मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 57

3
उपासनाखण्डः · 57

भ्रुशुण्ड्युपाख्यानं नाम सप्तपञ्चाशत्तमोऽध्यायः

शक्र उवाच

हन्त ते कथयिष्यामि कथामेकां पुरातनीम् ।

यथा तेनाऽऽपि सादृश्यं गणनाथस्य भक्तितः

॥१॥

दण्डकारण्य देशेषु नगरे नन्दुराभिधे ।

एकः कैवर्तको दुष्टो नाम्ना नामैव विश्रुतः

॥२॥

आबाल्याच्चौर्यनिरतो यौवने जारकर्मकृत् ।

प्रत्यक्षं दृष्टिविगमाद्धरते च शपत्यपि

॥३॥

शपथान्कुरुते मिथ्या परहृद्भेदकारकान् ।

ततो निःसारितो ग्रामाद्द्यूतमद्यरतो यतः

॥४॥

लोकैर्बहिर्दूरतरं गिरिकन्दरकानने ।

स्थितः कान्तायुतो मार्गे जघान पथिकान्बहून्

॥५॥

एवं बहुधनो जातो नानालङ्करणैः स्त्रियम् ।

भूषयामास ससुतां तोषयामास मायया

॥६॥

शस्त्रं खड्गं च खेटं च पाशान्धानुरनुत्तमम् ।

दण्डं चोभयतो लोहं वहन्पूर्णे महेषुधी ।

वृक्षाग्रे कोटरे वापि स्थितो मारयते बहून्

॥७॥

नानाविधानि वस्तूनि वासांस्याभरणानि च ।

गृहे सञ्चयते नीत्वा विक्रीणाति पुरान्तरे

॥८॥

यथेष्टं भजते नित्यं विषयान्मन्दिरे निजे ।

एवं पापसमाचारो हन्त्यरण्ये पशूनपि

॥९॥

एकदा कस्यचित् पृष्ठे धावितो योजनावधि ।

स तु तस्माद्गतो दूरं स्खलित्वा पतितो भुवि

॥१०॥

तत उत्थाय कष्टेन शनैः शनैर्ययौ खलः ।

अपश्यत्पथि गच्छन् स तीर्थं गाणेश्वरं शुभम्

॥११॥

अकरोन्मज्जनं तत्र श्रममेव व्यपोहितुम् ।

ततोऽगच्छन् स्वविषयं ददर्श पथि मुद्गलम्

॥१२॥

जपन्तं गणनाथस्य मन्त्रं नामसमन्वितम् ।

खड्गमुद्यम्य निष्कोशं मुद्गलस्यान्तिकं ययौ

॥१३॥

कैवर्तको नाम नामा हन्तुं कृतमतिस्तदा ।

जगलुस्तस्य शस्त्राणि खड्गोऽपि दृढमुष्टितः

॥१४॥

अन्यथा चाभवद् बुद्धिस्तस्य दुष्टस्य तत्क्षणात् ।

द्विरदाननभक्तस्य मुद्गलस्य प्रभावतः

॥१५॥

जहास मुनिमुख्योऽसौ दृष्ट्वा तं तु तथाविधम् ।

पप्रच्छ संयतः कस्माच्छस्राणि गलितानि ते

॥१६॥

बद्धान्यपि च सर्वाणि पतितानि कुतो वद ।

इन्द्र उवाच ।

गणेशतीर्थस्नानेन मुनेरालोकनेन च ।

ज्ञानवैराग्ययुक्तोऽसावब्रवीन् मुद्गलं वचः

॥१७॥

कैवर्त्तक उवाच

आश्चर्यं परमं मन्ये कुण्डस्नानेन मे मतिः ।

विपरीताऽभवद्ब्रह्मन् विशेषाद्दर्शनेन ते

॥१८॥

बाल्यात् प्रभृति मे दुष्टा बुद्धिः पापरताऽभवत् ।

असङ्ख्यातानि पापानि कृतान्यद्यावधि प्रभो

॥१९॥

इदानीमेव निर्विण्णा मतिर्मे त्वप्रसादतः ।

नादास्ये पुनरेतानि शस्त्राणि पतितानि मे

॥२०॥

कुरू मेऽनुग्रहं पूर्णमुद्धरस्व भवार्णवात् ।

साधवो ह्यनुगृह्णन्ति दीनान् दुष्कृतिनोऽपि च

॥२१॥

न साधुसङ्गमः क्वापि वृथा दृष्टो महामुने ।

यथा शेवधिसम्पर्को न धातुषु वृथा भवेत्

॥२२॥

शक्र उवाच

एवमुक्तो मुद्गलोऽसौ तं जगाद कृपान्वितः ।

शरणागतसंत्यागे स्मरन्दोषं विशेषतः

॥२३॥

मुद्गल उवाच

विधिप्रयुक्ते दानादौ नाधिकारोऽस्ति कुत्रचित् ।

तथापि ते नामजपं कथयामि प्रसादतः

॥२४॥

गजाननस्य परमं सर्वसिद्धिकरं नृणाम् ।

ततः प्रणाममकरोत् कैवर्तो मुद्गलं मुनिम्

॥२५॥

(स करं स्थापयामास तस्य मूर्ध्न्य भयङ्करम्) गणेशाय नम इति नाममन्त्रमुपादिशत्

॥२६॥

स्वयष्टिं रोपयामास पुरस्तस्य धरातले ।

उवाच चैनं सम्प्रीत्या यावदागमनं मम

॥२७॥

तावज्जपस्व नामेदं यावद्यष्टिश्च साङ्कुरा ।

एकासनगतो वायुभक्ष एकाग्रमानसः

॥२८॥

सायं प्रातर्जलं देहि यष्टिमूले निरन्तरम्

॥२९॥

शक्र उवाच

उपदिष्टो मुद्गलेन नामा कैवर्तकस्तदा ।

निराशो जीविते तस्थौ तस्मिन्नन्तर्हिते मुनौ

॥३०॥

एकासनगतोऽरण्ये जजाप नाममन्त्रकम् ।

पुरोधाय मुनेंर्यष्टिं वृक्षच्छायासमाश्रितः

॥३१॥

निराहारो निरीहश्च जितेन्द्रियगणो वशी ।

एवं सहस्रवर्षान्ते सा यष्टिः साङ्कुराऽभवत्

॥३२॥

ततः प्रतीक्षामकरोन्मुनेंरागमनस्य यः ।

वल्मीकवेष्टिततनुर्लताजालसमन्वितः

॥३३॥

ततो मुनिर्मुद्गलोऽपि दैवात्तं देशमाययौ ।

संस्मार च तदा यष्टिं तं च कैवर्तकं यदा

॥३४॥

ददर्श भ्रममाणः स साङ्कुरां यष्टिमुत्तमाम् ।

वल्मीकाक्रान्त देहं च तं च कैवर्तकं मुनिः

॥३५॥

दुश्चरं मुनिभिः सर्वैरास्थितं तप उत्तमम् ।

लक्षितं नेत्रमात्रेण यतता मुनिना तदा

॥३६॥

उत्साद्य तस्य देहस्थं वल्मीकं मुनिसत्तमः ।

मन्त्रितेन जलेनास्य सिषेचाङ्गं च सर्वशः

॥३७॥

तदैव दिव्यदेहं तं जगाद मुनिसत्तमः ।

प्राप्तवन्तं गणेशस्य सारूप्यं करयोगतः

॥३८॥

द्विकरं प्रजपन्तं च नाम वैनायकं शुभम् ।

उन्मीलीते तदा नेत्रे मुनिना बोधितस्तु सः

॥३९॥

तस्य नेत्रोद्भवे वह्निर्विद्युद्वद गगनं गतः ।

त्रिलोकीमुद्यतो दग्धुं मुनिना वारितो यतः

॥४०॥

सोऽपि तं मुनिमानम्य स्वगुरुं करूणायुतम् ।

आलिलिङ्ग मुदा युक्तस्तनयः पितरं यथा

॥४१॥

उपदिष्टो मुद्गलेन नाम कैवर्तकस्तदा ।

वल्मीकात् पुनरूत्पन्नं मानयामास तं सुतम्

॥४२॥

चकार नाम कर्मास्य मुद्गलो मुनिरादरात् ।

भूमध्यान्निर्गता शुण्डा भ्रुशुण्डीतिततो नृप

॥४३॥

एकाक्षरं च मन्त्रं च तस्मै प्राहाथ मुद्गलः

॥४४॥

वरानस्मै ददौ पश्चाद्भव त्वं मुनिसत्तमः ।

इन्द्रादिदेवगन्धर्वैः सिद्धैरर्च्यतमो भव

॥४५॥

यथा गजाननो देवो ध्यातो दृष्टोऽघनाशनः ।

तथाहि त्वमपि मुने भ्रुशुण्डिः प्रथितो भव

॥४६॥

यस्य ते दर्शनं स्यात्स कृतकृत्यो भवेन्नरः ।

आयुश्च कल्पलक्षं ते भविता मम वाक्यतः

॥४७॥

एवं बहुविधान् तस्मै वरान् यच्छति मुद्गले ।

ययुरिन्द्रादयो द्रष्टुं मुनयो नारदादयः

॥४८॥

ऊचुस्तं प्रणिपत्यैव भ्रुशुण्डे तव दर्शनात् ।

सार्थकं जन्म नो विद्या पितरौ च तपो यशः

॥४९॥

त्वमेव गणनाथोऽसि पूजनीयोऽसि नो मुने ।

स तु सम्पूज्य तान् सर्वान् प्रणम्य च विसृज्य च

॥५०॥

पुनः पद्मासनगतो जजापैकाक्षरं मनुम् ।

पुरो मूर्तिं प्रतिष्ठाप्य गणेशस्य मनोहराम्

॥५१॥

उपचारैः षोडशभिरपूपुजद्दिनेदिने ।

आश्रमश्च बभौ वापीसरोवृक्षलतादिभिः

॥५२॥

त्यक्तवैरैः सिंहमृगैर्नकुलैर्भुजगोत्तमैः ।

ततो वर्षशतस्यान्ते प्रसन्नोऽभूद्गजाननः

॥५३॥

उवाच मत्स्वरूपस्त्वं किमर्थं तपसे तपः ।

कृतकृत्योऽसि सायुज्यमायुषोऽन्ते च लप्स्यसे

॥५४॥

इदं क्षेत्र सुविख्यातं नामलेति भविष्यति ।

अनुष्ठानकृतामन्त्र नानासिद्धिप्रदं नृणाम्

॥५५॥

मन्मूर्तिदर्शनादत्र न पुनर्जन्मभाग् भवेत् ।

अपुत्रश्च लभेत् पुत्रान् विद्यार्थी ज्ञानमाप्नुयात्

॥५६॥

शक्र उवाच

इति ते कथितं सर्वं शूरसेन नृपोत्तम ।

यत्वया परिपृष्टं मे किमन्यच्छ्रोतुमिच्छसि

॥५७॥

इति श्रीगणेशपुराणे उपासनाखण्डे भ्रुशुण्ड्युपाख्यानं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥