मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 89

3
उपासनाखण्डः · 89

एकोननवतितमोऽध्यायः

गणेश उवाच

यद् यत् ते प्रार्थितं काम तत् तत् ते भविताऽखिलम् ।

रमोदराज्जनिं प्राप्य साङ्गस्त्वं सर्वसुन्दरः

॥१॥

भविता सर्वमान्यश्च त्रैलोक्यविजयी तथा ।

पुष्पं फलं किसलयं कामिन्यवयवा मरुत्

॥२॥

उद्बोधकानि ते सन्तु ज्योत्स्ना चन्दननीरजे ।

मरालाण्डजशब्दश्च जेतास्येतैर्हरादिकान्

॥३॥

दर्शनात् स्मरणादेषां मनस्यपि भविष्यसि ।

मनोभूः स्मृतिभूरेवं नामापि स्याज्जनेषु ते

॥४॥

अविस्मृतिर्मच्चरणे दृढा भक्तिश्च ते भवेत् ।

स्मृतोऽहं पुरतः स्यां ते महत्कार्य उपस्थिते

॥५॥

ब्रह्मोवाच

एवं तस्मै वरान् दत्त्वा कामायाऽथ गजाननः ।

अन्तर्दधे महाभाग पश्यत्सु च सुरर्षिषु

॥६॥

तत्र कामो महामूर्तिं गणेशस्य तथाविधाम् ।

सम्पाद्य स्थापयामास पूजयामास तां तदा

॥७॥

रतिनिर्मितपक्वान्नैर्मोदकैः लड्डुकादिभिः ।

महोत्कटेति नामास्य तेजस्वित्वात् तथाऽकरोत्

॥८॥

प्रासादं निर्ममे कान्तं रत्नस्तम्भविराजितम् ।

रूक्मिण्या उदराज्जातस्त्यक्तो दैत्येन वारिधौ

॥९॥

मत्स्येन गिलितस्तत्र स मत्स्यो धीवरैस्ततः ।

शम्बरायार्पितेनापि मायावत्यै निवेदितः

॥१०॥

विभिन्नेऽस्मिंस्तदुदरान्निर्गतो वर्द्धितस्तया ।

नारदोऽकथयत्तस्यै कामोऽयं वर्द्धितस्त्वया

॥११॥

उपदिष्टोऽनेकमायाः शम्बरं स ततोऽवधीत् ।

गणेशस्य प्रसादेन बहुनेको व्यजिग्यत

॥१२॥

मायावत्या शिक्षिताभिर्मायाभिर्बहुभिश्च सः ।

प्रद्युम्न इति विख्यातः सरस्वत्याः पुरं ययौ

॥१३॥

सर्वदेवेषु मान्यश्च त्रैलोक्यजयकारकः ।

गजाननप्रसादेन बभूवाऽऽनन्दनिर्वृतः

॥१४॥

रुक्मिणिप्रभृतिस्त्रीभिर्दृष्टः कृष्ण इवापरः ।

तत उत्थाय याताभिर्लज्जिताभिः समन्ततः

॥१५॥

बुद्धा पुत्रं नारदस्य वाक्येन मुमुदुश्च ताः ।

आलिलिङ्गुस्तमभ्येत्य प्रणनाम रतिश्च ताः

॥१६॥

सर्वा पुरी हर्षयुता तस्मिन् ज्ञाते बभूव सा ।

क उवाच ।

एवं जनस्थानगत गणेशस्य महामुने

॥१७॥

महिमा कथितो यत्र रामेणाच्छेदि नासिका ।

शूर्पणख्यास्ततस्तत्तु नाम्ना ख्यातं तु नासिकम्

॥१८॥

तत्राद्यापि हि दृश्यन्त उपला मोदका इव ।

एवं नाराधितस्तेन कामेनासौ गजाननः

॥१९॥

षडक्षरेण मन्त्रेण शेषेणाराधितो यथा ।

रतिश्च मदनश्चापि ननन्दतुरुभौ यथा

॥२०॥

व्यास उवाच

कथमाराधितों ब्रह्मन् शेषेणासौ गजाननः ।

किमर्थं किं च तेनाप्तं सुप्रसन्नाद् गजाननात्

॥२१॥

एतत् सविस्तरं ब्रूहि पृच्छतश्चतुरानन ।

प्रष्टुः श्रोतुश्च वक्तुश्च यतः पुण्यं विवर्धते

॥२२॥

ब्रह्मोवाच

सम्यक् पृष्टं त्वया ब्रह्मन् कथयामि कथामृतम् ।

श‍ृणुष्वावहितो भूत्वा सर्वं सत्यवती सुत

॥२३॥

कस्मिंश्चितसमये शम्भुः पार्वत्या सहितो मुने ।

सुखासीनो गिरिवरे रम्यसानुशिलोच्चये

॥२४॥

नानाद्रुमलताकीर्णे निर्झरारावशब्दिते ।

गुञ्जन्ति भ्रमरा यत्र रुक्मपङ्कजवासिनः

॥२५॥

चम्पकाशोकबकुलमालतीकुसुमानिलः ।

आनन्दयति चित्तानि वसतां यस्य शेखरे

॥२६॥

आययुस्तत्र गन्धर्वा अप्सरोयक्षकिन्नराः ।

देवाश्च मुनयो नागास्तं दृष्टुं गिरिजापतिम्

॥२७॥

केचित् तं प्रणिपातेन साष्टाङ्गेनाऽभ्यवादयन् ।

उच्चैर्जगुश्च गन्धर्वा ननृतुश्चाप्सरोगणाः

॥२८॥

पुपूजुस्तं दशभुजं व्याघ्राजिनधरं हरम् ।

नन्दिभृङ्गिगणाकीर्णं भालचन्द्रं त्रिशूलिनम्

॥२९॥

भस्माङ्गं शेषशिरसं शङ्करं वृषभध्वजम् ।

अपरैरर्चितं देवमुपचारैर्मनोमयैः

॥३०॥

निमील्य नयने तस्थुः केचिद्ध्यानपरायणाः ।

वसिष्ठो वामदेवश्च जमदग्निस्त्रितो द्विजः

॥३१॥

अत्रिः कण्वो भरद्वाजो गौतमाद्या मुनीश्वराः ।

तुष्टुवुर्विविधैः स्तोत्रैस्तत्र तं पार्वतीपतिम्

॥३२॥

स्तुवस्तु तेषु मुनिषु शेषो गर्वं परं ययौ ।

अहमेव श्रेष्ठतरो लोकेषु त्रिषु नापरः

॥३३॥

यतः श्रेष्ठतरः शम्भुस्तस्याहं शिरसि स्थितः ।

धराधरणसामर्थ्य मयि नान्यत्र कुत्रचित्

॥३४॥

वासुके रज्जूभूतान् मत्कुलीनादमृतं सुरैः ।

प्राप्तं ततोऽमरत्वं च तस्मान्नान्योऽस्ति मत्परः

॥३५॥

तद् हृदिस्थं तदा गर्वं ज्ञात्वा शम्भूस्त्रिलोककृत् ।

विज्ञायाखिलदृक् तूष्णीमुत्तस्थौ सहसा शिवः

॥३६॥

आस्फालयद् धरापृष्ठे शेषं तादृशगर्वितम् ।

एकैको मस्तकस्तस्य दशधा दशधाऽभवत्

॥३७॥

मूर्छितः प्रहरार्द्धं स गतप्राण इवाभवत् ।

ततः प्रभृत्यसौ जातः सहस्रफणिमण्डितः

॥३८॥

जीवशेषः शुशोचाऽथ शेषोऽशेषाहिभूषणः ।

अलङ्करणभूतोऽहं त्रैलोक्येशहरस्य ह

॥३९॥

इमामवस्थां सम्प्राप्तो न जानें केन कर्मणा ।

चलितुं नैव शक्नोमि पक्षहीन इवाण्डजः

॥४०॥

किं करोमि क्व गच्छामि को मे त्राताऽधुना भवेत् ।

को मे निजपदप्राप्तावुपायं कथयेच्छुभम्

॥४१॥

को वा मेऽपनयेन्दुःखमिति चिन्तापरस्तु सः ।

ददर्श तेन मार्गेण गच्छन्तं नारदं मुनिम्

॥४२॥

जहर्ष किञ्चिन्नागेन्द्रः स्वप्नं प्राप्येव भिक्षुकः ।

अतिकष्टामवस्थां तां नारदोऽलोकयत्पुरः

॥४३॥

निश्चेष्टं निरनुश्वासं ध्याननिष्ठं यथा मुनिम् ।

अशेष विषयज्ञोऽपि शेषं पप्रच्छ नारदः

॥४४॥

इति श्रीगणेशपुराणे उपासनाखण्डे शेषोपाख्यानं नामैकोननवतितमोऽध्यायः ॥ ८९ ॥