तपोवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः
व्यास उवाच
ततः किमकरोच्छम्भुः त्रिपुरेण पराजितः ।
कथं तमजयद्दैत्यं त्रिपुरं जयशालिनम्
॥१॥ब्रह्मोवाच
ततः शम्भुः परां चिन्तामापेदे मनसा स कृत् ।
स्वाहास्वधाविहीनं तु भूतलं परिचिन्तयन्
॥२॥कदा स्वस्थानगा देवा भविष्यन्ति गतज्वराः ।
केनोपायेन वासःस्याद्दुर्जयस्य पराजयः
॥३॥एवं चिन्तातुरे तस्मिन् नारदो मुनिसत्तमः ।
आययो शङ्करं दृष्टं देवान् सर्वान् यदृच्छया
॥४॥तं दृष्ट्वा जहृषे देवो मर्त्यः प्राप्य यथाऽमृतम् ।
पूजयामास विधिवत् कृतासनपरिग्रहम्
॥५॥आलिङ्ग्य तमुवाचेत्थं शिवश्चिन्तातुरो भृशम् ।
देवानां हितमन्विच्छन् दैत्यस्य वधमेव च
॥६॥शिव उवाच
दैत्येन सर्वदेवानां कदनं कृतमोजसा ।
तद्रणे भग्नसङ्कल्पाः सर्वे देवाः पलायिताः
॥७॥याता दश दिशो ब्रह्मन् कः कुत्रास्ते न वेद्म्यहम् ।
ममाप्यत्राणि तेनास्त्रैः प्रभग्नानि सहस्रशः
॥८॥ब्रह्मोवाच
श्रुत्वा शिववचः सोऽमुमवादीन् मुनिसत्तम ।
मन्वानः परमाश्चर्यं त्रैलोक्येशपराभवम्
॥९॥नारद उवाच
सर्वज्ञे सर्वविद्येशे सर्वेशे सर्वकर्तरि ।
सर्वानने सर्वहरे सर्वस्यापि नियन्तरि
॥१०॥शक्ते कर्तुमकर्तुं वाऽन्यथाकर्तुमपि प्रभो ।
अणिमादिगुणोपेते षडैश्वर्यविलासिनि
॥११॥किं वक्तव्यं मया देव सर्ववक्तृवरे त्वयि ।
मुनिना गानसक्तेन त्रिलोकीं भ्रमताऽनिशम्
॥१२॥तव वाक्यानुरोधेन विचार्य प्रब्रवीम्यहम् ।
एवमुक्त्वा क्षणं ध्यात्वा पुनः प्राह शिवं मुनिः
॥१३॥मुनिरुवाच
युद्धाय गन्तुकामेन नार्चितो गणपस्त्वया ।
अतः पराभवं प्राप्तो वन्हिनेत्रः पिनाकधृक्
॥१४॥इदानीमर्चय पुरा विघ्नेशं विघ्नवारणम् ।
प्रसाद्य तद्वरं लब्ध्वा याहि युद्धाय सादरम्
॥१५॥पराजेष्यसि तं दैत्यं नात्र कार्या विचारणा ।
ब्रह्मोवाच ।
तेनापि तपसा देवो महताराधितः पुरा
॥१६॥तेन तस्मै वरो दत्तोऽखिलविघ्नौघहारिणा ।
महेश्वरं विना मृत्युर्न केनापि भवेत्तव
॥१७॥मुनिरुवाच
तस्माद्गिरिश तस्येदं कामगं तु पुरत्रयम् ।
एकेषुणा दारयस्व जयोपायोऽयमीरितः
॥१८॥प्रहर्षमतुलं लेभे श्रुत्वोपायं मुनेः शिवः ।
श्रुत्वा गजाननगिरं पूर्वाक्तां प्राह तं मुनिम्
॥१९॥शिव उवाच
सत्यमुक्तं त्वया ब्रह्मं त्वद्वाक्येन स्मृतं मया ।
उपदिष्टौ पूर्वमेव मन्त्रौ तेन मुने मम
॥२०॥षडक्षरैकाक्षरौ तौ सर्वसङ्कटहारकौ ।
युद्धेव्यासक्तचित्तेन न जप्तौ न च संस्मृतौ
॥२१॥सर्वविघ्नहरो देवो न स्मृतो हि गजाननः ।
सर्वेषां कारणं कर्ता पाता हर्ता विनायकः
॥२२॥मुनिरूवाच
तं तोषय महादेव महादेवं गजाननम् ।
ब्रह्मोवाच ।
विसृज्यं नारदं देवो जगाम तपसे शिवः
॥२३॥दण्डकारण्यदेशे तु पद्मासनस्थितोऽजपत् ।
प्रणिधाय बलात् खानि नियम्य ध्यानतत्परः
॥२४॥सोऽतपत्तप उग्रं तु शतवर्षाणि शङ्करः ।
ततस्तस्य मुखाम्भोजान् निर्गतस्तु पुमान् परः
॥२५॥पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।
मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः
॥२६॥अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वन्दशायुधः ।
तद्भासा धर्षितो देवोऽपश्यदुग्रं पुरःस्थितम्
॥२७॥विनायकं पञ्चमुखं पञ्चास्यमपरं शिवम् ।
तं दृष्ट्वाऽतर्कयद्देवः किमहं द्विविधोऽभवम्
॥२८॥किंवा ममैव रूपेण त्रिपुरोऽयमिहागतः ।
त्रयस्त्रिंशत्कोटिदेवेष्वपरः पञ्चवक्त्रवान्
॥२९॥अथवा स्वप्न एवायं दृष्टो दीर्घतरो मया ।
अथवा मे वरं दातुमागतोऽयं गजाननः
॥३०॥सर्वविघ्नहरं देवं यं ध्यायामि दिवानिशम् ।
ब्रह्मोवाच ।
एवमाकर्ण्य तद्वाक्यं उवाच द्विरदाननः
॥३१॥अन्तर्यस्तर्कितो देवः सोऽयं विघ्नहरो विभुः ।
न मे स्वरूपं जानन्ति देवर्षिचतुरारनाः
॥३२॥न वेदाः सोपनिषदः कुतः षट्शास्त्रवेदिनः ।
अशेषभुवनस्याहं कर्ता पाताऽपहारकः
॥३३॥ब्रह्मादिस्थावरचरत्रिगुणानामहं प्रभुः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः
॥३४॥वरान्वृणु महादेव यावतो मत्त इच्छसि
॥३५॥इति श्रीगणेशपुराणे उपासनाखण्डे तपोवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥