मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 64

3
उपासनाखण्डः · 64

दूर्वामाहात्म्य वर्णनं नाम चतुःषष्टितमोऽध्यायः

आश्रयोवाच

देवर्षिषु प्रयातेषु बाले चाचलवत् स्थिते ।

किमासीत् कौतुकं तत्र बाल कालानलोद्भवम्

॥१॥

तत्सर्वं विस्तरान्मह्यं कथयाशु महामुने ।

नारद उवाच ।

एवं तया कृतः प्रश्नः कौण्डिन्यो मुनिसत्तमः

॥२॥

यदब्रवीच्छचीभर्तस्तत्त्वं श‍ृणुमयोदितम् ।

कौण्डिन्य उवाच ।

अचलेऽचलवद् बाले स्थिते तस्मिन् गजानने

॥३॥

कालानल इवाक्षोभ्य आययौ सोऽनलासुरः ।

तस्मिन्क्षणेऽचला वाऽपि चचालाचलसंयुता

॥४॥

नभोदध्वान सदृश घनगर्जितनिःस्वनैः ।

निपेतुर्वृक्षशाखाभ्यः पक्षिवृन्दानि भूतले

॥५॥

निर्वारिर्वारिधिर्जातो वृक्षा उन्मूलितास्तदा ।

प्रकम्पनेन महता न प्राज्ञायत किञ्चन

॥६॥

तस्मिन्नेव क्षणे देवो बालरूपी गजाननः ।

दधारानलरूपं तं दैत्यं मायाबलेन हि

॥७॥

प्राशत् सर्वेषु पश्यत्सु जलधिं कुम्भजो यथा ।

ततः सोऽचिन्तय द्देवो यद्ययं जठरे गतः

॥८॥

दहेत् त्रिभुवनं कुक्षौ दृष्टमाश्चर्यमुत्कटम् ।

ततः शक्रो ददौ चन्द्रं तस्य वह्नेः प्रशान्तये

॥९॥

भालचन्द्रेति तं देवास्तुष्टुवुर्मुनयोऽपि च ।

तथापि न च शान्तोऽभूदनलः कठमध्यगः

॥१०॥

ततो ब्रह्मा ददौ सिद्धिबुद्धी मानस कन्यके ।

रम्भोरुपद्मनयने केशशैवलसंयुते

॥११॥

चन्द्रवक्त्रेऽमृतगिरौ कूपनाभी सरिद्गती ।

मृणालमध्ये प्रवाल हस्ते शैत्यस्य कारणे

॥१२॥

उवाचे मे समालिङ्ग्य तव शान्तोऽनलो भवेत् ।

तयोरालिङ्गने शान्तः किञ्चिदेव हुताशनः

॥१३॥

ददौ सुकोमलं तस्मै कमलं कमलापतिः ।

पद्मपाणिरिति प्रोचुस्तं सर्वे सुरमानुषाः

॥१४॥

अशान्तेऽग्नौ तु वरूणः सिषेच शीतलैर्जलैः ।

सहस्रफणिनं नागं गिरिशोऽस्मै ददावथ

॥१५॥

तेन बद्धोदरो यस्माद् व्यालबद्धोदरोऽभवत् ।

तथापि शैत्यं नापेदे कण्ठोऽस्यानलसंयुतः

॥१६॥

अष्टाशीतिसहस्राणि मुनयस्तं प्रपेदिरे ।

अमृता इव दूर्वास्ते प्रत्येकं सेकविंशतिम्

॥१७॥

आरोपयन् मस्तकेऽस्य ततः शान्तोऽनलोऽभवत् ।

तुतोष परमात्माऽसौ दूर्वाङ्कुरमरार्चितः

॥१८॥

एवं ज्ञात्वा तु ते सर्वे पुपूजस्तं गजाननम् ।

दूर्वाङ्कुरैरनेकैस्तैर्जहर्षासौ गजाननः

॥१९॥

उवाच च मुनीन् देवान् मत्पूजा भक्तिनिर्मिता ।

महती स्वल्पिका वापि वृथा दूर्वाङ्कुरैर्विना

॥२०॥

विना दूर्वाङ्कुरैः पूजाफलं केनापि नाप्यते ।

तस्मादुषसि मद्भक्तैरेका वाऽप्येकविंशतिः

॥२१॥

भक्त्या समर्पिता दूर्वा ददाति यत्फलं महत् ।

न तत्क्रतुशतैर्दानैर्व्रतानुष्ठान सञ्चयैः

॥२२॥

तपोभिरुग्रैर्नियमैः कोटिजन्मार्जितैरपि ।

प्राप्यते मुनयो देवा यद् दूर्वाभिरवाप्यते

॥२३॥

कौण्डिन्य उवाच

इति तद्वचनं श्रुत्वा देवा दूर्वाङ्कुरैः पुनः ।

आनर्चुः परमात्मानं देवदेवं गजाननम्

॥२४॥

जगर्जानन्दयुक्तोऽसौ नादयन् रोदसी भृशम् ।

हृष्टानां सर्व देवानां मुनीनां च नृणामपि

॥२५॥

अनेकशो वरान् दत्वा पिदधे बालरूपधृक् ।

कालानलप्रशमन इति तं ते समूचिरे

॥२६॥

प्रासादे निर्मिते सर्वे स्थाप्य मूर्तिं गजाननीम् ।

विघ्नहरोऽयमित्यस्याभिधां चक्रुर्मुदा सुराः

॥२७॥

अत्र स्नानं तथा दानं तपोऽनुष्ठानमेव च ।

अनन्तं जायते विघ्नहरस्यास्य प्रसादतः

॥२८॥

जयः प्राप्तो यतस्तेन पुरं च विजयाभिधम् ।

सर्वेषां च हता विघ्ना विघ्नहर्तेति सोऽभवत्

॥२९॥

कौडिन्य उवाच

इति ते कथितं सर्व दूर्वामाहात्म्यमुत्तमम् ।

श्रवणात् पठनाच्चास्य सर्वपापक्षयो भवेत

॥३०॥

पुरातनमितिहांसं श‍ृणु मे गदतः प्रिये

॥३१॥

इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥