मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 48

3
उपासनाखण्डः · 48

अम्बाविर्भावोनाम अष्टचत्वारिंशत्तमोऽध्यायः

व्यास उवाच

श्रुतं मया महाख्यानं त्रिपुरस्य वधाश्रयम् ।

तथापि श्रोतुमिच्छामि क्व स्थिता जगदम्बिका

॥१॥

कथमाविर्बभूवैषा तिथौ दग्धः क्व दैत्यराट् ।

एतत्सर्वं सविस्तारं कथयस्व पितामह

॥२॥

ब्रह्मोवाच

बाहुले पौर्णमास्यां स सायं दग्धो महासुरः ।

दिवायुद्धं महाघोरं प्रागेव वर्णितं हि तत्

॥३॥

यतोऽर्चितः सुरैः सर्वैर्जयशाली सुरारिहा ।

अतस्तस्यां दीपदानं कुर्वन्ति भुवि मानवाः

॥४॥

तस्यां स्नानं च दानं च जपहोमादिकं च यत् ।

बहुलं जायते यस्मात् तस्मात् सा बाहुली स्मृता

॥५॥

तस्यां ये तु न कुर्वन्ति त्रिपुरारिमहोत्सवम् ।

न लभन्ते जयं क्वापि दग्धपुण्या भवन्ति ते

॥६॥

अतस्तस्यां पौर्णमास्यां प्रातरर्चन्ति ये शिवम् ।

निशि यत्तैः कृतं पापं विलयं प्रतिपद्यते

॥७॥

आजन्मतः कृतं पापं मध्यान्हार्चनतस्तथा ।

सप्तजन्मार्जितं पापं प्रदोषार्चनतो मुने

॥८॥

आविर्भावं शिवायास्त्वं कथ्यमानं मया श‍ृणु ।

तस्य मृत्युं शिवाज्ज्ञात्वां भयादन्तर्हिता शिवा

॥९॥

आविरासीज्जगन्माता हिमाचलगुहामुखात् ।

ददर्श पर्वतं घोरं सिंहव्याघ्रमृगाकुलम्

॥१०॥

अपश्यन्ती शिवं सा तु विरहाकुलमानसा ।

विललाप भृशं भीता हा तात हा शिवेति च

॥११॥

कथं मां न विजानीषे सर्वज्ञः सन् सदाशिव ।

वन एकाकिनीं घोरे क्रन्दन्ती कुररीमिव

॥१२॥

कदा मे दर्शनं ते स्यात् किं मां विस्मृतवानसि ।

शक्ता न जीवितं धर्तुं सोढुं वा विरहं हर

॥१३॥

तात त्त्वमपि कुत्रासि न मे शोकं श्रुणोषि किम् ।

त्वां विना शरणं कं वा यामि किं वा करोम्यहम्

॥१४॥

योजयस्व पुनर्मां त्वं शिवेन च शिवेन च ।

इदानीं पुनरुत्पन्नां जानीहि जठरात् तव

॥१५॥

वरं तमेव शीघ्रं मे गवेषय सदाशिवम् ।

नो चेद् देहपरित्यागं भृगोरस्मात् करोम्यहम्

॥१६॥

क उवाच

एवं रुदन्त्यास्तस्यास्तु श्रुत्वा तां गिरमुत्तमाम् ।

न्यवेदयद्धिमवते कश्चिदागत्य धीवरः

॥१७॥

धीवर उवाच

काचिन्नितम्म्बिनी बाला सर्वाभरणभूषिता ।

ताटके बिभ्रती श्रुत्योर्मण्डले इव भास्वतः

॥१८॥

नानारत्नलसद्दीप्ति मुकुटं मस्तके भृशम् ।

ललाटे तु चतुष्कोणं मुक्ताषोडशशोभितम्

॥१९॥

पुष्पं काञ्चनरत्नाढ्यं मुक्तादाम विलम्बितम् ।

सीमन्तान्तर्गतं चारु नासिके स्वर्णमौक्तिकम्

॥२०॥

अङ्गदे चारुणी बाह्वोर्हस्तयोर्वलयानि च ।

लसत्काञ्चनरत्नाढ्यं प्रत्येकमङ्गुलीयकम्

॥२१॥

मुक्ताफलमयीं मालां लसत्कञ्चुकसंश्रिताम् ।

हेमरत्नमयीं काञ्चीं कटौ क्षौमावृते शुभाम्

॥२२॥

गुल्फयोः श‍ृङ्खले हैमे सिञ्जच्चारूसुनूपरे ।

पादाङ्गुलीष्वपि पृथक् तत्तद्भूषणमुत्तमम्

॥२३॥

एवं सर्वानवद्याङ्गी रूदती विव्हला भृशम् ।

दृष्टा पृष्ठा न मां वक्ति गृह्णाति सा तवाभिधाम्

॥२४॥

ब्रह्मोवाच

इत्थं निशम्य हिमवांस्त्वरितस्तां सुतां ययौ ।

सान्त्वयन् हेतुगर्भाभिर्वाग्भिस्तामवदत्सुधीः

॥२५॥

हिमवानुवाच

किमर्थं शोचसे सुभ्रु सृष्टिस्थित्यन्तहेतुके ।

सर्वलक्षणसम्पूर्णे सर्वशक्तियुतेऽनघे

॥२६॥

अकर्तुमन्यथाकर्तुं कर्तुमीशे महेश्वरि ।

अवाप्तसर्वकामे च सर्वप्राण्यन्तरं गते

॥२७॥

न वियुक्ता शिवेन त्वं सर्वान्तर्यामिणी शुभे ।

अथापि योजयिष्ये त्वां शिवेन शिवकारिणा

॥२८॥

उत्तिष्ठेति गृहीत्वा तामाययौ निजमन्दिरम् ।

ननन्द पार्वती तत्र दृष्ट्वा मेनां सुतान्विताम्

॥२९॥

निश्वासपरमाऽप्यासीच्छिवं द्रष्टुं समुत्सुका ।

उवाच पितरं नत्वा साधूपायं वदस्व मे

॥३०॥

व्रतं दानं तपो वापि दुष्करं शिवलब्धये ।

करिष्ये तमहं तात पूर्ववत्तप उत्तमम्

॥३१॥

ब्रह्मोवाच

अवदज्जनकस्तां तु विचार्य मनसा सकृत् ।

कार्यसिद्धिकरं शीघ्रमुपायं श‍ृणु तं मुने

॥३२॥

हिमवानुवाच

श‍ृणु पार्वति वक्ष्यामि साधूपायं शिवाप्तये ।

उपास्तिं विघ्नराजस्य धर्मार्थकाममोक्षदाम्

॥३३॥

अनुष्ठितां महेन्द्राद्यैः देवैश्च नारदादिभिः ।

प्राप्ताश्च सिद्धयस्तास्ताः शक्रादिपदलक्षणाः

॥३४॥

ब्रह्मणः सृष्टिसामर्थ्यं दत्तं तेन महात्मना ।

विष्णोश्चावनसामर्थ्यं दत्तं सर्वेश्वेरण ह

॥३५॥

शिवस्यापि च तेनैव सामर्थ्यं संहृतौ दृढम् ।

शेषस्यापि च तेनैव सर्वविघ्नहरेण च

॥३६॥

धराधरणसामर्थ्यं दत्तं सर्वेश्वरेण ह ।

यस्य स्वरूपं न विदुर्ब्रह्माद्या मुनयोऽपि च

॥३७॥

वाचामगोचरो योऽसौ मनसोऽथाप्यगोचरः ।

गजाननस्वरूपेण परिदृष्योऽयमीश्वरः

॥३८॥

अतस्तेनैव रूपेण सर्वारम्भेषु पूज्यते ।

तमुपासस्व सर्वेशं मया प्रोक्तेन वर्त्मना

॥३९॥

इति श्रीगणेशपुराणे उपासनाखण्डे अम्बाविर्भावोनाम अष्टचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥