मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 49

3
उपासनाखण्डः · 49

गणेश पार्थिवपूजा निरूपणं नामैकोन पञ्चाशत्तमोऽध्यायः

पार्वत्युवाच

दयानिधे गिरीन्द्र त्वं पितर्मे वद सत्वरम् ।

उपासनां गणेशस्य सर्वेशस्य जगद्गुरोः

॥१॥

यया शिवं समभ्येत्य शिवं प्राप्स्यामि शाश्वतम् ।

मर्त्यलोकेऽपि लोकानामुपकारो भविष्यति

॥२॥

हिमवानुवाच

तवस्नेहवशाद्देवि रहस्यं परमं शुभम् ।

लोकानां चोपकाराय वक्ष्ये श‍ृण्वेकचेतसा

॥३॥

प्रत्यूषकाल उत्थाय नैऋतीं दिशमाव्रजेत् ।

आच्छाद्य धरणीं पूर्वं तृणकाष्ठदलैरपि

॥४॥

उर्वरां वर्जयेत्तिष्ठन्नुत्सर्पन्न्नच बुद्धिमान् ।

त्यक्त्वा मूत्रपुरीषे तु यथोक्तं शौचमाचरेत्

॥५॥

दन्तजिव्हाविशुद्धिञ्च कृत्वा स्नातुं ततो व्रजेत् ।

नदीं तडागं वापीं वा सरः कूपमथापि वा

॥६॥

कृत्वा पूर्वं मलस्नानं मन्त्रस्नानं ततश्चरेत् ।

मृदा वा चन्दनेनापि तिलकं कुङ्कुमेन वा

॥७॥

कुर्याद्धौते वाससी वा परिधाय शुभानने ।

उपविशैकचित्तस्तु सर्वं नित्यं समाप्य च

॥८॥

मृत्तिकां सुन्दरां स्निग्धां क्षुद्रपाषाणवर्जिताम् ।

सुविशुद्धामवल्मीकां जलसिक्तां विमर्दयेत्

॥९॥

कृत्वा चारुतरां मूर्तिं गणेशस्य शुभां स्वयम् ।

सर्वावयवसम्पूर्णां चतुर्भुजविराजिताम्

॥१०॥

परश्वादिस्वायुधानि दधतीं सुन्दरां घनाम् ।

स्थाप्य पीठे ततः पाणी प्रक्षाल्य मेलयेत् सुधीः

॥११॥

पूजाद्रव्याणि सर्वाणि जलादीनि प्रयत्नतः ।

अष्टगन्धानक्षतांश्च रक्तपुष्पाणि गुग्गुलम्

॥१२॥

त्रिपञ्चसप्तभिः पत्रैर्युतान् दुर्वाङ्कुरान् शुभान् ।

अष्टोत्तरशतं नीलान् श्वेतानानीय सुन्दरान्

॥१३॥

घृतदीपं तैलदीपं नैवेद्यं विविधं शुभम् ।

मोदकापूपलड्डूकान् पायसं शर्करायुतम्

॥१४॥

सूक्ष्मं च तन्दुलान्नं च व्यञ्जनानि बहुनि च ।

सचन्द्रपूगचूर्णाढ्यं खाद्यखादिरसंयुतम्

॥१५॥

एलालवङ्गसम्मिश्रं ताम्बूलं केसरान्वितम् ।

जम्ब्वाम्रपनसादीनि द्राक्षारम्भाफलानि च

॥१६॥

तत्तदृतुभवानीशे नालिकेराणि चानयेत् ।

(नारिकेलानि) बहुप्रकारमार्तिक्यं काञ्चनी दक्षिणां तथा

॥१७॥

एवं सम्भृतसम्भार एकान्तस्थलमास्थितः ।

चैलाजिने कुशमये आसने च कृतासनः

॥१८॥

भूतशुद्धि प्रकुर्वीत प्राणानां स्थापनं तथा ।

दिग्बन्धपूर्वं देवांश्च गणेशादीन् नमेत्पुरा

॥१९॥

अन्तर्बहिर्मातृकाश्च न्यसेदागममार्गतः ।

सन्निधानादिका मुद्रा दर्शयेद्गुरूमार्गतः ।

मन्त्रन्यासं ततः कृत्वा षडङ्गन्यासमेव च

॥२०॥

पूजाद्रव्याणि संशोध्य ततो ध्यायेद् गजाननम् ।

एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम्

॥२१॥

पाशाङ्कुश धरं देवं मोदकान् बिभ्रतं करैः ।

रक्तपुष्पमयीं मालां कण्ठे हस्ते परां शुभाम्

॥२२॥

भक्तानां वरदं सिद्धिबुद्धिभ्यां सेवितं सदा ।

सिद्धिबुद्धिप्रदं नॄणां धर्मार्थकाममोक्षदम् ।

ब्रह्मरुद्रहरीन्द्राद्यैः संस्तुतं परमर्षिभिः

॥२३॥

आगच्छ जगदाधार सुरासुरवरार्चिता ।

अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजित

॥२४॥

स्वर्णसिंहासनं दिव्यं नानारत्नसमन्वितम् ।

समर्पितं मयादेव तत्र त्वं समुपाविश

॥२५॥

देवदेवेश सर्वेश सर्वतीर्थाहृतं जलम् ।

पाद्यं गृहाण गणप गन्धपुष्पाक्षतैर्युतम्

॥२६॥

प्रवालमुक्ताफलपुगरत्न ताम्बूलजाम्बूनदमष्टगन्धम् ।

पुष्पाक्षतायुक्तममोघशक्ते दत्तं मयार्घ्यं सफलीकुरुष्व

॥२७॥

गङ्गादिसर्वतीर्थेभ्यः प्रार्थितं तोयमुत्तमम् ।

कर्पूरैलालवङ्गादिवासितं स्वीकुरु प्रभो

॥२८॥

चम्पकाशोकबकुलमालतीमोगरादिभिः ।

वासितं स्निग्धताहेतु तैलं चारु प्रगृहयताम्

॥२९॥

कामधेनु समुद्भूतं सर्वेषां जीवनं परम् ।

पावनं यज्ञहेतुस्ते पयः स्नानार्थमर्पितम्

॥३०॥

धेनुदुग्धसमुद्भूतं शुद्धं सर्वजनः प्रियम् ।

मयाऽऽनीतं दधिवरं स्नानार्थं प्रतिगृह्यताम्

॥३१॥

नवनीतसमुत्पन्नं सर्वसन्तोषकारणम् ।

यज्ञाङ्गं देवताहारो घृतं स्नातुं समर्पितम्

॥३२॥

पुष्पसारघसम्भूतं सर्वतेजोविवर्धनम् ।

सर्वपुष्टिकरं देव मधुस्नानार्थमर्पितम्

॥३३॥

इक्षुसारसमुद्भूतां शर्करां सुमनोहराम् ।

मलापहारिणी स्नातुं गृहाण त्वं मयाऽर्पिताम्

॥३४॥

सर्वमाधुर्यसद्हेतुः स्वादुः सर्व प्रियङ्करः ।

पुष्टिकृत् स्नातुमानीत इक्षुसारभवो गुडः ३५ ॥

कांस्ये कांस्येन पिहितो दधि मध्वाज्यपूरितः ।

मधुपर्को मयाऽऽनीतः पूजार्थं प्रतिगृह्यताम्

॥३६॥

सर्वतीर्थाहृतं तोयं मया प्रार्थनया विभो ।

सुवासितं गृहाणेदं सम्यक् स्नातुं सुरेश्वर

॥३७॥

रक्तवस्त्रयुगं देव लोकलज्जानिवारणम् ।

अनर्घ्यमतिसूक्ष्मं च गृहाणेदं मयार्पितम्

॥३८॥

राजतं ब्रह्मसूत्रं च काञ्चनं रत्नसंयुतम् ।

भक्त्योपपादितं देव गृहाण परमेश्वर

॥३९॥

अनेकरत्नयुक्तानि भूषणानि बहूनि च ।

तत्तदङ्गे काञ्चनानि योजयामि तवाज्ञया

॥४०॥

अष्टगन्धसमायुक्तं रक्तचन्दनमुत्तमम् ।

द्वादशाङ्गेषु ते देव लेपयामि कृपां कुरू

॥४१॥

रक्तचन्दनसम्मिश्रास्तण्डुलास्तिलकोपरि ।

शोभायै सम्प्रदास्यामि गृहाण जगदीश्वर

॥४२॥

पाटलं कर्णिकारं च बन्धूकं रक्तपङ्कजम् ।

मोगरं मालतीपुष्पं गृह्यतां परमेश्वर

॥४३॥

नानापङ्कजपुष्पैश्च ग्रथितां पल्लवैरपि ।

बिल्वपत्रयुतां मालां गृहाण सुमनोहरम्

॥४४॥

दशाङ्गं गुग्गुलं धूपं सर्वसौगन्ध्यकारकम् ।

सर्वपापक्षयकरं त्वं गृहाण मयाऽर्पितम्

॥४५॥

सर्वज्ञ सर्वलोकेषु तमोनाशनमुत्तमम् ।

गृहाण मङ्गलं दीपं देवदेव नमोऽस्तु ते

॥४६॥

नानापक्वान्नसंयुक्तं पायसं शर्करान्वितम् ।

नानाव्यञ्जन शोभाढ्यं शाल्योदनमनुत्तमम्

॥४७॥

दधिदुग्धघृतैर्युक्तं लवङ्गैलासमन्वितम् ।

मरीचिचूर्णसहितं क्वथिकावटकान्वितम्

॥४८॥

राजिकाधान्यसंयुक्तं मेथीपिष्टं सतक्रकम् ।

हिङ्गुजीरककूष्माण्डमरीचिमाषपिष्टकैः

॥४९॥

सम्पादितैः सुपक्वैश्च भर्जितैर्वटकैर्युतम् ।

मोदकापूपलड्डूकशष्कुलीमण्डकादिभिः

॥५०॥

पर्पटैरपि संयुक्तं नैवेद्यममृतान्वित् ।

हरिद्राहिङ्गुलवणसहितं सूपमुत्तमम्

॥५१॥

ससामुद्रं गृहाणेदं भोजनं कुरु सादरम् ।

सुतृप्तिकारकं तोयं सुगन्धं च पिबेच्छया

॥५२॥

त्वयि तृप्ते जगत्तृप्तं नित्यतृप्ते महात्मनि ।

उत्तरापोशनारर्थं ते दद्मि तोयं सुवासितम्

॥५३॥

मुखपाणिविशुद्ध्यर्थं पुनस्तोयं ददामि ते ।

दाडिमं मधुरं निम्बुजम्ब्वाम्रपनसादिकम्

॥५४॥

द्राक्षा रम्भाफलं पक्वकर्कन्धूखार्जुरं फलम् ।

नारिकेलं च नारङ्गमाञ्जिरं जम्बिरं तथा

॥५५॥

उर्वारुकं च देवेश फलान्येतानि गृह्यताम् ।

मुखपाणि विशुद्धयर्थं पुनस्तोयं ददामि ते

॥५६॥

गृहाण चन्दनं चारु कराङ्गोद्वर्तनं शुभम् ।

नानापरिमलद्रव्यैर्निर्मितं चूर्णमुत्तमम्

॥५७॥

सुगन्धिनामकं पुण्यगन्धि चारु प्रगृह्यताम् ।

चारुशालूरसम्भूतं वंशसारसमुद्भवम्

॥५८॥

सीमन्तभूषणं चूर्णं लाक्षारञ्जितमस्तु ते ।

सचन्द्रपूगचूर्णाढ्यं खाद्यखादिर संयुतम्

॥५९॥

एलालवङ्गसम्मिश्रं ताम्बूलं केसरान्वितम् ।

न्यूनातिरिक्तपूजायाः सम्पूर्णफलहेतवे

॥६०॥

दक्षिणां काञ्चनीं देव स्थापयामि तवाग्रतः ।

सितपीतैस्तथारक्तैर्जलजैः कुसुमैः शुभैः

॥६१॥

ग्रथितां सुन्दरां मालां गृहाण परमेश्वर ।

हरिताः श्वेतवर्णा वा पञ्चत्रिपत्रसंयुताः

॥६२॥

दूर्वाङ्कुरा मया दत्ता एकविंशतिसम्मिताः ।

एकविंशति सङ्ख्याकाः कुर्वे देवप्रदक्षिणाः

॥६३॥

पदे पदे ते देवेश नश्यन्तु पातकानि मे ।

औदुम्बरे राजते वा कांस्ये काञ्चनसम्भवे

॥६४॥

पात्रे प्रकल्पितान् दीपान् गृहाण चक्षुरर्पकान् ।

पञ्चारार्ति पञ्चदीपैर्दीपितां परमेश्वर

॥६५॥

चारुचन्द्रनिभं दीपं गृहाण वीचिवारणम् ।

यथाऽस्य नेक्ष्यते भस्म तथा पापं विनाशय

॥६६॥

स्तोत्रैर्नानाविधैः सूक्तैः सहस्रनामभिस्ततः ।

उपविश्य स्तुवीतैनं कृत्वा स्थिरतरं मनः

॥६७॥

दीनाधीश दयानिधे सुरगणैः संसेव्यमान द्विज ब्रह्मेशानमहेन्द्रशेषगिरिजागन्धर्वसिद्धैः स्तुत ।

सर्वारिष्टनिवारणैकनिपुणः त्रैलोक्यानाथं प्रभो भक्तिं मे सफलां कुरुष्व सकलां क्षान्त्वाऽपराधान्मम

॥६८॥

इति मूर्ति समभ्यर्च्य दण्डवत्प्रणिपत्य च ।

जपेन्मन्त्रं ततो देवि सर्वसिद्धि प्रदायकम्

॥६९॥

इति श्रीगणेशपुराणे उपासनाखण्डे गणेशपार्थिवपूजानिरूपणं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥