचिकाः
॥१८९॥गुल्मं प्लीहानमश्मान मतिसारं महौदरम् ॥
कासं श्वासमुदावर्त्तं शूलं शोफादिसम्भवम्
॥१९०॥शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम्
॥१९१॥आगन्तुं विषमं शीतमुष्णं चैकाहिकादिकम् ॥
इत्याद्युक्तमनुक्तं वा रोग दोषादिसम्भवम्
॥१९२॥सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥
सकृत्पाठेन संसिद्धः स्त्रीशूद्रपतितैरपि
॥१९३॥(प्राप्यतेऽस्य जपात् सिद्धिः स्त्रीशूद्रपतितैःसकृत्
॥१९३॥) सहस्रनाममन्त्रोऽयं जप्तव्यस्तु शुभाप्तये ॥
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम्
॥१९४॥इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः
॥१९५॥चन्द्रेद्रभास्करोपेन्द्रब्रह्मरुद्रादिसद्मसु ॥
कामरूपः कामगतिः कामतो विचरन्निह
॥१९६॥भुक्त्वा यथेप्सितान् भोगानभीष्टैः सहबन्धुभिः ।
गणेशानुचरो भूत्वा महागणपते प्रियः
॥१९७॥नन्दीश्वरादिसानन्दी नन्दितः सकलैर्गणैः ॥
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः
॥१९८॥शिवभक्तः पूर्णकामो गणेश्वरवरात् पुनः ॥
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते
॥१९९॥निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥
योगसिद्धिं परां प्राप्य ज्ञानवैराग्य संस्थितः
॥२००॥निरन्तरोदितानन्दे परमानन्दसंविदि ॥
विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते
॥२०१॥लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः ॥
यो नामभिः सहस्रैर्मामर्चयेतद् पूजयेन्नरः
॥२०२॥राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ।
मन्त्राःसिद्ध्यन्ति सर्वेपि सुलभास्तस्य सिद्धयः
॥२०३॥मूलमन्त्रादपि स्तोत्रमिदं प्रियतरं मम ॥
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि
॥२०४॥दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ।
अष्टद्रव्यैर्विशेषेण जुहयाद् भक्तिसंयुतः
॥२०५॥तस्येप्सिता निसर्वाणि सिद्ध्यन्त्यत्र न संशयः ।
इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम्
॥२०६॥व्याकृतं चर्चितं ध्यातं विमृष्टमभिनन्दितम् ॥
इहामुत्रच सर्वेषां सर्वैश्वर्यप्रदायकम्
॥२०७॥स्वच्छन्दचारिणाऽप्येष येनायं धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरप्यष्टकोटिभिः
॥२०८॥पुस्तके लिखितं स्तोत्रं मन्त्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम्
॥२०९॥दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखश्च ।
न तत्फलं विन्दति यद् गणेशसहस्रनाम्नां स्मरणेन सद्यः
॥२१०॥एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति प्रत्यूहं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः
॥२११॥अकिञ्चनोऽप्येकचित्तो नियतो नियताशनः ।
जपेत्तु चतुरो मासान् गणेशार्चनतत्परः
॥२१२॥दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी
॥२१३॥आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तदानाः कीर्तिर्नित्यावदाता भणतिरभिनवा कान्तिरव्याजभव्या ।
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम्
॥२१४॥ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः
॥२१५॥अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः शिवः
॥२१६॥काश्यपो नन्दनो वाचा सिद्धो ढुण्ढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान्
॥२१९॥उपायनं ददेद् भक्त्यामत्प्रसादं चिकीर्षति ।
वत्सरं विघ्नराजस्य तथ्यमिष्टार्थसिद्धये
॥२१८॥यः स्तौति मद्गतमना मदाराधतत्परः ।
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः
॥२१९॥नमो नमः सुरवरपूजिताङ्घ्र्ये नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलकरैकसिद्धये नमो नमः करिकलभाननाय ते
॥२२०॥गणपाजेश हेरम्ब द्वैमातुर गजानन ।
भालेन्दो धूमकृद् भानो लम्बोदर विनायक
॥२२१॥ब्रह्मैकदन्त विघ्नेश विष्णो कपिल निर्गुण ॥
कालाद्य सिद्धिदानन्त त्राहि मां भवसागरात्
॥२२२॥किङ्किणीगणरचितस्तवचरणः प्रकटितगुरुमितिचारित्रगणः ।
मदजललहरीकरितकपोलः शमयतु दुरितं गणपतिनृपनाम्ना
॥२२३॥इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरमहागणपतिसंवादे श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रकथनन्नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥