व्यास प्रश्न वर्णनं नाम दशमोऽध्यायः
भृगुरुवाच
नारायणांशसम्भूतः पाराशर्यो महामुनिः ।
अतीतानागतज्ञानी वेदशास्त्रार्थतत्त्ववित्
॥१॥कृत्वा वेदं चतुर्भागं तदर्थज्ञानसिद्धये ।
स विद्यामदगर्वेण पुराणं कर्तुमारभत्
॥२॥समाप्तिसाधनं नैव कृतवान्मङ्गलं पुरा ।
गणेशस्य नतिं वापि स्तुतिं वा तस्य वा क्वचित्
॥३॥ततो विघ्नाभिभूतः सन्नर्थं कञ्चन नास्मरत् ।
भ्रान्तिरेवाभवत्तस्य लौकिकेऽलौकिके पथि
॥४॥नित्ये नैमित्तिके काम्ये श्रौते स्मार्ते च कर्मणि ।
व्याख्यातुर्वेदशास्त्राणां सर्वज्ञस्य सतोऽपि हि
॥५॥ओषधीभिश्च मन्त्रैश्च भग्नवीर्य इवाहिराट् ।
तस्तम्भे स्वात्मनि भृशं तद्धेतुं नाध्यगच्छत
॥६॥ततोऽगच्छत् सत्यलोकं धातारं प्रष्टुमादरात् ।
विस्मयाक्रान्तहृदयो ह्रिणः पाराशरो मुनिः
॥७॥नमस्कृत्य देवगणान् देवर्षीन् कमलासनम् ।
पूजितो ब्रह्मणा दत्ते निषसादासने शुभे
॥८॥पाणिना चास्पृशत् पादौ पाराशर्यो महामुनिः ।
प्रणयावनतो भूत्वा ब्रह्माणं प्रष्टुमारभत्
॥९॥व्यास उवाच
ब्रह्मन्नद्भुतमेतद्धि किं मे दैवादुपस्थितम् ।
वेदार्थानि पुराणानि कर्तुं मे बुद्धिरादृता
॥१०॥आवीक्षतोऽखिलाँल्लोकान् ज्ञानाचारविवर्जितान् ।
कलौकर्मजडाँस्तब्धान्नास्तिकान् वेदनिन्दकान्
॥११॥विधिं चैव निषेधं च ज्ञास्यन्ति मम वाक्यतः ।
ममैव तु गतं ज्ञानं भ्रान्तः क्षीब इवाऽभवम्
॥१२॥न हेतुं तत्र पश्यामि स्फूर्तिः काऽपि न जायते ।
तद्धेतुं स्फूर्तिहेतुञ्च प्रष्टुं त्वामहमागतः
॥१३॥अन्यं कं शरणं यामि विना त्वां चतुरानन ।
सर्वज्ञः सर्वकर्ता त्वं मम भ्रान्तिं निवारय
॥१४॥वद हेतुं मम भ्रान्तेर्नानारायणस्वरूपिणः ।
नित्याचाररतो ब्रह्मन् सर्वज्ञस्य सतोऽपि च
॥१५॥सूत उवाच
एवमाकर्ण्य तद्वाक्यं विचार्यं कमलासनः ।
प्रणतं मुनिमभ्याह प्रहसन्विस्मयन्निव
॥१६॥ब्रह्मोवाच
हन्त ते कथयिष्यामि गतिं सूक्ष्मां हि कर्मणाम् ।
विचार्य सम्यक्कर्तव्यं कर्मसाध्वितरच्च यत्
॥१७॥अन्यथा कुर्वतः पुंसः कृतं भवति चान्यथा ।
बुद्ध्या युक्त्याऽऽर्जवेनापि गुरूणि च लघूनि च
॥१८॥कार्याणि साधयेद्धीमान् न गर्वान्न च मत्सरात् ।
वाहनत्वं समापन्नो गर्वेण तु खगेश्वरः
॥१९॥मत्सरान्नाशितं सर्वमाम्बिकेय सुतेन च ।
मत्सरादेव रामेण क्षत्रमुत्सादितं पुरा
॥२०॥योऽनादिनिधनोदेवो जगत्कर्ता जगन्मयः ।
जगद्धाता जगद्धर्ता सदसद्व्यक्तमव्ययम्
॥२१॥यो कर्तुमन्यथा कर्तुं शक्तः कर्तुं च सर्वदा ।
यस्याऽऽज्ञावशगा नित्यं देवा इन्द्रपुरोगमाः
॥२२॥अहं विष्णुश्च रुद्रश्च सूर्याग्निवरुणादयः ।
यो विघ्नहर्ता भक्तानां विघ्नकर्तेतरस्य च
॥२३॥तस्मिँस्त्वं कृतवान् गर्वं स्वविद्याबलसंश्रयात् ।
सर्वज्ञताऽभिमानेन न कृतं पूजनं त्वया
॥२४॥स्मरणं वा गणेशस्य प्रारम्भेऽन्यस्य वा तथा ।
न कृतं च त्वया व्यास तेन भ्रान्तिस्तवाऽनघ
॥२५॥आरम्भे सर्वकार्याणां प्रवेशे वापि निर्गमे ।
श्रौते स्मार्ते लौकिके यो स्मृतोऽविघ्नं करोतिच
॥२६॥यमाहुः परमानन्दं यमाहुः परमां गतिम् ।
यमाहुः परमं ब्रह्म वेदशास्त्रार्थदर्शिनः ।
तं गच्छ शरणं वत्स द्विरदाननमादरात्
॥२७॥स चेत्प्रसन्नो भगवान् वाञ्छितं ते करिष्यति ।
नो चेद् वर्ष सहस्रेण न स्ववाञ्छामवाप्स्यति
॥२८॥व्यास उवाच
को सौ गणेशः किं चास्य रूपं वेद्यं कथं च तत् ।
कस्य वाऽयं प्रसन्नोऽभूत् पूर्वं हि चतुरानन
॥२९॥कति वा ह्यवताराश्च किं किङ्कार्य च वै कृतम् ।
पूर्वं च पूजितः केन कस्मिन्काले स्मृतोऽपि च
॥३०॥मम विक्षिप्तचित्तस्य पृच्छतः प्रपितामह ।
एतत्सर्वं सुविस्तार्यं ब्रूहि मे करुणानिधे
॥३१॥इति श्रीगणेशपुराणे उपासनाखण्डे व्यासप्रश्नवर्णनं नाम दशमोऽध्यायः ॥ १० ॥